#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00119 Uniform title: śaktisaṃgamatantra tārākhanda Editor : baṭṭācārya b Description: Transcribed from śaktisaṃgamatantra critically edited by Benoytosh Bhattacharyya, In three Volumes Vol. II tārākhanda Baroda Oriental Institute 1941 Notes: Transcribed by the staff of Muktabodha under the direction of Mark Dyczkowski. Revision 0: Sept. 16, 2008 Publisher : Baroda Oriental Institute Publication year : 1941 Publication city : Baroda Publication country : India #################################################### श्रीगुरुभ्यो नमः | श्रीशक्तिसङ्गमतन्त्रम् | ताराखण्डः || २ || प्रथमः पटलः आदिनाथ उवाच कालि कालि महाकालि प्रिये दक्षिणकालिके | कादिहादिमताधीशे षष्टिसिद्धिप्रदर्शिनि || १ || सब्रह्मरूपिणि शिवे रहस्यमपि कथ्यताम् | पूर्वं संसूचितं देवि न मह्यं कथितं त्वया || २ || तन्मे कथय देवेशि यदि मे करुणा तव | श्रीकाल्युवाच रहस्यं सर्वगोप्यं यत्तदेव कथ्यते शृणु || ३ || एकं दशं शतं देव सहस्रं त्वयुतं तथा | गदितं नियुतं देव तदेव लक्षवाचकम् || ४ || ततश्च प्रयुतं देव दशलक्षप्रवाचकम् | कोटिश्च दशकोटिश्च त्वर्बुदं च दशार्बुदं || ५ || खर्वश्च काष्ठखर्वश्च निखर्वं दिङिखर्वकम् | जलधिश्चान्तमध्यं च वृन्दमब्जं ततः परम् || ६ || लयश्चैव महेशान ततः प्रोक्तो महालयः | शंखश्चैव महाशंखः पद्मं च महापद्मकम् || ७ || मुकुन्दः कुन्दनीलश्च महानीलश्च शंकर | मकरः कच्छपश्चैव परार्धं तदनन्तरम् || ८ || पारे परार्द्धं च तथा चातः संख्या न विद्यते | अनन्तं तत्तदग्रे स्यादित्युक्तं कालिकागमे || ९ || दशोत्तरक्रमाज्ज्ञेया संख्या चैषा महेश्वर | आगमग्रन्थसंख्या च कथ्यते शृणु साम्प्रतम् || १० || पंचाशद्वै महाभारो ग्रन्थसंख्या प्रकीर्तिता | एकं दशं शतं ज्ञेयं सहस्रं नियुतं तथा || ११ || प्रयुतमर्बुदं खर्वं वृन्दखर्वं निखर्वकम् | शङ्खं पद्मं समुद्रोऽथ मध्यमं वान्त्यमेव च || १२ || पराख्यं परमे चैव परार्द्धं तत्परार्द्धकम् | दशोत्तरक्रमेणैव संख्या लक्षणसंग्रहे || १३ || द्वात्रिंशदक्षरं यत्र स ग्रन्थेति निगद्यते | सैव श्लोकेति गदितस्तारानेत्रसमुद्भवः || १४ || एतन्मध्ये महेशानि सर्व यामलडामराः | तंत्राणि त्वर्णवश्चैव चूडामणिशतत्रयम् || १५ || चिन्तामणिः कल्पतरुः कल्पाः सर्वे प्रतिष्ठिताः | कामधेनुः पारिजातस्त्वमृतं दर्पणं तथा || १६ || सोपानसंहिताश्चापि तथोपसंहितादयः | सांख्यायनावर्तनत्वात्तथा मूलावतारकाः || १७ || पुराणान्युपसंख्यानि रहस्यानि बहूनि च | बृहद्रहस्योज्जाबाले हृदयानि बहूनि च || १८ || कौमुद्यादीनि देवेश तथैव चन्द्रिका शिव | पातंजलादिकादीनि तथा सारस्वतादिकाः || १९ || उपतंत्राणि सर्वाणि पर्यायाम्नायकागमाः | बृहत्संज्ञानि देवेश यथायोगक्रमेण च || २० || उपशब्दो बृहच्छक्तिस्तन्त्रयामलगोचरः | श्रीशिव उवाच ग्रन्थ नाम त्वया प्रोक्तं कियत्कुत्रं स्थितं वद् || २१ || कियद्वैमर्त्यलोकेषु स्वर्गपातालयोः कियत् | श्रीकाल्युवाच पंचाशद्वै महाभारैः षट्त्रिंशत्संख्यकं भुवि || २२ || मनुसंख्या स्वर्गलोके पाताले दश वै स्थिता | एवमागमसन्दोहः कथितस्ते मया तव || २३ || शैवं शाक्तं गाणपत्यं सौरं वैष्णवमेव च | महावीरं पाशुपतं वैष्णवं वीरवैष्णवम् || २४ || प्. ३) वीरशैवं तथा चान्द्रं स्वायम्भुवमनन्तरम् | पांचरात्रं गारुडं च केरलं शाबरं तथा || २५ || श्रीसिद्धशाबरं देव तथैव कालशाबरम् | कुमारीशाबरं देव विजयाशाबरं तथा || २६ || कालिकाशाबरं दिव्यशाबरं वीरशाबरम् | श्रीनाथशाबरं देव तारिणीशाबरं परम् || २७ || श्रीशम्भुशाबरं रुद्रसंख्या शाबरजातयः | रक्तघोरस्तथा शुक्लो घोरविण्मूत्रकस्तथा || २८ || वीणाघोरस्तथा नीलः सर्वभक्षाभिधस्ततः || २९ || घोराघोरस्तथा सिद्धो घोराश्चैकाष्दश स्मृताः | मायाकापालिकं चापि वीरबौद्धागमौ तथा || ३० || जैनागमो रक्तशुक्लपटसंबंधिजातयः | चीनभेदास्तु बहवो द्विशतेति प्रकीर्तिताः || ३१ || बौद्धानां शतभेदाः स्युर्दश पाशुपते स्मृताः | कौले भेदाष्टकं चावधूतं वैदिकशास्त्रकम् || ३२ || यथावर्णानुधर्मेण योजनीयं प्रयत्नतः | ध्येषु येषु च वर्णेषु ये ये धर्माः प्रकीर्तिताः || ३३ || तेषु तेषु च ते धर्मा योजनीयाः प्रयत्नतः | ब्राह्मणेन तथा कार्यं ब्राह्मण्यं न विनश्यति || ३४ || अथान्यवर्णेष्वेवं हि कर्तव्यं मृडशंकर ईश्वर | एतद्ग्रन्थरहस्यं च यो जानाति स चेश्वरः || ३५ || एतद्धि ग्रन्थबाहुल्यान्नोक्तमत्र मया तव | श्रीशिव उवाच शिवतत्त्वे सूचितं यत्तद्वदस्व प्रियंवदे || ३६ || सिद्धविद्या महाविद्या लघुविद्या तथा मता | त्रिधातु कथ्यमाना हि पुनर्मर्त्ये न दर्शितम् || ३७ || तदेव कथ्यतां देवि संख्या चादौ वद प्रिये | श्रीकाल्युवाच दशसंख्या महाविद्या तस्या नामानि वच्म्यहम् || ३८ || प्. ४) सिद्धविद्या महाविद्या विद्येत्येवं गुणक्रमः | चतुर्युगादिरूपेण कथं सिद्धा च किंविधा || ३९ || का वा सिद्धाः सत्ययुगे का वा सिद्धिर्महेश्वर | का वा सिद्धाश्चान्ययुगे सर्वं ते कथ्यते शृणु || ४० || सत्ययुगे सिद्धविद्या सुन्दरी भुवनेश्वरी | काली तारेति देवेश सिद्धविद्याः प्रकीर्तिताः || ४१ || कालिका सिद्धविद्या च सर्वदैव महेश्वर | छिन्नमस्ता च बगला मातङ्गी कमला तथा || ४२ || एता एव महाविद्या विद्यां संशृणु बल्लभ | धूमावती भैरवी च विद्यात्वेन प्रतिष्ठिताः || ४३ || काली तारा महाविद्या षोडशी भुवनेश्वरी | भैरवी चिन्नमस्ता च विद्या धूमावती तथा || ४४ || बगला सिद्धविद्या च मातङ्गी कमलात्मिका | एता एव महाविद्याः सिद्धिविद्याः प्रकीर्तिताः || ४५ || वीरनाथमते देव युगभेदात् त्रिधा गतिः | काली चिन्ना सुन्दरी च सिद्धविद्या च तारिणी || ४६ || बगला कमला धूमा महाविद्यान्तरं भवेत् | मातङ्गी भैरवी चैव त्रिपुटा शूलिनी तथा || ४७ || वनदुर्गा च त्वरिता विद्यात्वेन महेश्वर | तोतला त्रिपुटा माया कान्हेशी भ्रमरांकिका || ४८ || भोगवती तथा क्लिन्ना हंसारूढा च कुक्कुटी | त्रिकंटकी च देवेश महाविद्या प्रकीर्तिताः || ४९ || नित्यामतमिदं प्रोक्तं शृणु कुब्जामतं शिव | वज्रप्रस्तारिणी भोगवती पद्मावती तथा || ५० || महामधुमती सिद्धिर्मृतसञ्जीविनी तथा | अघोरा राजमातङ्गी मातङ्गी हिंगुलाम्बिका || ५१ || कालरात्रीति देवेश महाविद्याः प्रकीर्तिताः | श्रीशिव उवाच सामान्यतः छिन्नयोक्तः विशेषो बहु तत्र च || ५२ || मया ज्ञातोऽस्ति विश्वेशि शिष्यभावं भज प्रिये | प्. ५) देवेश शोतुमिच्छामि सिद्धविद्यादिनिर्णयम् || ५३ || श्रीशिव उवाच सिद्धविद्या महाविद्या भेदत्रयक्रमेण च | विद्यामंत्रक्रमेणैव द्विधा तातिः प्रकीर्तिता || ५४ || स्त्रीपुंनपुंसकत्वेन त्रिधा जातिः प्रकीर्तिता | चतुर्युगक्रमेणैव भेदभेदान्तरं शिवे || ५५ || सत्ये काली च श्रीविद्या कमला भुवनेश्वरी | सिद्धविद्या महेशानि त्रिशक्तिर्बगला शिवे || ५६ || महाविद्या सत्ययुगे मातङ्गी भैरवी शिवे | धूमावती च विद्या स्यात्त्रेतायां शृणु पार्वति || ५७ || काली तारा सुन्दरी च सिद्धविद्याः प्रकीर्तिताः | मातङ्गी भुवना लक्ष्मीर्महाविद्याः प्रकीर्तिताः || ५८ || धूमावती भैरवी च विद्यात्वेन महेश्वरि | द्वापरे कालिका तारा रोचिनी भैरवी तथा || ५९ || सिद्धविद्या महेशानि सुन्दरी भुवना रमा | धूमावती महाविद्या मातङ्गी कमला तथा || ६० || विद्यात्वेन महेशानि धूमा च बगला शिवे | विद्यात्वेन महेशानि कलौ काली तु केवला || ६१ || काली तारा चिन्नमस्ता सिद्धविद्याः कलौ मता | सुन्दरी भैरवी लक्ष्मीर्मातङ्गी भुवनेश्वरी || ६२ || महाविद्या महेशानि धूमा च बगला शिवे | विद्यात्वेन महेशानि कलौ संकीर्तिता मया || ६३ || उन्मत्तभैरवमते भेदोऽन्यः कथ्यते शृणु | काली तारा महाविद्या षोडशी भुवनेश्वरी || ६४ || भैरवी छिन्नमस्ता च विद्या धूमावती तथा | बगला सिद्धविद्या च मातङ्गी कमलाम्बिका || ६५ || त्रयोदश महाविद्या युगभेदात्त्रिधा.पि च | एता एव महविद्याः त्रियुगं व्याप्य संस्थिताः || ६६ || कलौ काली कलौ काली कलौ काली तु केवला | साधिता कालनाथेन प्रत्यक्षा कालिका कलौ || ६७ || प्. ६) कलौ कालीं विहायाथ यः कश्चित्सिद्धिकामुकः | स चक्षुषा विना रूपं दर्पणे द्रष्टुमिच्छति || ६८ || कलौ कालीं विहायाथ यः कश्चिद्राज्यमिच्छति | स हि शीतनिवृत्यर्थं हिमशैलं निषेवते || ६९ || कलौ कालीं बिहायाथ यः कश्चिन्मोक्षकामुकः | स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति || ७० || कलौ कालीं बिहायाथ यः कश्चिच्छक्तिमिच्छति | स च शक्तिं विना देवि मनसा * * यथा || ७१ || कलौ कालीं बिहायाथ यः कश्चित्भक्तिकामुकः | स सिद्धान्नं परित्यज्य तृणाद्भोजनमिच्छति || ७२ || कलौ कालीं बिहायाथ यः कश्चित् काम्यमिच्छति | स तु दुःखनिवृत्यर्थे पापानि कुरुते सदा || ७३ || स दरिद्रो महामूर्खो मम द्रोही स एव तु | युगत्रयेऽपि देवेशि कलिपूर्वेषु तत्त्वतः || ७४ || अन्यां विद्यामपि भजन्सिद्धिमाप्नोति मानवः | कलौ काली स्पर्शमणिर्नान्यविद्या कदाचन || ७५ || श्रीमहाकालिका विद्या कलौ पूर्णफलप्रदा | अज्ञानाज्ज्ञानतो वापि सलीलं वा सहेलया || ७६ || स्मृताऽपि सिद्धिदा काली सकृदेव महेश्वरि | चतुर्युगानां राज्ञी वै कालिका परिकीर्तिता || ७७ || विद्याराज्ञी सिद्धविद्या कलौ शीघ्रफलप्रदा | नामैक्याद्रूपसाम्याच्च महाविद्या प्रकीर्तिता || ७८ || कलिर्हि यस्या दासश्च पादपूजां करोति च | सकृन्नाम स्मृतं येन कालिकाया महेश्वरि || ७९ || तस्य सेवापरः सोऽयं कलिबाधा न तस्य हि | कलिर्यच्छति वित्तानि हेमश्रीशैलभूरुहान् || ८० || स्वयमागत्य यत्नेन ददाति प्रतिवासरम् | एतद्वै सिद्धिबाहुल्यं मया वक्तुं न शक्यते || ८१ || वरदानेषु च रता तेनेऽयं दक्षिणा स्मृता | सेयं दक्षिणकाली तु सिद्धिभूमिरितीरिता || ८२ || कालिका षोडशी तारा वामाचारप्रिया मता | छिन्नमस्ता च बगला वाममार्गाधिदेवता || ८३ || प्. ७) मातङ्ग्याद्या महादेवि वाममार्गेण सिद्धिदाः | कमला भुवना बाला तथा धूमावती शिवे || ८४ || दक्षिणाचारयोगेन सिध्यत्येव न संशयः | वामाचारेणापि तथा सिध्यत्येव महेश्वरि || ८५ || भैरवी वामसंतुष्टा बाला दक्षिणवामगा | वसंतसुन्दरी विद्या तथा सङ्गीतसुन्दरी || ८६ || वामदक्षिणयोगेन सिध्यत्येव न संशयः | रेणुका दक्षिणाचारा त्वन्या देव्यश्च दक्षिणाः || ८७ || मर्दिनी वाममार्गेण प्रत्यक्षा भवति ध्रुवम् | बालायामुभयाचारः श्रीविद्यां तथैव च || ८८ || लोपामुद्रा दक्षिणेति त्रिषु लोकेषु विश्रुता | सैव वामप्रिया देवी वामाच्छीघ्रफलप्रदा || ८९ || काली तारा छिन्नमस्ता सुन्दरी बगलामुखी | भैरवी चैव मातङ्गी वामाचारप्रिया सदा || ९० || मातङ्ग्या वगलामुख्यां दक्षिणाख्योऽपि वर्तते | मातङ्ग्यां लघुमातङ्ग्यां सुमुखी वामतत्परा || ९१ || क्वचिद्गणेशरुद्रेषु विष्णुसौरस्वयम्भुवे | वामाचारो वैदिकेऽपि भैरवा वामतत्पराः || ९२ || क्षित्रपाला वामपराश्वीनाः कापालिकास्तथा | तथा पाशुपता देव वाममार्गे प्रतिष्ठिताः || ९३ || बौद्धाश्च केरला ये च वीरवैष्णवशांभवाः | चान्द्रास्त्वघोरा देवेशि वामद्वार परायणाः || ९४ || बार्हस्पत्यादयोऽप्यन्ये भेदा वामपरायणाः | चीना वामपरा देवि बौद्धाचारपरायणाः || ९५ || गोपालसुन्दरी विद्या तथा नृसिंहसुन्दरी | श्रीब्रह्मसुन्दरी विद्या तथैव वामसुन्दरी || ९६ || सुन्दरीगणपो देवि तत्पूर्वोऽपि हयाननः | यक्षिण्याद्याः सर्वविद्याः कामिनीयोगनायिकाः || ९७ || वाममार्गेण सिध्यन्ति नान्यथा सिद्धिदाः क्वचित् | एवं च दक्षिणामूर्तिर्हयग्रीवगणेशयोः || ९८ || प्. ८) वामदक्षिणयोगेन उभयाचारतत्परा | शैवे शाक्ते गाणपते सौरे स्वायम्भुवे तथा || ९९ || चान्द्रे चीने पांचरात्रे वैष्णवे वेदिकेऽपि च | कापालिके महेशानि वामार्गोऽत्र कारणम् || १०० || वाममार्गप्रकारेण सर्वं सिध्यति नान्यथा | वाममार्गं विना देवि न हि सिध्यन्ति देवताः || १०१ || तोतला तुलजा दुर्गा त्रिपुटा त्रिजटासुरी | वामाचारेण सिध्यन्ति दक्षिणे क्षोभकारकाः || १०२ || अत्रार्थे प्रत्ययो देवि सिद्धभैरव एव च | अन्यथा भ्रममाणोऽयं नरो भवति नान्यथा || १०३ || सुन्दरी वामदक्षस्था कालिका वाममार्गगा | काली तारा चिन्नमस्ता सुमुखी च मतङ्गिनी || १०४ || बगला देवदेवेशि वाममार्गपरायणा | वामाचारं विहायाथ कालीं तारा च भैरवीम् || १०५ || महापिशाचिनीं देव छिन्नमस्तां विशेषतः | योपासनं कर्तुकामस्तस्य पातो मविष्यति || १०६ || स दरिद्रो मम द्रोही सुतहारी प्रजायते | विशेषात्सर्वमन्त्रेषु कुलाचारः प्रकीर्तितः || १०७ || तदा सिद्धाः सर्वविद्या नात्र कार्या विचारणा | सुरेश्वरी महाविद्या शाक्ते सर्वा महेश्वरि || १०८ || मंत्रमण्डलगा विद्या वामाचारेण सिद्धिदाः | वामाचारेण सिध्यन्ति ह्यप्सरादिगणाः शिवे || १०९ || वाममार्गं विना देवि न हि सिध्यन्ति कुत्रचित् | वामाचारः प्रधानोऽत्र सर्वेषु दर्शनेषु च || ११० || आदौ शाक्तं ततः शैवं वैष्णवं गाणपं तथा | सौरं चान्द्रं जैनधर्मं स्वायम्भुवमनन्तरम् || १११ || वामे चान्तर्भविष्यन्ति चैते वैजातिजातयः |एवं दर्शनमार्गेष्पि न हि वामे करोति चेत् || ११२ || तस्य सिद्धिर्न देवेशि मम वैरी प्रकीर्तितः | सर्वस्मादधिको वामधर्मः प्रोक्तः कुलागमे || ११३ || तत्रापि कालिकाताराविधौ प्रियतरः स्मृतः | वाममार्गे परित्यज्य यः कालीं भक्तितोऽर्चयेत् || ११४ || प्. ९) तस्य क्रिया च बिफला महापशुरितीरितः | तत्रम्नायेऽपि देवेशि श्रेष्ठमध्यमभेदतः || ११५ || अधमस्तु तृतीयः स्यात्त्रितयं त्रितयं त्रिषु | यथाक्रमेण तत्र स्यात्तत्र शृणु हि चोत्तमम् || ११६ || षड्दर्शनादिमन्त्राणां षट्सु स्थानेषु योजनम् | तत्र पूर्णाभिषेको हि पूर्णरूपः प्रकीर्तितः || ११७ || तत्र पर्यायभेदोऽपि वाममार्गप्रधानतः | शैवे च वैष्णवे शाक्ते सौरे सुगतदर्शने || ११८ || बौद्धे पाशुपते सांख्ये मंत्रकालमुखेष्पि च | दक्षिणे वामाः सिध्यन्ति वैदिकादिध्वपि प्रिये || ११९ || विनालिपिशिताभ्यां तु पूजनं निष्फलं भवेत् | एवं दशसु विद्यासु षडाम्नाये तु वामता || १२० || मध्यमाम्नाय आख्यातः कनिष्ठं संशृणु प्रिये | कुब्जादिभेदैर्देवेशि पूर्वाम्नायादि कल्पनम् || १२१ || कथितस्ते कनिष्ठोऽत्र सूक्ते पूर्वं प्रकीर्तितम् | कादिः काली महाशक्तिर्हादिस्त्रिपुरसुन्दरी || १२२ || कादिहादिप्रभेदेन द्विधाम्नायार्थसंहतिः | कुलर्णवे तंत्रकौले वीरचूडामणावपि || १२३ || सिद्धान्ते त्रैपुराख्ये च तथा ज्ञानार्णवद्वये | श्रीमूर्तिसंहितायां च तथैव समयार्णवे || १२४ || एतत्तन्त्रे मुख्यधर्मो वामाम्नायहिकारणम् | कादित्त्वाद्ब्रह्मरूपत्वं हादित्वाच्छिवरूपता || १२५ || ब्रग्नरूपे महाचारे न दिवा न निशा प्रिये | न वा प्रयासकरणं नास्ति शुद्ध्यादिकारणम् || १२६ || स्वेच्छया सर्वमेतद्धि तस्माद्विधा महोत्तमा | कादिः कालीति शक्तिश्चेत्युपक्रम्य प्रकीर्तिता || १२७ || कादिकाली हादिकाली कलौ काली तु केवला | सुन्दर्या हादिरूपत्वं शिवतां शृणु पार्वति || १२८ || हादित्वाच्छिवरूपत्वं शिवरूपत्वभावना | कायक्लेशादिकं स्नानं न्यासपूजादिकं बहु || १२९ || एवं च क्रमबाहुल्यात् कलौ सिध्यति वा न वा | तस्मात्सर्वयुगे दिवि काली तारा फलप्रदा || १३० || प्. १०) सुन्दर्यां तु कुलाचारो राजसः परिकीर्तितः | दिव्योऽपि कीर्तितो देवि काली राजसतामसौ || १३१ || दिव्योऽपि वीरबाहुल्यं तेन शीघ्रफलप्रदा | कादिस्तु कामराजो हि हादिर्लोपा परेरिता || १३२ || इदं वटेशसम्मत्या पारिभाषिकमीरितम् | कादयो मनवः सन्ति बहवः परमेश्वरि || १३३ || न तत्र कादिता क्वापि हादावपि महोत्तमे | हादयो मनवो देव षट्त्रिंशत्पद्मसंख्यकाः || १३४ || न तत्र हादिता क्वापि षोडश्यामेव हादिता | कादित्त्वं कालिकायां च तेन प्रोक्तः कहात्मकः || १३५ || काल्यामपि हादिकादिभेदाः सन्त्येव भूरिशः | न तत्र कादिहादित्वं लोपायां न तु हादिता || १३६ || लोपायां सुन्दरीभेदः कामराजादयो यथा | इत्येवं कादिहादित्वं हादिः श्रीषोडशी परा || १३७ || हादौ तु नियमाः प्रोक्ता यमसंयमनादयः | कादौ तु नियमो नास्ति स्वेच्छया धर्ममाचरेत् || १३८ || नित्याश्लिष्टं कादिमतं परिभाषामयं मतम् | शक्तिसङ्गमनामानं महाकादिमटं शिवे || १३९ || कादिहादि तद्द्वयं च त्रितयं यत्र तिष्ठति | चिच्छक्तिः कादिरूपा स्याद्वादिश्चिज्ज्ञानगोचरा || १४० || चिदानन्दस्वरूपाख्यं शिवशक्त्यात्मकं महत् | शक्तेः प्राधान्यं काल्यां च सर्वदा परिकीर्तितम् || १४१ || सुन्दर्यां तु क्वचित्क्वापि सम्येषु प्रधानता | काल्यां शक्तिं विहायाथ यः कश्चिज्जपमाचरेत् || १४२ || स दरिद्रो महादुःखी योगिनीचर्वणः स तु | सुन्दर्यां ब्रह्मचारित्वं काले चानन्दरूपता || १४३ || एवं हि कादिहादीनां संज्ञा प्रोक्ता महेश्वरि | सर्वप्रपंचसिध्यर्थं गोपनार्थं महेश्वरि || १४४ || गौडकेरलकाश्मीरसम्प्रदायानुसारतः | दीक्षा विद्याविधौ कार्या तारायां च विशेषतः || १४५ || जाकुकायां च सुन्दर्यां पूर्णदीक्षादि विंशतिः | कादिहादिमतद्वन्द्वे हाभिषेकविधिं चरेत् || १४६ || प्. ११) स्वस्वविद्या गुरुणां च नामानुकूलतश्चरेत् | दक्षकाश्मीरगौडाख्यनानाभेदप्रविस्तरैः || १४७ || अमुकानन्दनाथान्तनामाज्ञां च प्रदापयेत् | पूर्णाभिषेकः सुन्दर्यां षोडश्यामेव कीर्तितः || १४८ || अभावे लघुषोडश्यां परिभाषामनावपि | राजराजेश्वरी विद्या पञ्चमी परसुन्दरी || १४९ || श्रीमहाषोडशी पूर्णा पूर्वदीक्षितपूर्तिदा | अन्यभेदेऽपि कर्तव्यं संक्षेपात्परिकीर्तितम् || १५० || तथा कामकला काली दक्षिणायामपि स्मृता | महाविद्यासु सर्वासु ह्यभिषेकः शुभावहः || १५१ || तत्र स्वस्वमतेनैव नामदानं प्रकीर्तितम् | काली तारा छिन्नमस्ता त्वेकरूपास्ति पार्वति || १५२ || तथा नवाक्षरी काल्यामुच्यते सृष्टिकाविधौ | गुह्यकाली सैव विद्या तत्त्वानां नवकैर्युता || १५३ || सप्तप्रेतसमासीना महागुह्येश्वरी परा | दशवक्त्रा कार्यमत्र नाम ध्येयं स्वकल्पतः || १५४ || गुरुणोक्तप्रकारेण सम्प्रदायानुकूलतः | यथा दशसु विद्यासु गुरवः सन्ति पंक्तिशः || १५५ || तथा दशसु विद्यासु षोढान्यासाः प्रकीर्तिताः | ते ते पूज्याः सपर्यादौ सर्वसिद्धिप्रदायकाः || १५६ || सुंदर्यामपि देवेशि कामराजादिके तथा | स्वप्नावल्यां च लोपायां मधुमत्यादिभेदतः || १५७ || स्वर्वत्र भिन्ननामानो गुरवः परिकीर्तिताः | कालीक्रमागमोक्तेन कालिका फलदा ध्रुवम् || १५८ || कुलार्णवोक्तसन्मार्गात्सुन्दरी फलदा क्वचित् | अर्णवाः सर्वसामान्याः सर्वधर्मषु तद्गतिः || १५९ || विना पूर्णाभिषेकेण कालीं तारां च सुन्दरीम् | ये जपन्ति नरा देवि ते नरा यमकिंकराः || १६० || तस्मात्तु सर्वथा कार्यस्त्वभिषेकः शुचिस्मिते | आम्नायैर्गादिकादीनामभिषेको ध्रुवं चरेत् || १६१ || साङ्गद्वेये महेशानि पुरैव कथितं मया | परायामपि देवेशि तत्र प्रासादयोगतः || १६२ || प्. १२) भेदाष्टकेऽपि गदिता सम्प्रदायनुकूलतः | आम्नायविद्याभेदेऽपि ह्यभिषेकविधिः स्मृतः || १६३ || दशलक्षप्रभेदैश्च कालीविद्या कलौ स्थिता | दशपूर्वैः सप्तलक्षैः सुन्दरी कीर्तिता भुवि || १६४ || त्रिनिखर्वा तु तारा स्याच्छिन्नाआः खर्वमात्रकम् | पंचाशीतिसहस्रैश्च लक्षपंचकसंयुता || १६५ || भुवनेशीमहाविद्यां बगलां शृणु सादरम् | तत्त्वलक्षा तु बगला सहस्रनवतिर्गता ||१६६ || धूमावती महाविद्या षडशीतिस्तु भैरवी | मातङ्गी नेत्रलक्षा च कमला लक्षपञ्चका || १६७ || एते शृङ्खलिकायोगात्प्रस्तारात्तु विनिर्गता | सामान्यमुख्यभेदेऽपि दीक्षानाम प्रकीर्तितम् || १६८ || सप्तसप्ततिभेदेन सुन्दरी तु प्रतिष्ठिता | चत्वारिंशत्प्रभेदेन भैरवी भुवि कीर्तिता || १६९ || भुवनेश्याष्टभेदा स्यान्मातङ्गी पञ्चधा स्मृता | कमला शतभेदा च षट्त्रिंशद्बगला स्मृता || १७० || धूमावती पञ्चभेदा तारा त्रिर्वा त्रयोदश | दशधा कालिका चिन्ना तथा षोडशधा स्मृता || १७१ || श्रीकाल्या दशभेदानां भेदे दीक्षा प्रकीर्तिता | दक्षिणा सूर्ययुग्मा च स्मशाना दशधा स्मृता || १७२ || भद्रकाली षोडशधा कालकाली तथाष्टधा | गुह्यकाली च नवधा सप्तधा कामकालिका || १७३ || नवधा धनकाली च सिद्धकाली त्रयोदश | चन्द्रकाली विंशतिधा हंसकाली च सप्ततिः | एवं भेदोऽपि कर्तव्यः किमन्यच्छ्रोतुमिच्छसि || १७४ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे परिभाषा नाम प्रथमः पटलः || १ || द्वितीयः पटलः | श्रीदेव्युवाच देवेश श्रोतुमिच्छामि ह्यभिषेकस्तुतिं पराम् | श्रीशिव उवाच सुन्दरी तारिणी काली क्रमदीक्षात्रिगामिनी || १ || क्रमपूर्णो महेशानि क्रमाच्छम्भुर्भविष्यति | पूर्णाभिषेकपूतात्मा यत्र कुत्र मृतोऽपि चेत् || २ || स एव देवीरूपः स्यात् स देशो धन्यतामियात् | विना पूर्णाभिषेकेन पशुरूपे शिवोऽपि च || ३ || विना पूर्णाभिषेकेन देवता न प्रसीदति | विनापूर्णाभिषेकेन कालीं तारां च यो जपेत् || ४ || तस्य क्रियां हरिष्यामि वातुलो जायते नरः | पूर्णाभिषेकयुक्तस्य यत्किञ्चिदमृतं भवेत् || ५ || तस्य क्रिया च सफला देवता सुप्रसीदति | पूर्णाभिषेकयुक्तो हि मंत्रान्दृष्ट्वा जपेच्छिवे || ६ || तत्क्षणात्सिद्धिमाप्नोति नात्र कार्या विचारणा | विना पूर्णाभिषेकेण गुरुधर्मेश पार्वति || ७ || न जपो न तथा होमो न पूजा पूर्णता क्वचित् | गुरुं विनापि देविशि ह्यभिषेको तु यं जपेत् || ८ || तं सभेदं साधयित्वा सिद्धिं दातुमथार्हति | पूर्णाभिषेकयुक्तो हि नमस्कारं न कारयेत् || ९ || षडाम्नायोपदेशश्च यत्र जागर्ति पार्वति | ऊर्ध्वाम्नायादिराज्ञी तु श्रीमहाषोडशी परा || १० || काल्यां तु कामकालीयं तत्रापि दक्षिणेश्वरी | षडाम्नाये शाम्भवे च गुह्यकाली शुभोदया || ११ || दक्षिणा कालिका विद्या सिद्धविद्या परात्परा | चतुर्युगेश्वरी काली कलौ तरवै केवला || १२ || सर्वदैवतकालीयं चतुर्यामेन सिद्धिदा | अन्या विद्याश्च देवेशि बहु *? सफलप्रदाः || १३ || प्. १४) सुन्दरी तु कलौ नैव कूटोच्चारोऽपि नो कलौ | समुदायैर्भवेत्कूटं तत्कूटमम्यसेत्सदा || १४ || कलौ मुखाद्यशुद्धत्वात्कूटोच्चारो न जायते | तस्मात्स्वरं तु प्रत्यर्णे दद्यात् यत्नेन संजयेत् || १५ || अथवा स्यात्कामराजं लोपामुद्रां च वा जपेत् | सर्वदा सिद्धिदा काली कलौ स्मृतिफलप्रदा || १६ || सहेलं वा सलीलं वा यस्याः स्मरणमात्रतः | षष्टिसिद्धीश्वरो देवि देवीरूपो भवेच्छिवे || १७ || शाबरं केरलं शैवं वैष्णवं सौरगाणपम् | चान्द्रं स्वायम्भुवं चीनं मिलित्त्वा पद्ममात्रकम् || १८ || अङ्गमन्त्रा महेशानि नवत्यर्बुददोटयः | त्रिंशन्निखर्वषड्वृन्दं पञ्चत्रिंशच्च पद्मकाः || १९ || मंत्राः प्रोक्ता महेशानि बिन्दुप्रस्तार चाङ्कतः | भाषाभेदाद्देशभेदात्सप्तपर्यायभेदतः || २० || आगमाम्नायभेदेन नाथसिद्धादिभेदतः | शैवे सौरे वैष्णवे च गणेशेष्वपि यत्नतः || २१ || मुख्ये सेकं प्रकुर्वीत तत्तन्नाम प्रदापयेत् | पूर्णाभिषेकषोढा च लघुपूर्वमहत्तथा || २२ || पंचषोढाः परिज्ञाताः किमुत सिद्धिसाधनम् | षट्शाम्भवगतिप्राप्तां साङ्गां विद्यां सभेदजाम् || २३ || समंत्रां चैव विज्ञात्वा दीक्षा कार्या हितेच्छुना | प्रथमं कालिका कृष्णा रक्ताभा सुन्दरी ततः || २४ || द्वयोः काली मुख्यरूपा सिद्धिदां नीलभास्वरा | उत्पत्तिर्दशविद्यानां देवानामपि पार्वति || २५ || सूक्ते संकथितं देवि द्वयोराम्नायभेदतः | पातञ्जले विमर्षिण्यां सारे सिद्धान्तसम्मते || २६ || कुलचन्द्रोदये देवि भास्करे शेखरे तथा | तरङ्गिण्यर्णवे देवि प्रकाशे संहिताविधौ || २७ || अम्यानि डामरादीनि तत्रापि कीर्तिता प्रिये | प्रतिशक्तौ तु तंत्राणि षष्टिवेदान्तगानि च || २८ || प्. १५) सूक्तान्यपि तथा सन्ति स्मृतिश्रुत्यादिकं तथा | षडाम्नाये महादेवि तथा षट्दर्शनादिके || २९ || भिन्नभिन्नानि तन्त्राणि संहितादीन्यपि प्रिये | शैवे द्वात्रिंशत्तन्त्राणि चोपतन्त्राणि वै शृणु || ३० || शतत्रयं पञ्चविंशत्संख्यकानि महेश्वरि | असंख्यातानि चोक्तानि दशविद्याक्रमात्क्रमः || ३१ || महाविद्या सिद्धविद्या तथा विद्याक्रमेऽपि च | महानीलक्रमेणैव काली शीघ्रफलप्रदा || ३२ || महाचीनक्रमेणैव तारा पूर्णफलप्रदा | दिव्यचीनक्रमेणैव छिन्नमस्ताविधिः स्मृता || ३३ || गन्धर्वाख्यक्रमेणैव पञ्चमी भुवि दुर्लभा | महागन्धर्वमार्गेण षोडशी फलदायिनी || ३४ || सौभागाख्यक्रमेणैव बगला फलदा कलौ | जीवचक्रक्रमेणैव भैरवी भुवि कीर्तिता || ३५ || महाधूमक्रमेणैव फलदा धूम्रनायिका | राजमार्गक्रमेणैव मातङ्गी सकलेष्टदा || ३६ || ब्रह्मभावक्रमेणैव दिव्यमार्गक्रमेण च | पशुमार्गक्रमेणापि मातंगी कमला सदा || ३७ || दशक्रमेण देवेशि दशविद्याः फलप्रदाः | काल्यादित्रितये देवि एकोऽपि परिकीर्त्तितः || ३८ || एकद्वित्रिविधा देवि कोटिधानन्तरूपिणी | अङ्गाङ्गकैर्नामभेदैर्नाना नाम विधायिनी || ३९ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे अभिषेकस्तुतिर्नाम द्वितीयः पटलः || २ || तृतीयः पटलः श्रीशिव उवाच तव रूपं महातारे पूर्वं तु नीलरूपकम् | ततो वै सुन्दरीरूपं रक्तवर्णं परात्परम् || १ || लोकान्तरे च त्वरिता वसुदुर्गा च शारभे | धनेशी कालचामुण्डा वाराही कृष्णपूर्विका || २ || अन्नपूर्णा महाविद्या कलौ कल्पऽवरप्रदा | कुलाचारप्रसनास्या कुलाचारफलप्रदा || ३ || वनदुर्गा तूग्रदुर्गा तथैव सर्वमङ्गला वज्रप्रस्तारिणी काली तारेति नामवाचका || ४ || अनंतरूपसंयक्ता केवलं दक्षिणेश्वरी | डामरे वामभेदेऽपि चोत्तराम्नायडामरे || ५ || वशिन्याम्नायके देवि वाम एव क्रिया स्मृता | ब्रह्ममाला मुण्डमाला तद्दधाना तु कालिका || ६ || नारिकेलभवा माला सिद्धमाला प्रकीर्तिता | शैवमाला तु रुद्राक्षैस्त्रिगत्या विनियोजिता || ७ || शिवप्राधान्याच्छैवं स्याच्छाम्भवः सम्प्रकीर्तितः | शक्तेः प्राधान्याछाक्तं स्याच्छिद्रूपाहं चिदात्मिका || ८ || एतद्विलोपनाल्लोपामुद्रा विद्येयमीरिता | अल्पाचारादधर्मत्वात् भ्रष्टत्वादपि शांकरि || ९ || सुन्दरी श्रीमहाविद्या राजराजेश्वरी | न्यासजालैः सदाचारैः कलौ क्लेशेन सिध्यति || १० || स्वस्वपापिष्ठदिवसाः सम्भवन्ति कलौ युगे | पापबाहुल्यतो देवि सुन्दरी न प्रसीदति || ११ || ब्रह्ममालाधारणात्तु ब्रह्मविद्या प्रकीर्तिता | शिवमालाप्रियत्त्वाच्च महापरशिवात्मिका || १२ || अत एव महेशानि कादिहादिमतद्वयम् | कादिहादिमतं देवि द्वयं यस्याति शांकरि || १३ || द्वितये दीक्षितो यस्तु कालीतारामयो ध्रुवम् | एवं कादिमतं विद्धि नित्या क्लिन्ना न दृश्यते || १४ || प्. १७) द्वितये दीक्ष * * प्तिर्भाग्यपारो न लभ्यते | मुण्डमाला गले धार्या तत्र कादिमते शिवे || १५ || मुण्डं रुद्राक्षसहितैर्धारणं तारिणीविधौ | केवलं मुण्डमाला तु सर्वसिद्धिपराम्बिका || १६ || नारिकेलमयी माला तदभावे प्रकीर्तिता | एतस्या धारणादेवि किं तद्यन्न करे स्थितम् || १७ || स्मशाने भोजनं कार्यं तद्भस्म धारयेच्छिवे | * * * * मृतैर्देवीमर्चयेत्तर्पयेच्छिवे || १८ || * * नन्दपरो भूत्वा * * यत्नेन संविशेत् | * * * सनमेतद्धि कालीतारामयं परम् || १९ || * * नैव समालापात्सुभगः साधको भवेत् | श्रीदेव्युवाच मुण्डमालाधारणं तु कथं कार्यं बदाधुना || २० || श्रीशिव उवाच रुद्राक्षवद्धारणं च काली मुण्डमयी परा | रुद्राक्षै रुद्रमन्त्रैश्च मुण्डाक्षैः कालिकामनुः || २१ || मुण्डं शिवस्य कण्ठे तु वर्तते येन हेतुना | तेनेयं मालिका सिद्धा रुद्रभूषणरूपिणी || २२ || रुद्राक्षाः साधकैर्नैव ध्रियन्ते सुन्दरीमते | नारिकेलमयी माला सर्वविद्याविधौ धृतिः || २३ || सर्वस्मान्मुण्डमालेयं कलौ जागर्ति केवला | कालिका ब्रह्मविद्येयं निर्गुणा चित्स्वरूपिणी || २४ || येन केन प्रकारेण साधनीया पराम्बिका | स सिद्धः सिद्धिदो लोके बहु किं परचण्डिके || २५ || पारे परार्द्धप्रमुखैस्तदन्तैरपि पार्वति | महिमां वर्णितुं शक्तो न हि कोऽप्यस्ति भूतले || २६ || इति श्रीशक्तिसंगममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मालाविधानं नाम तृतीयः पटलाः || ३ || चतुर्थः पटलः श्रीदेव्युवाच देवेश ब्रूहि यत्नेन चाम्नायादिविनिर्णयम् | श्रीशिवे उवाच आम्नायो नवधा प्रोक्तश्चोत्तमादिप्रभेदतः || १ || त्रेभेदे बहुभेदत्वं त्रितयं त्रितयं त्रिषु | उत्तमं शृणु तत्रादौ शैवादिदर्शनेन च || २ || शाक्तं शैवं वैष्णवं च सौरं गाणपमेव च | बौद्धं च देवदेवेशि दर्शनानि च षट्क्रमात् || ३ || षड्दर्शनस्य षण्मन्त्रा ऊर्ध्वाम्नाये प्रकीर्तिताः | अनेनैव प्रकारेण पूर्वदक्षिणपश्चिमाः || ४ || उत्तरार्धेत्यूर्द्धसंज्ञा षडाम्नायाः प्रकीर्तिता | अयं श्रेष्ठो निगदितो देवलोके विराजते || ५ || मध्यमः कुत्र कुत्रापि तिष्ठत्येव न संशयः | मध्यमः सूचितो देवि दशविद्यादिभेदतः || ६ || ऊर्ध्वाम्नाये महाषोढा उत्तरे तारिणी स्मृता | कनिष्ठश्चैव षट्चक्र भेदैरेवं त्रिधा शिवे || ७ || अयं हादिमते प्रोक्तः शृणु कादिमतेऽधुना | पूर्वोक्त एव श्रेष्ठः स्याद्दशविद्यादिमध्यतः || ८ || महः कामकला काली तूर्ध्वाम्नायेऽत्र देवता | दशकाल्या दिभेदैश्च कनिष्ठः परिकीर्तितः || ९ || शाक्तं शैवं वैष्णवं च गाणपं सौरमेव च | ऊर्ध्वं पूर्वं दक्षयोगे प्रत्यक् चोदक् च पार्वति || १० || क्रमेण योजनाद्देवि तदन्यः परिकीर्तितः | बौद्धाम्नाये चेन्द्रकाश्च गन्धर्वाद्यप्सरादयः || ११ || इन्द्रजालादिकं देवि पातालाम्नायमध्यगम् | पूर्वाम्नाये वामकौलौ दिव्यदक्षौ तु दक्षिणे || १२ || पश्चिमे वीर कौलाश्च उत्तरे वाम एव च | ऊर्ध्वदिव्यौ महेशानि पाताले पशुमार्गकः || १३ || प्. १९) तदिच्छया तु तन्मार्गः कीर्तितः परमोत्तमे | ब्रह्मकाली सिद्धरूपा हानिरुद्धसरस्वती || १४ || शिवरूपी चित्स्वरूपी श्रीमद्गन्धर्वसुन्दरी | तत्रापि ब्रह्मवीराया योगं संशृणु पार्वती || १५ || षट्त्रिंशच्छक्तिमध्ये च संपूज्या चोत्तरोत्तरम् | उत्तरा कादिहादीनां मतभेदाद् द्विधा स्मृता || १६ || पार्वतीया कादिरूपा हादिर्मातंगिनी परा | मातंगिनी तु या नारी सा नारी * * * यदि || १७ || सापि * * यदि भवेत्सापि प्रथम * * * | आषोडशाद्नूढा तु प्रोक्ता सर्वोत्तमोत्तमा || १८ || ईदृग्विधा पार्वतीया केवला कालिका स्मृता | ईदृग्विधां समानीय सुन्दरीं * * लालसाम् || १९ || न्यस्त्वा शक्तवादयो न्यासान् तस्याः सर्वाङ्गके प्रिये | एवं भूतं जीवचक्रं * * चक्रं प्रपूजयेत् || २० || सांगां सावरणां देवि सार्ध्यस्थापनपूर्वकम् | सबल्यन्तं च सम्पाद्य संलोक्य * * मण्डलम् || २१ || संजपेत्परमेशानि ध्यानपूजापुरः सरम् | * * ध्यानं प्रकुर्वीत स सिद्धो भुवि जायते || २१ || एतस्यालामतो देवि प्रार्वतीयां च पुष्पिणीम् | पूजयेदेवेशि त्वभावे स्त्रियमप्यलम् || २३ || पूर्वोक्तान्यतमां बीक्ष्य सामरस्यप्रयोगतः | निर्गुणोऽहं तया युक्तः सगुणः प्रभवाम्यहम् || २४ || सगुणोऽहं तया युक्तो निर्गुणः प्रभवाम्यहम् | ब्रह्मज्ञानाद्भवेन्मुक्तस्तद्रूपा * * रेव च || २५ || * * शक्तिं निहायाय कालीं तारां च यः स्मरेत् | स दरिद्रो महापापी वीरहा सैव सम्मतः || २६ || एतद्भ्यासबाहुल्यात्किं तद्यन्न करे स्थितम् | तत्र मुण्डासनं वापि द्वाविंशत्यासनानि च || २७ || एतन्मध्ये ग्राह्यमेकं तत्र जप्त्वा तु तारिणीम् | वीरासनं समादाय वीरमालां कराम्बुजे || २८ || प्. २०) वीरपात्रं वीरशक्तिं वीरविद्यां ततो जपेत् | आनखान्तं च सन्धार्या महामोहनमालिका | एवं तद्रूपतां कृत्वा ब्रह्मकालीमयो भवेत् || २९ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे आम्नायादिविनिर्णयो नाम चतुर्थः पटलः || ४ || प~चमः पटलः श्रीदेव्युवाच ब्रह्मत्वं कथमित्युक्तं वदस्व मयि शंकर | श्रीशिव उवाच अथातः संप्रवक्ष्यामि तच्छृणुष्व प्रियंवदे || १ || * * संयोगे यत्सौख्यं सामरस्यात्मकं परम् | परानन्दरसो मुक्तिरिति संख्या प्रकीर्तिता || २ || * * * ऽधिकतो देवि शिवजन्म प्रजायते | * * * ऽधिकतो देवि कन्यारूपी स्वयं शिवा || ३ || साम्याद्देविशि ब्रह्मत्वं निर्गुणोऽयं निराकृतिः | निर्गुणत्वं कथं देवि तदेव कथ्यते शृणु || ४ || क्रियमाणस्ततो देवि बुद्धिस्तु कुण्ठतां गता | तदेव निर्गुणत्वं च निराकारत्वमम्बिके || ५ || अनेकधा वर्ण्यमानमेकमेवास्ति केवलम् | यथा यथा यस्य बुद्धिस्तथा तेन प्रवर्ण्यते || ६ || वर्णनाशक्तिरूपं च तद्ब्रह्म परिकीर्तितम् | पूर्वं संवर्णितं यत्तु सगुणं तत्प्रकीर्तितम् || ७ || अवर्ण्यं यन्महेशानि निर्गुणं तत्प्रकीर्तितम् | ब्रह्मानन्दसमुत्पत्तिर्निर्गुणाऽपि पृअदृश्यते || ८ || निर्गुणां समता खण्डे न खण्डसमता परे | एवं समरसानन्दो मुक्तिरित्यभिधीयते || ९ || * * * * द्भवं सौख्यं ब्रह्मानन्देति तं विदुः | तदुद्भवे महासौख्यं परब्रह्मेति कीर्तितम् || १० || शक्तिदर्शनजं सौख्यं स्वर्ग इत्यभिधीयते | सौख्यानन्दो भवेन्मुक्तिरित्युक्तं कालिकागमे || ११ || पुनर्गमागमं सौख्यं विरक्तिः परिकीर्तिता | बिपरीतं ब्रह्मतत्त्वं महानन्दस्तदुद्भवः || १२ || प्. २२) आलोकनं ब्रह्मपदस्पर्शनं ब्रह्मदर्शनम् | संयोगो ग्रहणं देवि वियोगः संक्रमः स्मृतः || १३ || ध्वनिर्वाद्यादि देवेशि संक्षेपतो मतं शिवे | परतत्त्वे स्वात्मशक्तौ स्वात्माकारे शिवे सदा || १४ || शरीरस्थे * * * * सामरस्यं विलोक्यते | एतदभ्यासकार्यार्थं शक्तिसंभोगभावना || १५ || इदं सुखं यथा देवि तथा कुण्डलिनी शिवि | सौख्यानन्दे समायाते सति निर्गुणता मता || १६ || असिधाराव्रताख्येयं कालिका कीर्तिता भुवि | शक्तियोगाच्छिवे ब्रह्मरूपत्वं कीर्तितं मया || १७ || सब्रह्मभावनां कृत्वा पूर्वं परशिवः स्थितः | सर्वसंहारकं कर्म कृत्वोद्दण्डं विधाय च || १८ || बृहद्दण्ड विहायाथ शिवो ध्यानपरो ह्यभूत् | ध्यानस्य संश्रुतिर्जाता सा ब्रह्मभावनां गता || १९ || तदभ्यासनिमित्तार्थं शक्तेराकर्षणं कृतम् | देव्या ज्ञातं शिवो भ्रष्टो मार्गच्युतिपरायणः || २० || शिवस्य बुद्धिस्मरणं दत्तं देव्या कृपा कृता | एवं बुद्धिः कृता देव्या शिवो यातु ममोत्तरे || २१ || मानसे धृतमात्रेण शिवेनाकर्षणं कृतम् | शिवाकर्षणकं कर्म मम मिथ्यात्वदायकम् || २२ || इत्येवं मानसे धृत्वा मंत्रः काल्या प्रकाशितः | कालिका कामसुरता महाकालसमन्विता || २३ || सा एव आदिनाथोक्तं परब्रह्मेति गीयते | सच्चिदात्मस्वरूपेयं ब्रह्मरूपाऽथ निर्गुणा || २४ || त्वया स्वनिर्मिता शक्तिः शिवाग्रे स्वर्गमागता | साधनार्थं मया दत्तेत्येवं श्रीकालिकाऽब्रवीत् || २५ || सदाशिवः परशिवः पूर्वाभ्यासेषु तत्परः | एवं शक्तेः साधना च्च काली काम्यमुपागतः || २६ || काल्यग्रे शिवशक्तिस्तु या काल्या निर्मिता पुरा | अतिगर्वान्वितः शम्भुर्द्वितीया सुन्दरी मम || २७ || पूर्वा काली महाविद्या सा वै सुन्दरिका न हि | एकस्मिन्दिवसे देवि द्वाभ्यां शक्त्या समन्वितः || २८ || प्. २३) प्रपञ्चमूलो हि शिवः कालाभ्रसन्निभा वदेत् | द्वितीयवाक्येऽपि तथा घोरदंष्ट्रेति संवदेत् || २९ || तृतीयवाक्ये देवेशि द्वितीयां सुन्दरी प्रति | त्रैलोक्यसुन्दरी प्राणप्रिये मम स्वरूपिणी || ३० || इत्युक्ता दक्षिणा देवी ब्रह्मरूपाद्यचण्डिका | आदिशक्तिः पूर्णरूपा क्रोधाविष्टा वभूव च || ३१ || तदा तु सुन्दरं रूपं सौभाग्यार्णवकं परम् | राजराजेश्वरीरूपं विभ्रती परमेश्वरी || ३२ || तदा परशिवः शम्भुर्विस्मयाविष्टलोचनः | प्रकर्षेण तु पञ्चानां संयोगो युगपद्भवेत् || ३३ || प्रपञ्चातीतशालेन गदिता परमेश्वरि | महाप्रपञ्चरूपा वै कोटिब्रह्माण्डनायिका || ३४ || षोडशी वै तदा जाता महाश्रीचक्रनायिका | आद्या श्रीदक्षिणाकाली द्वितीया कालभैरवी || ३५ || तृतीया राजराजेशी विद्या या परिकीर्तिता | तस्याः कृपाकटाक्षेण राजराजेश्वरो ह्यभूत् || ३६ || न्यासजालादिकं सर्वं पूजामंत्राण्यनेकधा | तदैव च षडाम्नाया ऊर्ध्वाम्नायादिकाः प्रिये || ३७ || पूर्वा प्रकृतिरूपा स्यान्मूलविद्या प्रियंवदे | तदाम्नायप्रपञ्चोऽयं निर्मितः परमेश्वरि || ३८ || काद्यं मतं कादिमतं हाद्यं हादिमतं प्रिये | ककारो ह्यादिभूतस्तु हकारस्त्यन्तगो मतः || ३९ || क्षकारो मेरुसंज्ञस्तु स्वराः षोडश कीर्तिताः | कहेत्येवं महामंत्रस्तूत्तराम्नायगोचरः || ४० || उत्तराम्नायराज्ञी च श्रीमहातारिणी तु सा | सुन्दरी कालिकारूपा श्रीमहाब्रह्मतारिणी || ४१ || तारिणीद्वितयं देवि सर्वदा तिष्ठति प्रिये | एवं युग्मात्मको मन्त्रः कादिहादिमतात्मकः || ४२ || प्रथमः कादिवर्णो वा हादिकः प्रथमोऽथ वा | कादिः प्रथमवर्णः स्यात् हादिश्चरम ईरितः || ४३ || प्. २४) वीरेश्वराणां गणना नास्त्येव प्रियवादिनि | मातृकेति तथेत्युक्ता तदक्षरसमन्विता || ४४ || सम्पूर्णमातृका देवि विद्यात्वेन न संशयः | तस्मात्कादिमतं चाद्यं कीर्तितं प्रियवादिनि || ४५ || कादिहादिश्चादिवर्णैर्गृह्यते यदि भाविनि | कादिहादिस्तु सर्वत्र मंत्रः प्रोक्तो महेश्वरि || ४६ || ककारार्द्ब्रह्मरूपत्वं सुन्दरी परशिवात्मिका | कलौ कादिमतं पुण्यं पूर्वमेकं स्थितं प्रिये || ४७ || एवं संसारसिध्यर्थं प्रपञ्चो निर्मितः पुरा | आगमे बहवो भेदाः षड्दर्शनप्रकारजाः || ४८ || अन्येऽपि कोटिशो भेदाः सन्त्येव प्रियवादिनि | धर्मशास्त्रं चतुर्वेदाः पुराण व्याकृतिस्तथा || ४९ || न्यायमीमांसावेदान्तसांख्यपातञ्जलं तथा | काव्यदिबहवो भेदाः प्रपञ्चा एव कीर्तिताः || ५० || यदारभ्य धृतं रूपं सुन्दरं परमेश्वरि | तदारभ्य प्रपञ्चोऽयं सर्वत्र परिवर्तते || ५१ || यदि कादिमतं चैकं वर्तते सत्यवादिनि | तदा पुमांसो देवेशि महाकालस्वरूपिणः || ५२ || स्त्रियः श्रीकालिकारूपा भवन्त्येव न संशयः | इत्येवं हि प्रपञ्चार्थे शाक्तं वैष्णवशाम्भवम् || ५३ || गाणपं सौरबौद्धं च षड्दर्शनमितीरितम् | मतानि बहुसंख्यानि संजातानि सुरेश्वरि || ५४ || वैदिके शास्त्रनिन्दा स्याच्छाक्ते वैष्णवनिन्दितम् | वैष्णवे शैवनिन्दा स्यात्सौरे गणपतेस्तथा || ५५ || गाणपत्ये सौरनिन्दा सौरे वीरस्य निन्दनम् | चीने जैनस्य निन्दा स्यात् जैने कापालिकस्य च || ५६ || कापालिके बौद्धनिन्दा बौद्धा नानाविधाः मताः | एवं भिन्नमतान्याहुः पुराणाद्येषु शाम्भवि || ५७ || वेदानां चैव शाखा वै वहवः परिकीर्तिताः | एवं निन्दा समापन्ने भेदे जाते महेश्वरि || ५८ || प्. २५) नैकत्र तु मनो लग्नं न कस्य प्रियवादिनि | सर्वत्रान्योन्यनिन्दा तु प्रपञ्चेन प्रकाशिता || ५९ || भिन्नं भिन्नं प्रशंसन्ति निन्दन्ति च परस्परम् | न विद्या सिद्धिमाप्नोति संभ्रमन्ति पिशाचवत् || ६० || अन्योन्यं यदि निन्दा न तदैवैक्यं प्रजायते | तस्मादैक्यसुसिध्यर्थः कालिका भवतारिणी || ६१ || पुनर्वै दैत्यनाशार्थं रूपं सुन्दरमेव तु | संबिभ्रती महादेवी शुम्भाद्याखिलनाशिनी || ६२ || सप्तप्रेतैकपर्यङ्कराजिते शवहृच्छिवा | श्वेतरूपमहाकालहृदयाम्भोजवासिनी || ६३ || कोटिकालानलज्वाला सेवनीया विधानतः | सर्वं सर्वादिभूतेयं कोटिसिद्धिप्रदायिनी | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ६४ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे ब्रह्मवीरायोगो नाम पञ्चमः पटलः || ५ || षष्ठः पटलः श्रीदेव्युवाच देवेश श्रोतुमिच्छामि शक्तिकोणविनिर्णयम् | श्रीशिव उवाच त्रयोऽग्नयस्त्रयो ग्रामाः देवाश्चापि त्रयो गुणाः || १ || भावत्रयं तथा शक्तित्रयी नाडी त्रयात्मिका | त्रिधा सिद्धिस्त्रितत्त्वाख्यं पात्रत्रयमयाद्भुतम् || २ || त्रिकोणवासिनी काली वीरसिद्धा वरप्रदा | ध्येया ज्ञेया कलौ देवि नान्यविद्या कदाचन || ३ || सुन्दरी शिथिला देवि राजसी गुप्तदर्शना | दशकोटिप्रजापाद्वै कदाचिद्वरदा भवेत् || ४ || कलौ काली कलौ काली कलौ काली च केवला | श्रीमत्कादिमताधीशा कलौ शीघ्रफलप्रदा || ५ || सदा पञ्चमकारैश्च पूजयेत्कालिकाम्बिकाम् | शक्तिं विना न हि जपेत् न शक्तिः कारणं विना || ६ || सदा पञ्चमरूपोऽहमित्येवं परिभावयेत् | एवं भावसमायुक्तः षोढान्यासपरो भवेत् || ७ || दशविद्याविधौ देवि दशधा भिन्नभिन्नतः | श्रीविद्यायां महेशानि षोढापञ्चकमीरितम् || ८ || लघुषोढा पूर्वषोढा महाषोढा तृतीयका | चतुर्था मंत्रषोढा च पञ्चमी गुह्यषोढका || ९ || षोढाषट्कं कालिकायां भेदभेदान्तरेण च | लघुषोढा महाषोढा गुह्यषोढा तृतीयका || १० || मंत्रषोढा शक्तिहंसी दिव्यषोढा रसाभिधा | षोढाद्यचक्रकं क्रोधे चिन्ना या वह्निसंज्ञिका || ११ || श्यामलाया तथा देवि चान्यासु द्वितय शिवे | लघुषोढा महाषोढा द्वितयं परमेश्वरि || १२ || प्रत्येकं षडृषित्वं च सध्यानं च समाचरेत् | ऋषिच्छन्दादिकं यत्र कीर्तितं परमेश्वरि || १३ || प्. २७) तदेव तत्र गदितमनुक्ते मूलदेवता | ध्यानं छन्दादिकं स्तोत्रं देवीवत्सर्वमेव तु || १४ || अयुतं च पुरश्चर्या न्यसनक्रममार्गतः | इति संक्षेपतः प्रोक्तं सर्वमेतत्किमिच्छसि || १५ || श्रीदेव्युवाच क्रमेण दशविद्यायां कुल्लुकार्चाविधिं वद | श्रीशिव उवाच काली तारा तथा छिन्ना सुन्दरी बगलामुखी || १६ || मातङ्गी श्यामला लक्ष्मीः सिद्धविद्या च भैरवी | धूमावती क्रमेणैव महाविद्या दशैव तु || १७ || काली कूर्चं वधू माया फडंता कुल्लुका मता | अघोराख्यो ऋषिः प्रोक्तो विराट्छन्दः प्रकीर्तितम् || १८ || देवता कुल्लुका काली बीजं मायाभिधं मतम् | कामशक्तिस्तथा कूर्चं कीलकं परिकीर्तितम् || १९ || डड्दीर्घाढ्येन कामेन षडंगन्यासमीरितम् | ध्यानपूजादिकं सर्वं कालिकावत्समाचरेत् || २० || माया रमा तथा कूर्चं तारिणी कुल्लुका मता | तारिणीकुल्लुकायाश्च विरूपाक्षो ऋषिः स्मृतः || २१ || उष्णिक् छन्दः समाख्यातं देवता नीलतारिणी | कूर्चबीजं तथा माया शक्तिर्वधू च कीलकम् || २२ || मायाया तु षडङ्गानि सर्वनीला सरस्वती | वज्रवैरोचनी प्रोच्य संबुद्ध्यन्ते सवर्म च || २३ || अतिकालो ऋषिः प्रोक्तो गायत्र्यं छन्द ईरितम् | हबीजं मु/ तथा शक्तिः कीलकं रोचनी मता || २४ || शिवं षड्दीर्घयुक्तेन षडङ्गं न्यासमाचरेत् | ध्यानपूजादिकं सर्व छिन्नावत्समुपाचरेत् || २५ || संपत्प्रदायाः प्रथमं बीजं श्रीभैरवीमनौ | विकरालो ऋषिः प्रोक्तः पंक्तिछन्दः प्रकीर्तितम् || २६ || देवता भैरवीनाम्ना कुल्लुका परिकीर्तिता | ह/ बीजं सौ/महाशक्तिरमन्त्रं कीलकं मतम् || २७ || षड्दीर्घाढ्येन बीजेन षडङ्गन्यासमाचरेत् | ध्यानपूजादिकं सर्वं बालावत्समुपाचरेत् || २८ || प्. २८) सुन्दर्या कुल्लुका देवि सम्प्रोक्ता द्वादशाक्षरी | वाग्भवं कामराजं च लज्जा च त्रिपुरे पदम् || २९ || शी च भगवती प्रोच्य तदन्ते ठद्वयं वदेत् | सुन्दरी कुल्लुकायास्तु ऋषिरानन्दभैरवः || ३० || गायत्री छन्द आदिष्टं वाग्भवं बीजमीरितम् | लज्जा शक्तिर्महेशानि कामबीजं च कीलकम् || ३१ || देवता त्रिपुरेशी च षडङ्गेति द्वयेन च | ध्यानपूजादिकं सर्वं सुन्दरीवत्समाचरेत् || ३२ || मातङ्गी बगला लक्ष्मीर्धूम्रोच्छिष्टक्रमे शृणु | तारं कूर्चं नारसिंहैः पञ्चानां कुल्लुका मता || ३३ || ऋषिर्भैरवनामा च यावच्छन्दांसि पार्वति | देवता सैव बीजादि स्वस्वदेवक्रमेण वै || ३४ || ध्यानपूजादिकं सर्वं स्वस्वदेववदाचरेत् | इति संक्षेपतः प्रोक्तं कहरूपं शृणु प्रिये || ३५ || कहेश्वरी महाविद्या द्रुतं सिद्धिफलप्रदा | कहेति द्व्यक्षरो मन्त्रो यस्य वक्त्रे विराजते || ३६ || स एव कालीरूपः स्यात्तारादेहमवाप्नुयात् | कहेति पुष्पिणी मुख्या तत्सर्वं सर्वदा चरेत् || ३७ || ऋतुस्रातां समादाय तस्या * * प्रपूजयेत् | * * पूजनमात्रेण त्रैलोक्यविजयी शिवः || ३८ || त्रिकोणसंज्ञा * * स्यात्तत्रस्थो बिन्दुरूच्यते | त्रिकोणमध्ये साङ्गां वै तथा सावरणां प्रिये || ३९ || सरहस्यां प्रपूज्याथ तत्र यन्त्रं विभावयेत् | कृत्वाऽवरणपूजां च यत्किञ्चित् जपति प्रिये || ४० || तत्सर्वं सिद्धिदं देवि नात्र कार्या विचारणा | तथा यदुच्यते देवि शुभं वा यदि वाऽशुभम् || ४१ || तत्सर्वं यत्नतो देवि कर्तव्यं हितमिच्छता | * * * * मृतैर्देवि तर्पणं सर्वदा चरेत् || ४२ || ब्रह्मरूपा सिद्धरूपा प्रसन्ना कालिका भवेत् | उत्तमा * * पूजा स्याद्यन्त्रपूजा च मध्यमा || ४३ || अधमा मूर्तिपूजा च पादपूजा वृथा भवेत् | * * पूजा नाभिपूजा कोणभावे प्रकीर्तिता || ४४ || कोण तदीये विद्यन्ते नाड्यस्तिस्रः प्रधानिकाः | अम्बु स्रवति चान्द्रीया पुष्पं स्रवति भानवी || ४५ || बीजं स्रवति चाग्नेयी त्रिकोणमध्यगा स्मृता | आग्नेयीनाडिकां बीक्ष्य पूज्य जाप्य प्रतर्पयेत् || ४६ || * * * * मृतैः कुण्डगोलोत्थैः स्वस्वपुष्पकैः | स्वयम्भूकुसुमैर्देवि पूजयेत्कालिकां सदा || ४७ || मुण्डमाला गले धार्या महाशङ्ख कराम्बुजे | ध्यायेत् * * मुखे हाला कामबाला तवाग्रतः || ४८ || नरमाला दन्तमाला स्मशान योनिमण्डलम् | एवं यः कुरुते देवि त्रिशक्तिसिद्धिमाप्नुयात् || ४९ || अन्यथानन्तजापैश्च वीरसाधनकोटिभिः | त्रिशक्तयो न सिध्यन्ति किमन्यछ्रोतुमिच्छसि || ५० || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे शक्तिकोणविनिर्णयो नाम षष्ठः पटलः || ६ || सप्तमः पटलः श्रीदेव्युवाच देवेश श्रोतुमिच्छामि यक्षिणीमण्डलं शुभम् | श्रीशिव उवाच गन्धर्वाप्सरसो यक्षकिन्नरा गुह्यकादयः || १ || एतेषां देवदेवेशि मण्डलानि बहूनि च | यक्षिणीमण्डलं चादौ ततो गन्धर्वमण्डलम् || २ || अप्सराकिन्नरीयुग्मे ततो गुह्यकयुग्मकम् | भूतिनीनागिनीयुग्मे कुष्माण्डमण्डलं ततः || ३ || महाक्रोधेन क्रोधेन श्रीपार्षन्मण्डलेन वा | अन्यथा नैव सिध्यन्ति लक्षकोटियुगैरपि || ४ || महाविद्यामहायक्ष्या मण्डलं सिद्धमण्डलम् | महायक्षश्च यक्षिण्यो महायक्षश्च यक्षकः || ५ || कस्मिन्को वा भवेद्यक्षो महायक्षश्च को भवेत् | यक्षिणी का च कस्यां च महायक्षी तु का भवेत् || ६ || एतदज्ञानतो देवि नहि सिध्यन्ति कुत्रचित् | पूर्वोक्तमण्डलान्यत्र सिध्यन्ति विद्यया ध्रुवम् || ७ || आदौ काली च तद्यक्षी महामधुमती परा | द्वितीया भ्रामरी या च सुन्दर्याः सुरसुन्दरी || ८ || भैरव्याश्चन्द्ररेखा च भार्या च भगिनी सुता | मता शाली केलिकुञ्ची श्वश्रूश्च शालमञ्जिका || ९ || यक्षिणीरूपमाख्यातं महायक्षी च मातृका | तारायास्तारिणी यक्षी किंकटा पद्मनायिका || १० || चिन्नाया लम्पटा यक्षी बगलाया बिडालिका | कमलायास्तु धनदा भुवनेश्याः शृणु प्रिये || ११ || त्रैलोक्यमोहनी यक्षी मातंग्याः शृणु यत्नतः | श्रीमनोहारिणी प्रोक्ता धूमावत्याः शृणु प्रिये || १२ || भीषणी यक्षिणी प्रोक्ता दशमण्डलमीरितम् | दशविद्याविधौ देवि महायक्ष्यः प्रकीर्तिताः || १३ || प्. ३१) यद्विद्यायाश्च या यक्षी सा तस्याः सेवका मता | तस्याश्चोपासको यो हि तस्य सा सिध्यति ध्रुवम् || १४ || अन्यमन्त्रं जपन्मर्त्यो यां काञ्चिद्यक्षिणी जपेत् | न तस्य फलसिद्धिः स्याद्यक्षिणीकोपमाप्नुयात् || १५ || दशमण्डलयक्षिण्या भेदा वै कोटिशः स्मृता | तेऽपि वै दशविद्यानां भेदाः सिध्यन्ति नान्यथा || १६ || भूतमण्डलमप्यत्र सिद्धं भवति निश्चितम् | एतद्यो वै न जानाति तस्य यक्षी कथं भवेत् || १७ || अथाष्टनायिका यक्ष्यः सिध्यन्त्यत्र महेश्वरि | षट्त्रिंशदत्र यक्षिण्यो यक्षिण्यः षोडश प्रिये | विद्यासिद्धौ प्रसिध्यन्ति नान्यथा नाशमाप्नुयात् || १८ || इति श्रीशक्तिसंगममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे यक्षिणीमण्डलं नाम सप्तमः पटलः || ७ || अष्टमः पटलः श्रीदेव्युवा विद्यासिद्धिं विना देव सिध्यति न हि वा वद | यक्षिण्यादिमहासिद्धिस्तस्य हस्ते कथं भवेत् || १ || श्रीशिव उवाच एतज्ज्ञानवशाद्देवि सर्वं सिध्यति नान्यथा | अप्सरोमण्डलं देवि किन्नरीमण्डलं तथा || २ || गन्धर्वमण्डलं देवि सिद्धगुह्यकमण्डलम् | पिशाचमण्डलं चैव भूतिनीमण्डलं तथा || ३ || नागिनीमण्डलं देवि डाकिनीमण्डलं तथा | कुष्माण्डमण्डलं देवि तथा शाबरमण्डलम् || ४ || दशविद्याक्रमेणैव श्रीक्रोधमण्डलेन वा | पार्षन्मण्डलयोगेन सर्वाः सिध्यन्ति सिद्धयः || ५ || मण्डलत्रितये देवि अप्सराद्याः सुसिद्धिदाः | मन्त्रसिद्धिविधानेन सर्वाः सिध्यन्ति केवलम् || ६ || काली तारा सुन्दरी च त्रियोगात्सिध्यति ध्रुवम् | अन्यथा नैव सिध्यन्ति नात्र कार्या विचारणा || ७ || इति संक्षेपतः प्रोक्तं दीक्षां तत्र शृणु प्रिये | कादितन्त्रोक्तमार्गेण पूर्णदीक्षा प्रकीर्तिता || ८ || बृहत्-श्रीक्रमतंत्रोक्ता ऊर्ध्वम्नायस्वरूपिणी | सुधाशांभवतंत्रोक्ता शान्तिनिर्वाणरूपिणी || ९ || पराताण्डवतंत्रोक्ता शाम्भवाख्या प्रकीर्तिता | शक्तिसङ्गमतंत्रोक्ता शाम्भवाख्या प्रकीर्तिता || १० || ऊर्ध्वाम्नायपरिज्ञानं पराप्रसादचिन्तनम् | महाषोढापरिज्ञानं नाल्पस्य तपसः फलम् || ११ || पर्यायनित्यविज्ञानं नित्यानित्यप्रपूजनम् | षष्टिजपप्रकारश्च नाल्पस्य तपसः फलम् || १२ || पञ्चषोढापरिज्ञानं शक्तिन्यासस्य चिन्तनम् | नामपारायणं नाम मंत्रपारायणं तथा || १३ || प्. ३३) युगानित्यापरिज्ञानं नाल्पस्य तपसः फलम् | पूर्नाभिषेकषट्कं च कालिकामंत्रचिन्तने || १४ || नीलसाधनकं कर्म नाल्पस्य तपसः फलम् | चरणत्रयचिन्ता च शाम्भवादौ परिक्रिया || १५ || काली तारा नामधर्मो नाल्पस्य तपसः फलम् | अनिरुद्धसरस्वत्याः समा विद्या न चास्ति वै || १६ || एतस्या ज्ञानमात्रेण किन्न सिध्यति भूतले | श्रीविद्यायां महेशानि वीरसाधनमाचरेत् || १७ || अहोरात्रे कलौ तारा सुन्दरी सुप्रसीदति | सुन्दर्यां नीलगान्दर्वौ कर्तव्यौ सिद्धिमिच्छता || १८ || महादिव्यक्रमेणैव महावीरक्रमेण च | महानीलक्रमेणैव कादिहादिकहात्मिका || १९ || सिध्यन्त्येव महेशानि ए ह्रीं श्रीं च पशुक्रमात् | अन्या दिव्यक्रमेणैव एता अपि महेश्वरि || २० || स्वयम्भूपुष्पक्रमतः साधना भैरवीमनौ | स्वजातपुष्पक्रमतः साधना भैरवीमनौ || २१ || स्वयम्भूक्रमयोगेन किन्न सिध्यति भूतले | वाचा सर्वं तु भवति वाग्भवं तेन कीर्तितम् || २२ || वाग्भवं ब्रह्मरूपं च ह्यर्धनारीश्वरः स्वयम् | शिवशक्त्यात्मकं बीजं यो जानाति स साधकः || २३ || वाग्भवं सर्वमूलं तु शक्तिचक्रात्मकं प्रिये | शक्तेः समरसानन्दसंयोगे यत्सुखं प्रिये || २४ || तत्सौख्यरूपं देवेशि वाग्भवं बीजमीरितम् | निर्गुणं तु निराकारं सच्चिदानन्दविग्रहम् || २५ || निर्द्वन्द्वं निरहङ्कारं तद्ब्रह्म परिकीर्तितम् | ईदृशं तु परं ब्रह्म मुखादुच्चर्यते कथम् || २६ || मुखादुच्चार्यते सर्वं वाग्भवं मुखमुच्यते | वाचा सर्वं संभवति जगत्स्थावरजङ्गमम् || २७ || शिवशक्त्यात्मकं देवि वाग्भवं बीजमुत्तमम् | शक्तिः सचेतना प्रोक्ता जडः परशिवो मतः || २८ || प्. ३४) विना शक्त्या निर्गुणस्य मुखादुच्चारणं कुतः | तस्माच्छक्तिं विहायाथ सर्वत्र जडता मता || २९ || मुखे शक्तिसमायोगाद्ब्रह्मसंज्ञाऽभिधीयते | मुखे शक्तिः स्थिता नित्या वाक्शक्तिरिति कीर्तिता || ३० || अर्द्धनारीश्वरं रूपं वाग्भवं कीर्तितं प्रिये | सर्वादिभूतं तु मुखं परब्रह्म प्रकीर्तितम् || ३१ || मुखादुच्चारणं देवि सर्वेषां जायते प्रिये | वाग्भवं तेन सम्प्रोक्तं ब्रह्मरूपं सनातनम् | वाग्भवं मुखमित्युक्तं मुखं ब्रह्म प्रकीर्तितम् || ३२ || इति श्रीशक्तिसंगममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे यक्षिण्यादिमहासिद्धिविनिर्णयो नामाष्टमः पटलः || ८ || नवमः पटलः श्रीशिव उवाच अथासनानि वक्ष्यामि सर्वकार्यार्थसिद्धये | मृद्वासनं समारूढं कोमलं चूडकं तथा || १ || योनित्वग्विष्टरमप्यस्थि भूम्यासनं तथा | कूर्चासनं तथा देवि तथैव सुरतासनम् || २ || मुण्डासनं तथा देवि पञ्चमुण्डासनं तथा | त्रिमुण्डमेकमुण्डं वा आसनार्थे प्रकीर्तितम् || ३ || चिताऽपि आसने शस्ता श्मशानं सर्वयोत्तमम् | चूडकं च तथा प्रोक्तं तथैव च शवासनम् || ४ || मृतासनं तथा प्रोक्तं महाशवमथासनम् | वीरासनं महेशानि महावीरासनं तथा || ५ || योनिपुष्पासनं देवि दीर्तितान्यासनानि च | तत्रादौ सम्प्रवक्ष्यामि मुण्डानां लक्षणं शुभम् || ६ || अस्य साधनमात्रेण साक्षाच्छिवमयो भवेत् | ब्रह्मक्षत्रियविट्शूद्राश्चतुर्धा चास्थिजातयः || ७ || श्वेता रक्ता तथा पीता कृष्णा वैडूर्यका मता | इत्थेतन्मुण्डरहस्ये प्रोक्तं देवि महेश्वरि || ८ || सद्यः कृतं त्रिरात्रस्थं सप्तरात्रस्थगं तथा | त्रिसतरानगत्र्य(?)स्थमुत्तमादिक्रमाच्छ्रुणु || ९ || उत्तमं मध्यमं चैव हाधमं हाधमाधमम् | सद्यः कृतं तु यन्मुण्डमुत्तमं परिकीर्तितम् || १० || त्रिरात्रमध्यगं मुण्डं मध्यगं परिकीर्तितम् | षड्रात्रोत्तरगं मुण्डमधमं परिकीर्तितम् || ११ || त्रिसप्तरात्रमध्यस्थं कीर्तितं हाधमाधमम् | सद्यःकृतं तु यन्मुण्डं सर्वकार्ये प्रकीर्तितम् || १२ || त्रिरात्रमध्यगं मुण्डं मालायन्त्रे प्रकीर्तितम् | षड्रात्रोत्तरगं मुण्डं पात्रकार्ये विनिर्दिशेत् || १३ || त्रिसप्तरात्रमध्यस्थं मालायन्त्रादिके मतम् | षण्मासमध्यगं मुण्डं सामान्यं तदुदीरितम् || १४ || प्. ३६) श्री देव्युवाच कालिकपरिशिष्टे तु ह्यन्यथा परिकीर्तितम् | त्रिरात्रमध्यगं मुण्डं मालार्थे परिकीर्तितम् || १५ || षड्रात्रोत्तरगं मुण्डं सामान्यं तदुदीरितम् | सद्यःकृतं तु यन्मुण्डं सामान्यं तदुदीरितम् || १६ || श्रीशिव उवाच सद्यःकृतं तु यन्मुण्डं मालायन्त्रे प्रशस्यते | पात्रार्थसाधने शस्तं ह्यभावात् सप्तरात्रिकम् || १७ || सद्यःकृतं तु यन्मुण्डं साधानार्थं प्रकीर्तितम् | उत्तमं मुण्डमादाय हस्तमात्रं खनेद्बुधः || १८ || कुलवृक्षस्य मूले वा स्मशाने वा चतुष्पथे | निर्जने शून्यगेहे वा तस्योपरि जपं चरेत् || १९ || बलिं दत्त्वा प्रयत्नेन दिक्पालेभ्यो विशेषतः | दिग्बधभूतशुद्ध्यादीन् कृत्वा वै जपमाचरेत् || २० || यावत्संख्यं मनुं तप्त्वा तद्दशांशेन होमयेत् | सिद्धमुण्डं पुरा कृत्वा मालादीन्कारयेत्प्रिये || २१ || स्वेच्छामृतं द्विवर्षं च वृद्धं स्त्रियं द्विजं तथा | अन्नाभावे मृतं कुष्ठं सप्तरात्रोर्ध्वगं तथा || २२ || एवं चाष्टशवं त्यक्त्वा वीरसाधनमाचरेत् | वीरासनमिदं प्रोक्तं कालिकाप्रीतिकारकम् || २३ || सप्तरात्रोत्तरं प्राप्तं चान्तरिक्षे स्थितं शवम् | शूले निपातितं वाऽपि पात्रार्थे शस्यते प्रिये || २४ || अन्तरिक्षे स्थितं देवि षण्मासोत्तरगं तथा | मालिकायां प्रशस्तं च त्वधःस्थं सप्तरात्रजम् || २५ || शनिभौमादिने वापि शरीरे मृतसंभवे | चतुर्दश्यां पौर्णमास्याममायां दीपकोत्सवे || २६ || संक्रान्त्यां चाष्टमीयुक्ते तथा दुर्गोत्सवे प्रिये | एवं वीरदिने देवि तथा वीररणागमे || २७ || जाते मुण्डे शुभं शस्तमथ शूलादिके स्थितम् | खड्गेन हननं कृत्वा गृहीत्वा जपमाचरेत् || २८ || प्. ३७) सहस्त्रमणिभिर्माला धार्या सर्वाङ्गके प्रिये | रुद्राक्षवद्धारणं स्यात् कालीमन्त्रण शुध्यति || २९ || माला तु त्रिविधा प्रोक्ता उत्तमा मध्यमाऽधमा | दन्ताक्षमालया चैव राजदन्तेन मेरुणा || ३० || उत्तमा मालिका प्रोक्ता कालिकाकर्षिणी परा | कर्णनेत्रन्तरस्थो यो महाशङ्केति कीर्तितः || ३१ || महाशङ्खमयी माला पञ्चाशन्मणिनिर्मिता | मध्यमा मालिका प्रोक्ता ताराजापे प्रकीर्तिता || ३२ || अस्थिभिर्वा नृमुण्डैर्वा किञ्च वा नृललाटजाम् | देहे देहान्तरस्था वा माला प्रोक्ता किनिष्ठिका || ३३ || छिन्नादेव्या विधौ देवि एवं हि त्रिविधा मता | सम्मुखौ यौ उभौ दन्तौ राजदन्तौ प्रकीर्तितौ || ३४ || करालास्यमहाकाल्या दानवा भक्षिताः पुरा | त्रैलोक्यवासिनौ दन्तौ राजदन्ताविति स्मृतौ || ३५ || राजदन्तेति संज्ञा वै देव्या पूर्वं कृता प्रिये | यौ दैत्यचर्वको दन्तौ मम कार्यकरावुभौ || ३६ || तस्मात्प्रीतेन मनसा मेरुकार्ये नियोजितौ | कालिकासंहितायां च मतमन्यत्प्रकीर्तितम् || ३७ || मुखं देव्या महेशानि येन दन्तेन राजते | तेन कारणतो देवि राजदन्तेति कीर्तितम् || ३८ || अन्यत् शृणुष्व दन्तेषु राजते राजदन्तकः | सूर्याग्निसोमसूत्रैश्च माला कार्या प्रयत्नतः || ३९ || वसया मज्जया वाऽपि नटिभिर्वा शुभा मता | स्वयम्भुवाक्ता या नाडी सा नाडी सर्वतोत्तमा || ४० || स्वयम्भुवाक्तं यत्सूत्रं तत्सूत्रं सर्वतोत्तमम् | पण्यस्त्रीनिर्मितं सूत्रं कुमारीनिर्मितं तथा || ४१ || ततो द्विजेन्द्रपुण्यस्त्रीनिर्मितं ग्रन्थिवर्जितम् | कुण्डाक्तं चैव गोलाक्तं स्वयम्भुवाक्तं तथैव च || ४२ || ततो मातङ्गिनीहस्तात् प्राप्तं तु सर्वतोत्तमम् | नाड्या संग्रथनं कार्यं रक्तेन वाससा प्रिये || ४३ || इयं तु सिद्धिदा माला कालिकाकृष्टिकारिणी | या काली सैव तारा स्यात् या तारा सैव कालिका || ४४ || प्. ३८) या काली सैव छिन्ना स्यात् या छिन्ना सैव तारिणी | या सुन्दरी सैव काली सर्वसिद्धिप्रदा मता || ४५ || चतसॄणां न भेदोऽस्ति भेदभाक् नरकं व्रजेत् | मालापात्रासनं चैव चतसॄणां शुभं मतम् || ४६ || मन्त्रध्याने विशेषोऽस्ति तथा नाम्नि विरोधता | प्रयोगादिविशेषोऽस्ति सुन्दर्यामेव पार्वति || ४७ || तिसॄणां न विशेषोऽस्ति त्रिशक्तिरिति कीर्तिता | श्मशानेषु च वाह्येषु कालिका तिष्ठते सदा || ४८ || तस्माद्वीरासनं शस्तं तथैव वीरसाधनम् | वीरासनादिकं कर्म तथैव वीरसाधनम् || ४९ || समन्त्रं सबलिं चैव सदिग्बन्धादि चोच्यते | अखण्डाङ्गं शवं शस्तं सखण्डं मुण्डमुच्यते || ५० || रक्ताक्तं यदि देवेशि तदा त्याज्यं प्रयत्नतः | प्रमादाद्यदि देवेशि नहि त्यजति साधकः || ५१ || तदैव मरणं तस्य हान्यथा शुभमेव हि | इत्थेतत्कथितं देवि संक्षेपेण लवाज्ञया | वीरासिद्ध्यादिकं कर्म शृणु यत्नेन साम्प्रतम् || ५२ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे आसनकथनं नाम नवमः पटलः || ९ || दशमः पटलः श्रीशिव उवाच अथातः संप्रवक्ष्यामि वीरसिद्धेश्वरीं पराम् | यस्या विज्ञानमात्रेण महाकालसमो भवेत् || १ || पादुकाखण्ड्गवेतालधातुवादश्च यक्षिणी | गुटिकाञ्जनसिद्धिश्च गुप्तिश्च तिलकः शिवे || २ || सर्वं संभवति क्षिप्रं नान्यथा शाङ्करं वचः | कालिका तारिणी छिन्ना त्रिशक्तिरिति ईरिता || ३ || त्रिशक्तिविषये देवि साधनेयं प्रकीर्तिता | मुण्डकोपासनं नाम सर्वसिद्धिप्रदायिका || ४ || साधना कालिकारूपा मुण्डदुर्गाऽभिधातु सा | रणवीरं महावीरं तथा पाशगलानपि || ५ || शूलप्रोतान् यष्टिविद्धान् षट्त्रिंशदस्त्रविद्धकान् | सर्पादिजीवनष्टान् वै गजव्याघ्रविदारितान् || ६ || अपमृत्युमृतान्देवि शवनाहृत्य पार्वति | महावीरैर्महामुण्डैर्दुर्गं कृत्वा प्रयत्नतः || ७ || रणवीरं समारभ्य महावीरान्तकं शिवे | आसनार्थं प्रकर्त्तव्यं परितो मुण्डदुर्गकम् || ८ || दिननन्दाष्टाद्रिरसैः सहस्रैः पञ्चभिश्च वा | अभावे त्रिसहस्त्रेण मुण्डदुर्गे समाचरेत् || ९ || तारासारूप्यचक्रं तु स्वाग्रे संलिख्य पार्वति | पात्रार्थं च तथात्मार्थं देवार्थमपि पार्वति || १० || स्नानं त्यक्त्वा प्रयत्नेन साधयेद्दुर्गसाधनम् | दुर्गेऽरण्ये नदीगर्भे तडागे शून्यवेश्मनि || ११ || रणे श्मशाने देवेशि त्रिपथे वा चतुष्पथ | कुलवृक्षे चैक वृक्षे शिवदेवगृहेऽथ वा || १२ || एकलिङ्गे प्रयत्नेन मुण्डदुर्गं प्रसाधयेत् | एके संसाधिते देवि त्रैलोक्यसाधितं भवेत् || १३ || प्. ४०) वीरसाधनसामग्रीं पुरतः स्थाप्य पार्वति | वीरवेषो दयायुक्तो खादिरानन्दशकीलकान् || १४ || अन्तर्बन्धबहिर्बन्धौ कृत्वा यत्नेन पार्वति | वीरसाधनवत्कृत्वा सर्वं यत्नेन पार्वति || १५ || यावदमे समायान्ति मुण्डानि परमेश्वरि | तावदिष्टा भवन्त्यत्र दशविद्याक्रमेण च || १६ || काली तारा तथा छिन्ना सुन्दरी बगलामुखी | इष्टाः पञ्च विशेषेण भविष्यन्ति क्षणेन च || १७ || या या बलिर्याच्यते तैः सा सा देया प्रयत्नतः | वरो ग्राह्यः प्रयत्नेन वीरयन्त्रप्रपूजकैः || १८ || वीरजापी वीरपात्री वीरमालासनी शिवे | मुण्डदुर्गे नरः स्थित्वा क्षणात् त्रैलोक्यसिद्धिभाक् || १९ || भीतिं तु तृणवत्कृत्वा महावीरो दिगम्बरः | शिवरूपो नरो भूयान्नात्र कार्या विचारणा || २० || घटी पञ्चकयोगेन सर्वसाम्राज्ययोगके | इष्टाः पञ्च भविष्यन्ति महाविद्यास्वरूपिणः || २१ || इष्टसिद्धिं सर्वसिद्धिं प्रदास्यन्ति क्षणे क्षणे | गोपनीयाः कलौ देवि साधकेन हितेच्छुना || २२ || गोपनीया साधनेयं स्वयोनिरिव तारिणि | त्रैलोक्यराज्यं सत्काव्यं महाश्रुतिधरी कला || २३ || शापानुग्रसामर्थ्यं मुण्डदुर्गभवं फलम् | बिन्दुं त्रिकोणं सूर्यं च ततोऽष्टदलभूषितम् || २४ || वृत्तं भूपुरसंयुक्तं वज्राष्टकविभूषितम् | बिन्दुं सिन्दूरवर्णं च त्रिकोणं दिव्यवर्णकम् || २५ || सूर्यं घुसृणवर्णं च दले वर्णाष्टकं शिवि | वृत्तं च कालिकावर्णं भूपुरं श्वेतवर्णकम् || २६ || चतुर्वर्णं चतुर्द्वारं तारास्वाराज्यचक्रकम् | शूलाष्टकविभूषाढ्यं तत्रिकोणे त्रिशंक्तयः || ३७ || तत्तद्वर्णानि बीजानि कामेशी दिक्सुरेश्वरी | प्रचण्डेति महेशानि महाकाली ततो दले || ३८ || प्. ४१) रुद्राणी च तथोग्रा च घोरा भीमा तथाम्बिका | महारात्रिभैरवीति ततो वैरोचनाष्टकः || २९ || पद्मान्ताकादयः पूज्याः कुल्लका मुर्ध्निं पूजयेत् | अक्षोभ्यं पूजयेत्तत्र सर्वमन्यच्च पूर्ववत् || ३० || एवं कालीमयं चक्रं कृत्वा का साधनं चरेत् | चतुरान् साधकान्दूरे स्वरुरून्दूरदेशकान् || ३१ || कृत्वा संसाधयेद्देवि किं तद्दन्न करे स्थितम् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ३२ || श्रीदेव्युवाच देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् | श्रीशिव उवाच काली तारा तथा छिन्ना चतुर्थी सुन्दरी मता || ३३ || एवं दशसु विद्यासु वीरसाधनमाचरेत् | शैवे गाणपते चान्द्रे बौद्धे स्वायम्भुवे तथा || ३४ || वैष्णवे सौरमन्त्रेषु गारुडे केरलेषु च | एतेषु देवदेवेशि वीरसाधनमाचरेत् || ३५ || वीरसाधनकं कर्म वैदिके नाचरेत् शिवे | केरलेष्वपि देवेशि वीरसाधनकं न च || ३६ || वैदिकेऽप्याचरेद्देवि यदि वै तादृशो मनुः | केरलेऽप्याचरेद्देवि यदि क्रूरो मौर्भवेत् || ३७ || मुख्या तु साधना काल्यां तारायामपि कीर्तिता | या काली सैव तारा स्यात् छिन्नायामपि संमता || ३८ || एवं पाशुपताद्येषु वीरसाधनमाचरेत् | बगलाद्यासु विद्यासु वीरसाधनमाचरेत् || ३९ || वीरसाधनकं कर्म विहाय सिद्धिकामुकः | स चक्षुषा विना रूपं दर्पणे द्रष्टुमिच्छति || ४० || तस्मात्तु साधना मुख्या दशविद्यासु पार्वति | तारिणी ब्रह्मरूपा स्यात् कालिका ब्रह्मसुन्दरी || ४१ || छिन्नाद्या ब्रह्मसिद्धिः स्यात् सुन्दरी ब्रह्मचिद्घना | एवं सर्वत्र देवेशि ब्रह्मत्वं व्याप्य तिष्ठति || ४२ || प्. ४२) मुख्यत्वं सर्वविद्यासु तत्रापि कालिका कलौ | एकद्वित्रिविधा देवि दशधा शतधा शिवे || ४३ || लक्षधा कोटिधा देवि तथा चानन्तरूपिणी | अङ्गाङ्गकैर्नामभेदैः कालिकेति प्रगीयते || ४४ || सर्वाद्या कालिकाशक्तिः सैव तारा च कुल्लुका | सुन्दरी छिन्नमस्ता च कालिकैव प्रकीर्तिता || ४५ || यावद्धि वर्णितुं शक्या तावत्सगुणतां गता | वाच्यातीता यदा जाता तदा निर्गुणतां गता || ४६ || जिग्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि | महिमां वर्णितुं चास्या न शक्नोमि महेश्वरि || ४७ || अशक्यत्वं यदा जातं तदैव ब्रह्म कीर्तितम् | निर्गुणत्वं तु किन्नाम वर्णनाशक्तिगोचरम् || ४८ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे वीरसिद्धेश्वरी कथनं नाम दशमः पटलः || १० || एकादशः पटलः श्रीशिव उवाच निर्गुणत्वं तथा प्रोक्तं किमन्यच्छोतुमिच्छसि | श्री काल्युवाच आदिनाथ महाकाल सर्वभूतहितां वर || १ || स्वतः श्रुता महाविद्या दशसंख्यासमन्विताः | लघुपूर्वा महाविद्या दशसंख्यैव कीर्तिताः || २ || त्रयोदश महाविद्या विरूपाक्षेण कीर्तिताः | तथा षोडश वै विद्या भैरवेण प्रदर्शिताः || ३ || देवीमते महाविद्या सिद्धविद्याऽपि देवते | त्रिशक्तिः कथिता देव त्रिशक्तिस्त्रिविधा मता || ४ || काली तारा छिन्नमस्ता त्रिशक्तिः परिकीर्तिता | बाला पञ्चदशी देव षोडशी त्रिरिति स्मृता || ५ || त्रिशक्तिलक्ष्मीः छिन्नायां त्रिशक्तित्वं च कीर्तितम् | सर्वं त्वया निगदितं पूर्वोक्तं तत्र कीर्तितम् || ६ || यत्किमप्यतिगोप्यं हि प्रायशः परमेश्वर | गोप्यद्गोप्यतरं देव तदद्य कथयस्व मे || ७ || ईश्वर उवाच सहस्रनामस्तोत्रेषु कवचेष्वपि पार्वति | तत्कवचादिकं प्रोक्तं सा वै कार्या पुरष्क्रिया || ८ || यत्र नोक्ता पुरश्चर्या तत्र किं वा विधीयते | अयुतं तु पुरश्चर्या स्तोत्रमात्रे प्रकीर्तिता || ९ || सहस्रनामकवचे पुरश्चर्या त्वियं मता | एवं पुरष्क्रिया कृत्वा दशांशहवनादिकम् || १० || तर्पणं मार्जनं देवि कुत्रचित्परिकीर्तितम् | महाकालमतेनोक्तं तत्रस्थं चेत् समाचरेत् || ११ || ब्रह्मणभोजनं चान्ते सर्वथा कारयेत् प्रिये | विप्रसन्तोषणेनैव सर्वं सिध्यति पार्वति || १२ || हवनं तु कथं कार्यं पुरश्चर्या कथं भवेत् | स्हस्रनामरूपं च कीदृशं परमेश्वरि || १३ || प्. ४४) तथा कवचकं देवि किं रूपं परिकीर्तितम् | शिवदेव्यास्तु संवादो ब्रह्मरन्ध्रेति कीर्तितम् || १४ || अन्ये श्लोकाः केशतुल्या ऋषिः शिव इतीरितः | छन्दो मुखं भवेद्देवि देवता हृदयं भवेत् || १५ || बीजं गुह्यमिति प्रोक्तं शक्तिस्तु परगा मता | सर्वोगकल्पनं देवि ह्यर्थवादः प्रकीर्तितः || १६ || स्तोत्रमध्ये स्थितं यद्यत्तत्सर्वं स्तोत्ररूपकम् | एवं च देवदेवेशि स्तोत्ररूपं प्रकीर्तिअम् || १७ || तदेव कवचं देवि त्वाद्योपान्तं पथेत्प्रिये | अङ्गहीने भवेन्नाशं सर्वथा परमेश्वरि || १८ || फलं स्तुत्यादिके देवि गतिरित्यभिधीयते | आद्योपान्तं बिना देवि फलमर्धं प्रकीर्तितम् || १९ || अत्रार्थे प्रत्ययो देवि पञ्चाङ्गाद्याः यथा स्मृताः | होमं कार्यं कथं देवि श्लोकान्ते हवनं च वा || २० || हवनं कवचादीनां शृणु यत्नेन साम्प्रतम् | आद्योपान्तं पठित्वा तु पश्चात्तु हवनं मतम् || २१ || अथवा देवदेवेशि नामान्ते हवनं मतम् | श्रीदेव्युवाच नामान्ते हवनं चोत्स्यात् उपोद्धाते कथं भवेत् || २२ || कवचादौ कथं कार्यं कवचं मन्त्ररूपकम् | तत्र नामान्तकं वापि श्लोकान्तं परमेश्वर || २३ || सम्पूर्णं वापि कर्त्तव्यं होमकर्मणि शंकर | ईश्वर उवाच साङ्ख्यायनमते देवि गौडपाठविधिर्मता || २४ || पठनीयानि नामानि मध्यस्थानि महेश्वरि | श्लोकार्धं पादमात्रं वा पादार्धं नाममात्रकम् || २५ || मध्यस्थं नामसाहस्रं पठेद्यत्नेन सुव्रते | साङ्ख्यायनमतं प्रोक्तं उपोद्धातं शृणु प्रिये || २६ || उपोद्धातोपसंहारो श्लोकान्ते हवनं मतम् | तदन्ते हवनं कुर्यात् इति साङ्ख्याअनोऽब्रवीत् || २७ || प्. ४५) कवचादावपि प्रिये मन्त्रान्ते हवनं भवेत् | उपक्रमोपसंहारे श्लोकान्ते हवनं मतम् || २८ || आदौ पूर्णं तु सम्पठ्य तथैवान्ते महेश्वरि | मध्ये नामानि पाठ्यानि पुरश्चर्या प्रकीर्तिता || २९ || काश्मीराख्यक्रमे देवि शृणु यत्नेन साम्प्रतम् | स्तोत्रमावर्त्य संपूर्ण तदन्ते गणनां चरेत् || ३० || सम्पूर्णक्रमयोगस्तु काश्मीराख्यः प्रकीर्तितः | सम्पूर्णहोमयोगस्तु कथितस्तु प्रियंवदे || ३१ || मार्जनाभिषेचनं कर्म कुर्यादत्र महेश्वरि | काश्मीरकेरलाख्ये तु क्वचिद्भेदोऽस्ति पार्वति || ३२ || अनेनैव क्रमेणैव कवचे होम ईरितः | कवचे तर्पणाद्यं वा कार्यं यत्नेन धीमता || ३३ || सारूप्यं कवचाख्यं तु सायुज्यं स्तोत्रमीरितम् | सान्निध्यं नामसाहस्रं त्रितयं परिकीर्तितम् || ३४ || सालोका वाक् स्तुतिर्देवि तस्मात्पूर्णं पठेत्सुधीः | अयमेव महादेवि केरलेऽपि प्रकीर्तितः || ३५ || पाठमात्रे त्विदं प्रोक्तं होमादौ परिकीर्तितम् | कामरूपागमे होमाः लोकान्ते कवचं पठेत् || ३६ || कामरूपागमे नाम्नि मते चाक्षोभ्यनिर्मिते | लोकान्ते हवनं प्रोक्तं श्लोकान्ते मार्जनादिकम् || ३७ || ततस्तंत्रोक्तबिधिना पुरश्चर्यादिकं चरेत् | कवचं कवचरूपं स्यात् स्तोत्रं सहचरो भवेत् || ३८ || सहस्रनामस्तोत्रं तु सेनास्थाने प्रकीर्तितम् | पूजा दुर्गस्वरूपः स्यात् बलिदानं तु मारणम् || ३९ || मन्त्रोराजपुरश्चर्या राज्यसम्पत्तिरीरिता | सम्पत्त्या तु बिना राजा न शोभते महेश्वरि || ४० || सम्पत्तिमूलमेतद्धि सर्वमेव प्रकीर्तितम् | होमोऽग्न्यस्त्रमिति प्रोक्तं पर्जन्यास्त्रं तु तर्पणम् || ४१ || जले दुर्गस्वरूपं च त्वभिषेकः प्रकीर्तितः | ब्राह्मणानां भोजनं तु दुष्टसैन्यप्रभक्षणम् || ४२ || देवतागुरुविद्यैक्यं त्वात्मैक्यं परिभाव्य च | प्. ४६) सर्वसिद्धिश्वरो भूत्वा त्रैलोक्याधिपतिर्भवेत् || ४३ || यथा च राजराज्यादौ शत्रुसैन्यभयं भवेत् | सिद्धिराज्यं महादेवि तथैव परिकीर्तितम् || ४४ || दुर्गाद्यंस्त्रादिकं देवि देवराज्ये यथा मतम् | तथैव सिद्धिराज्यस्य पुरश्चर्यादिकं मतम् || ४५ || मन्त्रो राजा गुरुर्मन्त्री गणेशो द्वारपालकः | साधना शवमुण्डस्य सिंहासनमितीरितम् || ४६ || साधकेन तथा कार्यं येन सर्वं सुसिध्यति | नैमित्तिकं च काम्यं च हयद्विरदिनौ मतौ || ४७ || होमधूमः पताका स्यात् तन्त्रस्तु सिद्धिभूमिका | सिद्धिराज्याधिपे देवि किं न सिध्यति भूतले || ४८ || षोढान्यासादिकं सेना देवताराज्यदायिका | यन्त्रं तु वज्रदुर्गं तु बीजयंत्रं त्वमेद्यकम् | कवचादिपुरश्चर्या प्रोक्ता किं श्रोतुमिच्छसि || ४९ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे कवचादिपुरश्चर्या नामैकादशः पटलः || ११ || द्वादशः पटलः श्रीदेव्युवाच देवेश श्रोतुमिच्छामि भूतशुद्धिविनिर्णयम् | श्रीशिव उवाच त्रिविधा भूतशुद्धिर्हि केरलादिक्रमेण च || १ || पञ्चधा तत्त्वशुद्ध्या तु देहशुद्धिं समाचरेत् | इत्थं तु केरले प्रोक्तो भूतशुद्धिर्मया तव || २ || काश्मीरे भूतशुद्धिस्तु शोषणादिक्रमेण तु | तत्त्वाव्याप्तिं कृते देवि पापं कास्ति महीतले || ३ || संहारक्रमयोगेन तत्त्वव्याप्तिर्महेश्वरि | एवं क्रमे कृते देवि पापं तस्य क वर्तते || ४ || भूतसंशोधनाद्देवि पापं तस्याऽपि गच्छति | देहनिष्ठं भवेत्पापं तत्पापं कुत्र विद्यते || ५ || तत्त्वव्याप्तौ महेशानि ब्रह्मैवाहं विभावना | पुनर्वै मातृकाव्याप्त्यै देहशुद्धिं समाश्रयेत् || ६ || शोषणादिक्रमे देवि पापं भूताश्रयं शिवे | भूतेसंशोधने जाते पापं कास्ति महेश्वरि || ७ || काश्मीराख्यः क्रमः प्रोक्तो गौडः काश्मीरवद्भवेत् | चैतन्याख्यक्रमे देवि भूतशुद्धिं शृणु प्रिये || ८ || तत्त्वसख्यापन कृत्वा संहारक्रमयोगतः | पापशोधनकं कर्म कुर्याद्यत्नेन पार्वति || ९ || संहारक्रमयोगेन शोषणादि समाचरेत् | पापरूपस्य देवेशि सृष्टिमार्गेण वै स्थितिः || १० || सृष्टिमार्गेण देविशि पुनः सृष्ट्यादिकं चरेत् | यथा युगादिके देव् सृष्टिस्थित्यादिकं भवेत् || ११ || तथैव परमेशानि भूतशुद्धिः प्रकीर्तिता | चराचरो हि संसारः कुत्र गच्छति पार्वति || १२ || तथैव भूतशुद्धौ तु भावना योग एव च | अनादिसिद्धा देवेशि सृष्टिभेदास्तथैव च || १३ || आगमाश्च महेशानि नव वैकृतिमादृता | पुराणान्युपसंज्ञानि सर्वसिद्धिर्भवेच्छिवे || १४ || प्. ४८) एकस्य द्वारमाश्रित्य सा परा कालिका कला | प्रकाशयति देवेशि जगदेतच्चराचरम् || १५ || मायापाशेन संबद्धान् क्षतान् कृत्वा महेश्वरि | संसारचक्रे देवेशि भ्रामयामास या कला || १६ || श्रीविद्यायां तथा काल्यामूर्द्ध्वाम्नाये महेश्वरि | तस्य दर्शनमात्रेण पापमन्यस्य गच्छति || १७ || स देशो धन्यतां याति समन्तात् कोटियोजनम् | तस्य पुण्यफलं देवि मया वक्तुं न शक्यते || १८ || इति संक्षेपतः प्रोक्तं कुतः पापं महेश्वरि | पारायणेन षोडश्याः कालिकायास्तथापि च || १९ || मन्त्रपरायणं देवि नामपारायणं तथा | चक्रपारायणं देवि यन्त्रपारायणं तथा || २० || नाडीपारायणं देवि पञ्च पारायणं विदुः | श्रीविद्यायां कालिकायां पञ्चपारायणक्रमात् || २१ || पारायणं नाम सन्ध्या तेन पापं न चास्ति वै | निर्वार्णे न पापवार्त्ता परात् पूर्वं वदेत् शिवे || २२ || षट्शाम्भवे महेशानि षट्चक्रक्रमयोगतः | पापं दूरतरं देवि केवलानां तु शोधनम् || २३ || अन्येषां भूतिशुद्धिस्तु त्रिविधा परिकल्पयेत् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || २४ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे भूतशुद्धिनिरुपणं नाम द्वादशः पटलः || १२ || त्रयोदशः पटलः ईश्वर उवाच कौलावधूतमार्गेषु तीर्थयात्रां न च व्रजेत् | तीर्थाटनं च संन्यासं व्रतधारणमेव च || १ || उपवासं मुण्डनं च सर्वथा परिवर्जयेत् | पूर्णाभिषेकः शिरसि तेन तत्र न मुण्डनम् || २ || कौलतीर्थानि भिन्नानि तत्र कौले वसेत् सदा | एकस्यामेव देवेशि सन्ति पीठानि कृत्स्नशः || ३ || तत्पीठमधिपीठं स्यात् * * यामधिराजता | श्रीदेव्युवाच देवेश श्रोतुमिच्छामि कौलतीर्थानि सर्वशः || ४ || ईश्वर उवाच ब्राह्मणी तु गया प्रोक्ता राजाऽयोध्या प्रकीर्तिता | वैश्या चावन्तिका प्रोक्ता शुद्धा तु मथुरा स्मृता || ५ || दासी मायापुरं देवि नटी गोदावरी मता | मालाकारिणिका देवि चित्रकूटं प्रकीर्तितम् || ६ || कुम्भकारिणिका देवि श्रीपुरं परिकीर्तितम् | उड्ड्यानं तु महदेवि(?) सौचिकी पौण्ड्रवर्धनम् || ७ || जालन्धरं कुविंदा च तन्तुवायी तु काञ्चिका | असिमार्जनिका देवि कामरूपमिति स्मृतम् || ८ || रजकी पुष्करं प्रोक्तं चर्मकारी तु काशिका | अयस्कारीगृहं देवि कोलापुरमिति स्मृतम् || ९ || शौण्डिक्यास्तु गृहं देवि नेपालमिति कीर्तितम् | केदारपीठं देवेशि नापिती परिकीर्तितम् || १० || गोकर्णपीठं देवेशि त्वाष्ट्री वै परिकीर्तितम् | उज्जयिनी भवेत्पीठं कलादिकमितीरितम् || ११ || कालेश्वरी त्वञ्चुकि स्यात् कैवर्त्ती हस्तिनापुरम् | शौल्किकी राजगेहन्तु जयन्ती तैलकारिणी || १२ || कान्यकुब्जं मागधी स्यात्सर्वत्र गृहयोजनम् | वेश्यागृहं प्रयागः स्याच्छ्रीशैलं तु कुमारिका || १३ || कैलासपीठमाभीरी क्षीरिका पुंश्चली भवेत् | प्. ५०) हिरण्याख्यपुरं देवि स्वैरिणी परिकीर्तितम् || १४ || अट्टहासं च सैरन्ध्रीदूतिका मरुतेश्वरम् | ओंकारपीठं देवेशि रण्डागृहमितीरितम् || १५ || प्रतिवेशिनिकागेहं मलयं पीठमीरितम् | स्वजायाया गृहं देवि विरजापीठमीरितम् || १६ || कुट्टन्यास्तु गृहं देवि पूर्णचन्द्रमितीरितम् | श्रीगारुडीगृहं देवि पीठं वै देवमातृकम् || १७ || आम्रातकेश्वरं पीठं चाण्डालीगृहमीरितम् | पौत्रीगृहं कामकोटं प्रपौत्र्यैकाम्बरं मतम् || १८ || मातुलानी अनन्तः स्यात् संविधिन्याश्चरस्थिरम् | राजकन्यागृहं देवि माहेन्द्रमिति कीर्तितम् || १९ || कन्यागृहं महादेवि जलेश्वरमितीरितम् | स्नुषागृहं महेशानि विचित्रमिति कीर्तितम् || २० || भगिन्यास्तु गृहं देवि भृगुपीठमितीरितम् | श्यालिकाया गृहं देवि महापथ इतीरितः || २१ || यवनी गदिता देवि मेरुकागिरिरेव च | या स्यात् विवाहिता कन्या तद्गृहं वामनं स्मृतम् || २२ || श्रीकेलिकुञ्चिकागेहं हिंगुलायाभिधं भवेत् | परस्त्री विंदुतीर्थं स्यात् सर्वतीर्थं रजस्वला || २३ || तानि सर्वाणि तीर्थानि मातङ्गीसंगमे सकृत् | एतत्प्रोक्तं महादेवि किमन्यच्छ्रोतुमिच्छसि || २४ || श्रीदेव्युवाच देवेश श्रोतुमिच्छामि चतुष्पीठस्य लक्षणम् | श्रीशिव उवाच रहस्यं च प्रवक्ष्यामि यज्ज्ञानादमरो भवेत् || २५ || श्यालकस्य तु या पत्नी कुरुक्षेत्रं च तद्गृहम् | तत्कन्यायां गृहं देवि श्रीगौरीमुखसंज्ञकम् || २६ || तरुणी सुन्दरी रामा स्वभार्याभगिनी च या | तज्जेष्ठा च महेशानि कनिष्ठादिक्रमेण च || २७ || ज्येष्ठा तु केलिकुञ्ची स्यात् कनिष्ठा केलिगेहिनी | प्. ५१) चतुष्पीठानि देवेशि क्रमादुच्चरितं श्रुणु || २८ || कुरुक्षेत्रं महेशानि गौरीमुखमथापरम् | पञ्चभद्रं केलिकुञ्ची म्हिनी पञ्चभद्रकम् || २९ || तद्गोष्ठी स्तोत्रपाठो हि तत्संगप्रणतिस्तथा | * * स्पर्शो मेहेशानि श्रीघटस्थापनं मतम् || ३० || तत्संयोगः पूजनञ्च तद्वाचस्तु प्रसन्नता | पुष्पाञ्जल्यादिकं चैव * * नाद्यं प्रकीर्तितम् || ३१ || कामस्थं काममध्यं च कामेन च पुटीकृतम् | कामेन योजयेत्कामं कामं कामेन योजयेत् || ३२ || वारं वारं तु * * * पूजनावरणक्रमः | तदालापस्तत्समाजं पूजा साऽत्र प्रकीर्त्तिता || ३३ || यन्त्रं त्रिकोणमित्युक्तं तत्रस्थं परमेश्वरि | विसर्जनं वीजपातस्तद्धस्ता * * पूजनम् || ३४ || तदा तत्संयोगस्तद्ब्रह्म तद्धस्तपरिचुम्बनम् | उपर्यधस्तात्तकृत्वा तत्संयोगी नरो भवेत् || ३५ || चतुष्पीठसमायोगं यः करोति महेश्वरि | तस्य देवि प्रसन्नाऽस्ति नात्र कार्या विचारणा || ३६ || तत्पीठे तन्मुखे * * दत्त्वा यत्नेन पार्वति | लिहन् जपं प्रकुर्वीत सर्वसिद्धीश्वरो भवेत् || ३७ || त्रिकोणामृतयोगेन कालिकां तर्पयेत्सदा | वाग्मिता कविता चैव तद्धस्ते सर्वदा वसेत् || ३८ || तच्चक्रं पुष्पसंयुक्तं वीक्ष्य यत्नेन पार्वति | दिक्सहस्रं जपेद्देवि सर्वसिद्धीश्वरो भवेत् || ३९ || संयोगीभूय जप्तव्यं चतुःप्रहरयोगतः | यथालाभं च वा कुर्याद्भगिनी श्यालिका च या || ४० || केलिकुञ्ची विशेषेण सा शुद्धा स्त्री विशेषतः | एवं क्रमेण यः कुर्यात् सर्वसिद्धिं स विन्दति || ४१ || इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि | श्रीदेव्युवाच चतुष्पीठानि प्रोक्तानि संक्षेपेण महेश्वर || ४२ || पीठशक्तेः स्वरूपं तु ह्यनुकल्पं च मे वद | प्. ५२) श्रीशिव उवाच नारी त्रैलोक्यजननी नारी त्रैलोक्यरूपिणी || ४३ || नारी त्रिभुवनाधारा नारी देहस्वरूपिणी | पुरुषं च स्त्रियो रूपं यत्किञ्चिद्रूपमुत्तमम् || ४४ || नारीचक्रे सर्वरूपं यत्किंचिज्जगतीगतम् | न च नारीसमं सौख्यं न च नारीसमा गतिः || ४५ || न नारीसदृशं भाग्यं न भूतं न भविष्यति | न नारीसदृशं राज्यं न नारीसदृशं तपः || ४६ || न नारीसदृशं तीर्थं न भूतं न भविष्यति | न नारीसदृशो योगो न नारीसदृशो जपः || ४७ || न नारीसदृशो योगो न भूतो न भविष्यति | न नारीसदृशो मंत्रं न नारीसदृशो तपः || ४८ || न नारीसदृशं वित्तं न भूतं न भविष्यति | तरुणी सुन्दरीं रम्यां यौवनोद्धतमानसाम् || ४९ || मदोन्मत्तं खञ्जनेत्रीं सदा * * भिलाषिणीम् | * * मोद्युक्तहृदयां प्रार्थयेद्विधिपूर्वकम् || ५० || सर्वाभरणभूषाढ्यां षोडशाब्दां * * प्रियाम् | ईदृक्विधां समानीय पूर्ववत्सर्वमाचरेत् || ५१ || प्रसूनतूलिकायां तु संस्थाप्य परमेश्वरि | सर्वोपचारैः सम्पूज्य * * * * * नादिकम् || ५२ || साङ्गां सावरणां कालीं संपूज्य च प्रयत्नतः | स्वयमक्षोभितो भूत्वा तस्याः क्षोभं समाचरेत् || ५३ || तया यदुच्यते वाक्यं तत्तथैव भविष्यति | तग्देहदेहस्पर्शेन पूतमेत्तच्चराचरम् || ५४ || तस्या गेहे महेशानि तद्भावं च समाचरेत् | नारीरूपं तु संचिन्त्य योगो जातेति भावयेत् || ५५ || योगवद्भावयेत्सर्वं तेन सिद्धिश्वरो भवेत् | विपरीतं भाव्य जपेत्तेन सिद्धिश्वरो भवेत् || ५६ || स्त्रीस्वरूपः स्वयं भूत्वा स्वस्वरूपा तु कामिनी | कुचकज्जलसीमन्तकङ्कणाभरणानि च || ५७ || प्. ५३) कृत्वा स्वदेहे सर्वं तु तस्यां पुरुषमाचरेत् | यथा पुरुषसंयोगः क्रीड्यते स्त्रीत्रिकोणके || ५८ || तया स्त्रिया च कर्तव्यं * * धारणपूर्वकम् | * * * तथा सर्वान्कुर्याद्यत्नेन पार्वति || ५९ || एवंविधे योगवरे दीक्षायोगं समाचरेत् | सर्वं सफलतां याति कालीविद्याप्रसादतः || ६० || गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः | इति संक्षेपतः प्रोक्तं किमन्यच्छोतुमिच्छसि || ६१ || श्रीदेव्युवाच सहस्र * * सन्दर्शान्मुक्तो भवति मानवः | सहस्र * * सन्दर्शाद्देवतादर्शनं ध्रुवम् | चतुष्पीठानि प्रोक्तानि साधन. चिन्तनं वद || ६२ || श्रीशिव उवाच श्यालकस्य च या भार्या कुरुक्षेत्रं प्रकीर्तितम् | तत्कन्यायास्त्रि * * च गौरीमुखमितीरितम् || ६३ || शालिकायास्त्रि * * यत्पञ्चभद्राभिधं च तत् | भार्या ज्येष्ठा तु या प्रोक्ता सा चात्र केलिकुञ्चिका || ६४ || तस्या * * विश्वभद्रं सर्वपीठोत्तमोत्तमम् | एतासां व्यभिचारेण नामान्यन्यानि संशृणु || ६५ || स्वर्गद्वारं कामबिलं महापथाभिधं परम् | वाञ्छामणिश्चतुर्थं स्याश्चतुष्पीठानि पार्वति || ६६ || वर्षषोडशपर्यन्तं पूर्वा पुण्योद्भवा मता | द्वात्रिंशद्वर्षपर्यन्तममृतान्दोलिका मता || ६७ || ततोऽष्टवर्षपर्यन्तं सुधासागरनामकम् | ततो दिग्वर्षपर्यन्तमानन्दव्रतनामकम् || ६८ || पूर्वाषोडशपर्यन्तं महासिद्धिमुखाभिधम् | पञ्चपीठानि पूर्वं स्याद्धिराजक्रमेण च || ६९ || तत्कन्याया महेशानि शृणु यत्नेन साम्प्रतम् | अथाषोडशपर्यन्तं योगवीणा प्रकीर्तिता || ७० || पुष्पिता चेद्धि ब्रह्माण्डं कीर्तितं वै चतुष्ककम् | द्वात्रिंशद्वर्षपर्यन्तं साम्राज्यगुटिकाभिधा || ७१ || प्. ५४) ततोऽष्टवर्षपर्यन्तमानन्दतूलिका मता | ततो दिग्वर्षपर्यन्तं सौभाग्यकमलं भवेत् || ७२ || अथ श्रीशक्तिकागेहलक्षणं शृणु पार्वति | अथाषोडशपर्यन्तं महासाम्राज्यमण्डलम् || ७३ || स्वाराज्यमण्डलं देवि तदनन्तरगं भवेत् | वैराज्यमण्डलं देवि ततः सर्वज्ञपीठकम् || ७४ || पूर्वषोडशपर्यन्तं द्वे प्रोक्ते ऋद्धिकामुकम् | सर्वसिद्धिप्रदा देव्यः केलिकुञ्च्याः प्रकीर्तिता || ७५ || पूर्वाषोडशपर्यन्तं विश्वरूपाभिधं भवेत् | षोडशोत्तरगं देवि षष्टिसिध्द्यभिधं भवेत् || ७६ || द्वात्रिंशदुत्तरं देवि सुन्दरीमोहनाभिधम् | श्रीकालीमोहनाख्यं तु तदनन्तरमीरितम् || ७७ || चतुर्णमपि पुष्पे चेत्पुष्पिणीयोगमाहरेत् | रुढिजातिक्रिया चेत्स्यादधिराजाधिपं जपेत् || ७८ || पीठानि कथितान्यत्र रूपगन्धननाम च | प्रदद्याद्यत्नतो देवि परादिक्रमतोऽपि वा || ७९ || स्त्रीमात्रे परमेशानि योगोऽयं विनिवेद्यताम् | साधको देवदेवेशि निविकल्पो जितेन्द्रियः || ८० || कामक्रोधादिरहितो घृणालज्जाविवर्जितः | * * * * * * * * * * * * * * * * || ८१ || * * * * * * * * * * * * * * * * | दृष्टदोषेऽपि देवेशि मनःक्षोभं न कारयेत् || ८२ || कृतमन्येन * * * * * * स्वस्य पार्वति | निरन्तरं कृतं द्वित्रर्दपञ्चभिरेव वा || ८३ || एवं ज्ञात्वाऽपि देवेशि विकाररहितो यदि | ईदृग्विधो निर्विकल्पः साधानार्गो न चान्यथा || ८४ || यदि दैववशाद्देवि * * चेद्व्यभिचारिणी | तथापि तस्याः सन्तोषं कारयेद्यत्नतः शिवे || ८५ || अन्यथा नारकी भूयान्नात्र कार्या विचारणा | सैव सृष्टिर्जगद्धात्री सैव कारणमीश्वरी || ८६ || तस्या निधारणं देवि कर्तुं केनात्र शक्यते | तया यत्क्रियते देवि सर्वे सन्तोषरूपकम् || ८७ || प्. ५५) मन्यमानो महेशानि साधको भवति ध्रुवम् | केलिकुञ्ची महादिव्यं सर्वलक्षणसंयुताम् || ८८ || तारुण्यामृतसंयुक्तां भावयेत् पूजयेत्सदा | कादिहादिक्रमेणैव सर्वे सम्पादयेद्ध्रूवम् || ८९ || * * * सा चेत्तदा काली प्रकीर्तिता | गन्धरूपयुता स्यात् चेत्सिद्धविद्यादिरूपिणी || ९० || शयने सुन्दरी प्रोक्ता रतिगोष्ठीषु तारिणी | छिन्ना * * तु देवेशि माने हि बगला मता || ९१ || शृंगारकरणे देवि महालक्ष्मीः प्रकीर्तिता | तस्याः समाकरणाञ्च मातङ्गी परिकीर्तिता || ९२ || संयोगवार्ता भुवना निद्रार्ता भैरवी मता | सर्वान्तरायो देवेशि दूरात्सन्दृश्यते यदि || ९३ || हस्तेनायाति चेत् सा वै तदा भूमावती भवेत् | स्वेच्छा * * स्पर्शकाली स्वेच्छया तु विपर्यये || ९४ || श्रीमहादक्षिणाकाली महासाम्राज्यनायिका | स्वेच्छादौ चेत्पुष्पयुक्ता श्रीमहाकामकालिका || ९५ || बला * * सिद्धिकाली संक्षेपादिदमीरितम् | स्त्रीमते योजनीयं हि केलिकुञ्च्यां विशेषतः || ९६ || आमूलान्तं च संवीक्ष्य सप्त * * * योगतः | ओष्ठं * * नेत्रयुग्मं कपोले भालदेशके || ९७ || * * सप्तममादिष्टं तेन सिद्धिश्वरो भवेत् | हस्ताहस्तितया धृत्वा दिक्सहस्रं जपेन्मनुम् || ९८ || कालिका वरदा तस्य नात्र कार्या विचारणा | * * * समाचर्यं सहस्रं त्रिदिनं जपेत् || ९९ || त्रिकालज्ञो भवेद्देवि नात्र कार्या विचारणा | * * * * * * दशसाहस्रकं जपेत् || १०० || साधकः साधनासक्तं कल्पद्रुमसमो भवेत् | * * * * * * * * * * * * * * * || १०१ || दश साहस्रकं जप्त्वा दशविद्याधिपो भवेत् | मुखे * * तु संदत्वा सहस्रदशकं जपेत् || १०२ || प्. ५६) महाकविवरो भूत्वा वादिराजो भवेद्ध्रुवम् | चामरं रविबिम्बञ्च त्रिसूत्रश्च सरोरुहम् || १०३ || तिलपुष्पं चन्द्रबिम्बम् खञ्जरीटं च पार्वति | पृथ्वीं विकसितां * * दश स्थानानि पार्वति || १०४ || प्रत्येकं दिक्सहस्रं च प्रजपेत्कालिकामनुम् | कालिका वरदा तस्य क्षणमात्रेण जायते || १०५ || सर्वाभावे स्वस्त्रियां च कर्तव्यं साधनं वरम् | चतुष्कपीठाभावे तु तत्तन्नामानि कल्पयेत् || १०६ || गन्धर्वोद्वाहयोगेन मौल्येनापि महेश्वरि | द्रव्यदानेन देवेशि मननं कारयेत्प्रिये || १०७ || मननाज्जायते माता वरदात्री न संशयः | प्रसूनतूलिकां कृत्वा उच्चस्थाने निधापयेत् || १०८ || पात्रासादनकं कृत्वा पूजाद्रव्याणि चानयेत् | पञ्चषोढापरो भूत्वा तस्यां न्यासादिकं चवेत् || १०९ || साऽपि चेत्स्यात् मतङ्गोत्था साऽपि प्रथमं * * * | अथवा केलिकुञ्चादि प्रतिमासादि * * * || ११० || यदि भाग्यवशाद्देवि लभ्यते वा न लभ्यते | दीक्षितां देवताभक्तां घृणालज्जाविवर्जिताम् || १११ || जपासक्तां समासाद्य सर्वे संसाधयेच्छिवे | तस्यां न्यासादिकं कृत्वा कामसोमकलादिकान् || ११२ || केशसंमार्जनं कृत्वा उपचारान् प्रकल्पयेत् | स्पर्शं कृत्वा जपं कुर्याद् * * * पूजनाद्भवेत् || ११३ || साङ्गां सावरणां कालीं सम्पूज्य परिभाव्य च | पूजासमाप्तौ देवेशि * * * * * * * || ११४ || यथा संख्यं जपेत्तत्र * * * * विकाशयेत् | * * * * * * * * * * * * * * * * || ११५ || * * * * सहस्रं तत्र संजपेत् | * * * * * * * * * * * * * * * * || ११६ || तया यदुक्तं देवेशि तदेव कारयेद्ध्रुवम् | पूजां जानीहि देवेशि तयोक्तं योगमाचरेत् || ११७ || प्. ५७) योगं कृत्वा * * * तु तत्र यन्त्रं विलिख्य च | तत्सर्वं प्रलिहन् देवि जपं कुर्याद्नन्दधिः || ११८ || पूजाजपो गोमकर्म तर्पणं मार्जनं तथा | द्विजानां भोजनं चैव सर्वदा यत्र तिष्ठति || ११९ || शययाभंगो भवेत्पूजा जपो जल्पः प्रकीर्तितः | प्रवेशनं होमकर्म तर्पणं * * * भवेत् || १२० || तत्क्षालनं मार्जनं स्याद् दर्शनं द्विजभोजनम् | ईदृग्विधं महापीठं स्वयम्भूसंज्ञकं परम् || १२१ || यस्य दर्शनमात्रेण यावन्त्यः सन्ति सिद्धयः | स्वयमागत्य दासत्वं कुर्वन्त्येव न संशयः || १२२ || अनन्तयुगपर्यन्तं वीरसाधनकोटयः | कृता येन महेशानि तत्तुल्यं निमिषाद्भवेत् || १२३ || इति प्रोक्तं षष्टिसिद्धिदातृसाधनमुत्तमम् | त्रिसहस्रं वेदशतं षट्पञ्चाशत्तु कीर्तितम् || १२४ || सूर्यसाहस्रकं देवि तथा कलाशतं शिवे | द्विशतं पंचसंख्यं तु नायिकाकुलमीरितम् || १२५ || रहस्यातिरहस्यं च गोपनीयं स्वयोनिवत् | वर्षाद्भूपो भवेत्सोहि नात्र कार्या विचारणा || १२६ || स एव कालीरूपः स्यान्नात्र कार्या विचारणा | अथ वक्ष्ये महेशानि यौवनाङ्कुरमादितः || १२७ || सहस्रं च शतं नेत्रपञ्चाशदधिकं शिवे | दिव्यादिव्ये च तद्द्वये चित्रिण्यादिक्रमेण च || १२८ || त्रैलोक्यभुवनान्येव तीर्थानि पीठपर्वताः | पुरी वनानि ग्रामाश्च द्वीपाश्चैव क्रमेण च || १२९ || सागराश्च महापुर्यः समुद्राश्च प्रकीर्तिताः | तथा नद्यादि देवेशि देशपर्यायतीर्थकम् || १३० || क्रमेण योज्यतां देवि नात्र कार्या विचारणा | सुन्दरीपीठभेदं च वनानि वाटिकास्तथा || १३१ || प्राकाराश्चैव सोपानं नायिकाभेदतश्चरेत् | चत्वारो नायिका देवि व्यत्ययांत्प्रतवाचकाः || १३२ || ब्रह्माण्डमेतद्देवेशि स्त्रीदेहे तिष्ठति प्रिये | ब्रह्माण्डानामनन्तं च स्त्रीदेहे स्फुटमेव च || १३३ || प्. ५८) स्त्रीरूपं च जगत्सर्वं यत्किञ्चिज्जगतीमतम् | तद्रूपपूजनाद्देवि पूजिताः सर्वयोषितः || १३४ || महाविद्याश्च योगिन्यो मातृकाः सर्वदेवताः | यथायोग्यस्थानपीठे निवसंत्येव पार्वति || १३५ || शास्त्रात्सर्वं तु विज्ञाय यथायोगेन योजयेत् | पूर्वोक्तमत्र पशूनां दिव्यानामेतदेव तु ||१३६ || वीराणामपि च तथा दिव्ये वीरे न भेदता | समस्तज्ञानसंयोगाद् ब्रह्माण्डाख्यप्रदक्षिणा || १३७ || पृथ्वीप्रदक्षिणा देवि पशूनां परिकीर्तिता | सा पृथ्वी शक्तियोनिः स्यात्त्रैलोक्यं योनिमध्यगम् || १३८ || * * प्रदक्षिणा देवि वीराणां परिकीर्तिता | गुप्ता व्यक्ता द्विधा देवि पृथिवी परिकीर्तिता || १३९ || व्यक्ता गुप्ता महापुण्या तत्प्रदक्षिणमाचरेत् | सर्वश्रेष्ठा महादेवि ब्रह्माण्डाख्यप्रदक्षिणा || १४० || पादमात्रकृते देवि परशम्भुः सदाशिवः | शिव एव विजानाति फलबाहुल्यमत्र तु || १४१ || स्मरणाद्भाषणाद्देवि त्रैलोक्यं पूजितं भवेत् | शक्ति * * * संप्रोक्तं शैवे तु विरहो भवेत् || १४२ || एतस्य लोपनाल्लोपा वृद्धावस्था प्रकीर्तिता | शक्तिस्तारुण्यवाटी स्यान्नाभिकूपः प्रकीर्तितः || १४३ || * * घटौ महेशानि हास्यं पुष्पं प्रकीर्तितम् | कामो द्वारं महेशानि तथा दशरसा शिवे || १४४ || नेत्रस्थानपञ्चकेन तिष्ठति परमेश्वरि | सामरस्यरसो ब्रह्म स एवात्मा प्रकीर्तितः || १४५ || तद्वादनं ध्वनिः प्रोक्तस्तद्रसस्त्वमृतार्णवः | उद्दीपना * * * स्तु सुगन्धः परिकीर्तितः || १४६ || मानसं भ्रामरं प्रोक्तं गतयः पक्षिणः स्मृताः | मृगपश्वादिभेदानां गतयः परकीर्तिताः || १४७ || रागतालाश्च रागिण्यस्तद्वार्तालापनं भवेत् | सर्वे हावाश्च देवेशि उत्खातारोपणं मतम् || १४८ || स्थायीभावाः सेचने स्याद्विभावाश्चावलोकनम् | स्थानात्स्थानान्तरे यानमनुभावाः प्रकीर्तिताः || १४९ || प्. ५९) मालाकारः वसन्तः स्यात्कटाक्षाः कामानामताः | नवोढप्रौढ * ध्यादि एकद्वित्र्यावलिर्मता || १५० || मालात्रुटिर्भवेन्मानो तन्नतिर्हा * नायकः | मालत्यादीनि पुष्पाणि रतिहासी भवन्ति च || १५१ || * * न्तहासे देवेशि सौगन्धे केशरादिकम् | एवं सर्वं तु विज्ञाय पञ्चगन्धाद्यकं शिवे || १५२ || तद्धर्मस्तु महेशानि मायाऽत्र परिकीर्तितः | तद्वार्ताऽनुग्रहः क्रोधः शापश्च परिकीर्तितः || १५३ || तुष्टिः प्रसन्नता प्रोक्ता निन्दा क्षोभः प्रकीर्तितः | ताटस्थ्यं चैव वैमुख्यं शक्तिरूपं प्रकीर्तितम् || १५४ || आग्नेयी स्वर्ग इत्युक्तः सौरीया नरलोकता || १५५ || चान्द्री पाताललोकत्वं त्रैलोक्यं कोणमध्यके | बिन्दुधर्मस्तु पर्जन्यः सर्वं संक्षेपतो मतम् || १५६ || शयनं क्रीडनं नात्र्यं काव्यं तद्रूपचिन्तनम् | काव्यालापाश्च ये केचिद्गीतकाव्याखिलानि च || १५७ || शब्दमूर्तिधरस्यैते विष्णोरंशा महात्मनः | पुनः पुनः किं वक्तव्यं त्रैलोक्यं तन्मयं भवेत् || १५८ || चतुर्विंशतिवाद्यानि संयोगध्वनिरेव च | कराकृष्टिर्मूर्छना स्यात् * * * मोचनं शिवे || १५९ || प्रोक्तः स्वर्गो महेशानि प्रवेशो मोक्ष एव च | अन्यत्र निर्गमो मोक्षो मूढनां दुःखभागिनाम् || १६० || एतद्ज्ञानतो देवि फलं संसारजं शिवे | अज्ञानादपि देवेशि फलमेवं प्रयच्छति || १६१ || ज्ञानादेव महेशानि किंतद्यन्न करे स्थितम् | त्रिंशदुर्वुदषट्पद्मपञ्चवृन्दार्बुदानि च || १६२ || मेधादीक्षादिभिर्युक्तस्तस्य ज्ञानं प्रकाशते | ज्ञानात् कीटोऽपि निर्मुक्तस्तद्योगं शृणु पार्वति || १६३ || जीवः कीटः पुरा भूत्वा भ्रमरं पश्यति प्रिये | तदालोकनसद्भावाद् भ्रमरत्वं प्रजायते || १६४ || पुनः कीटो न हि भवेत्तारुण्यरूपतां गतः | शून्यस्य भावना देवि शून्यरूपो हि नीरसः || १६५ || प्. ६०) यथा भवति देवेशि भावयोगोऽत्र कारणम् | ब्रह्माण्डरूपा या शक्तिः परब्रह्मस्वरूपिणी || १६६ || चिच्छक्तिरिति विज्ञाता शून्यं तस्यास्तु कोणगम् | अनन्तकोटिसंख्याता भ्रमरा यन्मुखोद्भवाः || १६७ || तस्याः परस्वरूपिण्याः सद्भावं तु समभ्यसेत् | सुगमोऽयं परो भावश्चेतनापुरुषोऽपि वा || १६८ || शिवरूपः स च प्रोक्तः सर्वसिद्धिर्महेश्वरि | भावयोगाद्भवेन्मेधादीक्षा सर्वोत्तमोत्तमा || १६९ || आदौ कामकला प्रोक्ता तत्र चिन्तामणिर्भवेत् | ततो बाला स्पर्शमणिः कामेशी सिद्धकालिका || १७० || विद्याराज्ञी षोडशी च पश्यन्ती कामकालिका | चरणेशी हंसकाली चतुश्चरणरूपिणी || १७१ || कुब्जिका गुह्यकाली च मेधादीक्षा समाचरेत् | उभयत्र क्रमान्मेधादीक्षा प्रोक्ता महेश्वरि || १७२ || द्वुतूते दीक्षितो यस्तु महामेधाभिधो भवेत् | जीवः कीटः पुरा भूत्वा भृगित्वमभिगच्छति || १७३ || ततः षट्चक्रसम्भेदं कृत्वा तद्रसभुग्भवेत् | तत्तद्योगे महेशानि स्थापिते यन्त्रपीठके || १७४ || तेन मन्त्रान् लिखेद्देवि तस्योच्चारणमाचरेत् | मन्त्ररूपो भवेत्तेन साम्राण्मेधा प्रकीर्तिता || १७५ || स्वयं शक्तिस्तद्द्वयं च शक्तिस्वक्रमयोगतः | शैवशाक्ते शक्तशैवे तद्द्वयक्रमयोगतः || १७६ || चक्राणि चैव विज्ञाय उक्तमार्गेण पार्वति | चक्राणि चैव निर्भिद्य स्वरूपं तत्स्वरूपकम् || १७७ || न कीटत्वं न भृंगित्वं स्वरूपेणैव देवता | देवतारूपभावेन क्षणात्तद्रूपतां ब्रजेत् || १७८ || अर्धनारीश्वराख्यो हि त्वर्ध्वयोगः प्रकीर्तितः | ब्रह्मनारीश्वराख्योऽयं महायोगः प्रकीर्तितः || १७९ || प्. ६१) दिव्यसाम्राज्यमेधाख्या दीक्षा प्रोक्ता ततः शिवे | देवरूपा दिव्यरूपा मन्त्ररूपा महत्परा || १८० || सर्वरूपा सर्वपूर्वा महासाम्राज्यमेधया | युक्ता दीक्षा मया प्रोक्ता बिन्दुवत् गोपयेत् कलौ || १८१ || एतद्दीक्षोत्तरं देवि नान्यदीक्षाऽस्ति कुत्रचित् | अर्द्धं शिवो विजानाति काली जानाति पूर्णतः || १८२ || गुह्यकाल्यां सर्वमेतत्कुब्जिका सुन्दरी त्वतः | कादिहादित्वकं सर्वं देवि तत्र प्रतिष्ठितम् || १८३ || नवतत्त्वा महाविद्या नवचक्रेश्वरी परा | एतद्दीक्षासमायुक्तः केरली परिकीर्तितः || १८४ || चक्षुष्मत्याद्येतदन्तं केरली षष्टिसिद्धिभाक् | मेधान्ता गदिता सिद्धिः सम्राङ्युक्ता नमोमयी || १८५ || चक्षुरुपान्तसंयुक्तः काश्मिरी तत्त्वसिद्धिभाक् | नेत्रादिपूर्णदीक्षान्तो गौड इत्यभिधीयते || १८६ || अष्टसिद्धीश्वरः प्रोक्तः कला चन्द्रे कलानि च | पात्राणि पूजने देवि यथायोगेन योजयेत् || १८७ || पंच वा परमेशानि गौडे दारिद्र्यकल्पना | शक्तिर्मेधामयी प्रोक्ता तद्योगं च समभ्यसेत् || १८८ || दिव्ययोगो महेशानि तवाग्रेऽयं प्रकीर्तितः | दिव्यचक्रे जीवचक्रे शालिग्रामे तथैव च || १८९ || बाणलिङ्गे महेशानि नावाहनविसर्जनम् | प्रत्यक्षरूपाण्येतानि देवास्तिष्ठन्ति सर्वदा || १९० || अग्नौ दीपशिखामध्ये जले च दर्पणेऽपि च | सूर्यबिम्बे चन्द्रविम्बे शालिग्रामशिलासु च || १९१ || स्फाटिके देवदेविशि सदैवावाह्य पूजयेत् | यन्त्रं तु गृहमित्युक्तं बिन्दुः सिंहासनं भवेत् || १९२ || शालिग्रामो भवेद्गेहश्चक्राणि पीठसंचयः | चक्रयुक्ते चक्रमध्ये हीने चोपरि भावयेत् || १९३ || बाणलिङ्गे स्फाटिकेऽपि हीरमारकते तथा | तस्योपरि विभाव्याऽथ पूअयेद्यत्नतः शिवे || १९४ || प्. ६२) शालिग्रामे जीवचक्रं सर्वान्देवान् प्रपूजयेत् | यो भावो यस्य वै प्रोक्तस्तेन भावेन तिष्ठति || १९५ || पुष्पमेकतमं स्थाप्य पूअयेत्परमेश्वरीम् | बीजयुक्तं तु यद्यन्त्रं तद्यन्त्रं सिद्धिरूपकम् || १९६ || शालिग्रामोऽथवा यन्त्रं स्थाप्य चैकतमं शिवे | दिव्यचक्रं यदा प्राप्तं जीवचक्रं तदा न च || १९७ || जीवचक्रं यदा प्राप्तं बाणलिङ्गं न चार्चयेत् | बाणलिङ्गं यदा प्राप्तं शालिग्रामस्तदा न वै || १९८ || शालिग्रामो यदाप्राप्तस्तदाऽन्यत्र न पूजयेत् | शालिग्रामं तथा मन्त्रं द्वयमेकत्र नार्चयेत् || १९९ || पञ्चायतनपक्षी चेद् द्वितीयं पूजयेत्सदा | एकपीठे पृथक् पूजां वीना यन्त्रं करोति यः || २०० || देवताशापमाप्नोति रौरवं नरकं व्रजेत् | शालिग्रामे तथा यन्त्रे विद्यमाने महेश्वरि || २०१ || देवः कुत्र वसेद्देवि स्थानाद्वितयकं भवेत् | शालिग्रामो भवेद्यन्त्रं शालिग्रामो गृहं भवेत् || २०२ || यन्त्रं तु गृहमित्युक्तं गृहस्था देवता मताः | प्रतिमा वा प्रकर्तव्या यथोक्ता शुभलक्षणा || २०३ || शालिग्रामे तथा यन्त्रे सहसैव प्रसीदति | जीवचक्रे महेशानि प्रसन्नाऽस्ति निरन्तरम् || २०४ || जीवचक्रस्य विज्ञानी कलौ दुर्लभ एव च | बालुकायां भवेत्तैलं बन्ध्या पुत्रं प्रसूयते || २०५ || खपुष्पमपि जायेत् अयोनिर्मनुजोऽपि वा | जीवचक्रस्य विज्ञानी कलौ क्वापि न वै भवेत् || २०६ || अग्रस्थानं परित्यज्य भिक्षामटति दुर्मतिः | तथा जीवं परित्यज्य परिधावति धावति || २०७ || अहो जीवस्य विज्ञानी शिवतुल्यो नरो भवेत् | पश्यन् लिहन् स्पृशन् * * * भजन् ध्यायन् महेश्वरि || २०८ || यो जपेत्परमेशानि शिवतुल्यो नरो भवेत् | जीवं जीवेन युज्जीत जीवं जीवेन योजयेत् || २०९ || जीवं जीवेन संयोज्य जीवन्मुक्तो नरो भवेत् | अहो धन्यात्परो देवि जीवचक्री नरोत्तमः || २१० || प्. ६३) आनन्दात्मा धनान्दात्मा ज्ञानात्मा परमात्मवित् | विज्ञानात्मा भवेद्देवि सकृज्जीवस्य दर्शकः || २११ || जीवचक्रं मुखे धृत्वा लक्षं जपति वादिराट् | तद्रसं * * * * देवि लक्षं जपति कालिका || २१२ || जिह्वां दत्त्वा जपेल्लक्षं शक्तिपातकरो भवेत् | * * दत्त्वा जपेल्लक्षं सर्वज्ञः साधको भवेत् || २१३ || आलोक्य प्रजपेल्लक्षं कविराट् साधको भवेत् | * * दत्त्वा जीवचक्रे सप्तचुम्बनबिद्ध्रुवम् || २१४ || * * मुखं प्रदत्त्वा तु लक्षं जपति शङ्करः | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || २१५ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे कौलतीर्थविनिर्णयो नाम त्रयोदशः पटलः || १३ || चतुर्दशः पटलः श्रीदेव्युवाच शक्तौ पूजाक्रमं देव कथयस्व ममाधुना | श्रीशिव उवाच शक्तिपूजां प्रवक्ष्यामि येन देवीमयो भवेत् || १ || नटी कापालिका वेश्या रजकी नापिताङ्गना | मालाकारस्य कन्या च कुम्भकारस्य कन्यका || २ || कन्याष्टकमिदं प्रोक्तं कुलाष्टकमथ शृणु | राजवेश्या गुप्तवेश्या देववेश्या तथैव च || ३ || नृत्ययात्रातीर्थवेश्या कुट्टिनी व्यभिचारिणी | पञ्च * * हता वेश्या दश * * * * श्वरी || ४ || पञ्चविंशति * * च * * तुष्टा प्रकीर्तिता | पञ्चाश * * संयुक्ता * * सिद्धा प्रकीर्तिता || ५ || शत * * * * नन्दा सहस्रा * * सुन्दरी | असंख्य * * संयुक्ता * * ब्रह्मपरा मता || ६ || कुलाष्टकमथेदानीं शृणु पार्वति तत्त्वतः | मध्य * * महेशानि * * माला महोत्तमा || ७ || विश्व * * सर्वयोनिः सर्वस्मादपि चोत्तमा | कुलाकुलाष्टके देवि द्विविधा परिकीर्तिता || ८ || राजवेश्यादिकायुग्मं गौडे पुष्पोपचारिकम् | माता पुत्री तथा पौत्री स्वसा चैव स्नुषानुजा || ९ || श्यालिका केलिकुञ्ची च मातृजाया तथाष्टमी | कुलाष्टकमिदं प्रोक्तं सर्वसिद्धिप्रदायकम् || १० || तरुणीं सुन्दरीं रम्यां चञ्चलां * * लोलुपाम् | गुरुभक्तां मन्त्रयुक्तां सर्वलक्षणसंयुताम् || ११ || ईदृग्विधां समानीय प्रसूनतूलिकोपरि | * * तु कलशौ प्रोक्तौ सामान्यार्घ्यस्तु नाभिका || १२ || * * ध्वजो विशेषार्घ्यस्त्रिकोणं यन्त्रमीरितम् | गमागमावृत्तिरुक्ता पुष्पं प्रहसितं स्मृतम् || १३ || आलापस्तु जपः प्रोक्तस्तवलोको वरः स्मृतः | क्रोधस्तु निग्रहः प्रोक्तः करग्रहोऽभयं भवेत् || १४ || प्. ६५) * * पादप्रसारस्तु पृथिव्यास्तु प्रदक्षिणा | * * * स्तोत्रपाठोऽत्र * * धारस्तपःक्रिया || १५ || गले पादस्य निक्षेपः सिंहासनमितीरितम् | विपरीतं दोलिकाख्या पूजा प्रोक्ता महेश्वरि || १६ || विसर्जनं बीजपातो मुद्रा त्वालिङ्गनं भवेत् | ओष्ठ * * देवि खेचरीयोग ईरितः || १७ || कपोल * * देवि गुटिका परिकीर्तिता | ललाट * * देवि लबका परिकीर्तिता || १८ || नेत्रसं * * देवि अञ्जनं परिकीर्तितम् | करसं * * देवि खङ्गसिद्धिः प्रकीर्तिता || १९ || * * * * * देवि मनोरथमयी गतिः | * * * * देवेशि कालवञ्चनमीरितम् || २० || * * संलेहनं देवि ब्रह्मरूपं न संशयः | आलोकनं पृथिव्यास्तु देवतादर्शनं भवेत् || २१ || सत्सङ्गिना सदा भाव्यं तामालोक्य जपेसदा | कोटिब्रह्माण्डदानादि एकतः परिकीर्तितः || २२ || तच्छायालोकनं देवि सर्वाच्छ्रेष्ठतमं भवेत् | तपस्या कोटितीर्थेषु यागानामपि कोटयः || २३ || देवालयानामानन्त्यं कृतं येन निरन्तरम् | तेनेदं प्राप्यते देवि दर्शनं बिन्दुरूपिणः || २४ || ब्रह्मणो दर्शनं देवि शब्दब्रह्म मत्तरम् | चन्द्रामृतं राहुभीत्या तथा स्वर्गामृतं प्रिये || २५ || राक्षसानां तु संभीत्या ओष्ठे * * विराजते | चन्द्रामृतं चाधरोष्ठे * * स्वर्गामृतं प्रिये || २६ || सदा तिष्ठति देवेशि ज्ञानात् सिध्यति नान्यथा | अज्ञानाद्विषरूपं स्यान्नात्र कार्या विचारणा || २७ || मुखे हाला करे माला * * शाला तु तच्छविः | हृदये स्त्री कराला तु दीपमाला गृहाङ्गणे || २८ || न करोति नरो यस्तु स कथं मम पूजकः | संयोगो ग्रहनं देवि महाकल्पान्ततो तथा || २९ || प्. ६६) सूर्यग्रहो यथा योगो विपरीते निशाकरे | प्रमादान्मनसा वाऽपि नोहतोऽपि न मालयेत् || ३० || तया यदुच्यते वाक्यं तदेव कारयेत्प्रिये | तथा योगे समारब्धे पूर्णयोगो वदा न च || ३१ || पुरुषस्य न संजातस्तेन संक्रीड्यते मुहुः | ग्रस्तास्तः स तु विज्ञेयः सर्वपर्वोत्तमोत्तमाः || ३२ || स्वयं योगो समारब्धे स्वस्य पूर्वं तु * * * | तथा कार्यं समाचर्य तस्य पातो न जायते || ३३ || ग्रस्तोदयः स विज्ञेयः सर्वसिद्धिप्रदायकः | इदं रहस्यं परं प्रोक्तं दिवायोगं शृणु प्रिये || ३४ || तस्या स्वस्य क्रमेणैव तस्यास्त्वर्द्धोदयो मतः | महोदयः स्वयोगे स्यात् वार्ता दशहरा स्मृता || ३५ || तद्वार्ताऽक्षयरूपाख्या तृतीया परिकीर्तिता | इति संक्षेपतः प्रोक्तं विशेषं शृणु पार्वति || ३६ || मासद्वादशकं देवि क्रमेण परिकीर्तितम् | ऋतुयोगे महेशानि महासाम्राज्यमीरितम् || ३७ || दिव्यादीनामिदं प्रोक्तं पशूनां शृणु पार्वति | सूर्यचन्द्रग्रहे देवि अङ्गुलद्वितयोर्धतः || ३८ || सार्द्धद्वयाङ्गुलोत्तरं देचिदिच्छन्ति तान्त्रिकाः | सूर्यग्रहे चतुर्यामं चन्द्रे यामत्रयं भवेत् || ३९ || वेधः प्रोक्तो महेशानि पूर्वयोर्दृष्टिवेधनम् | न भोक्तव्यं तत्र देवि स्नानदानादिकं चरेत् || ४० || ग्रस्तोदयं समारभ्य ग्रस्तास्ते च महेश्वरि | शास्त्रदृष्ट्या समालोष्य स्नानदानादिकं चरेत् || ४१ || कदा लग्नं कदा मुक्तिः सर्वं ज्ञात्वा प्रयत्नतः | स्नानदानादिकं कार्यं नान्यथा शाङ्करं वचः || ४२ || नोपवासं प्रकुर्वीत जीवत्पुत्रो हि कर्गिचित् | ग्रस्तास्ते पुर्वमुक्तस्य नोपवासः प्रकीर्तितः || ४३ || ग्रस्तोदये पूर्ववेधे न भोक्तव्यं कदाचन | अत्र केचिदपीच्छन्ति पशवः शास्त्रमोहिताः || ४४ || प्. ६७) उपवासं प्रकृर्वीत ग्रस्तास्ते परमेश्वरि | शास्त्रदर्शन सन्दर्शः प्रत्यक्षे पूर्णरूपता || ४५ || दिव्यानामपि देवेशि अङ्गुलद्वयतो भवेत् | उपावासास्त्रिरात्रं तु शैवानां परिकीर्तितः || ४६ || विष्णुगाणपसौराणां द्विरात्रं परिकीर्तितम् | शाक्तानां पूर्वरात्रं तु पुरश्चर्यायुतो भवेत् || ४७ || पुरश्चरणहीनानां नोक्तमेतन्मया तव | चान्द्रे स्वायम्भुवे देवि द्विरात्रं परिकीर्तितम् || ४८ || नैमित्तिकं द्वयं यत्र तत्राल्पं काम्यवाचकम् | इति संक्षेपतः प्रोक्तं सम्प्रदायफलं शृणु || ४९ || केरलश्चैव काश्मीरो गौडश्चैव तृतीयकः | सम्प्रदायत्रयं प्रोक्तं सर्वसिद्धिप्रवर्तकम् || ५० || सम्यक् प्रदीयते ज्ञानं सम्प्रदायः प्रकीर्तितः | कामादिदोषरहितः कादिहादिमतेश्वरः || ५१ || वाञ्छिता कल्पिता सिद्धिः मनोरथमयी तथा | सर्वैश्वर्यं भवेदेवि लोके रत्नमिवापरः || ५२ || ललाटरेखां संमार्ज्य नवीनां निर्मितां चरेत् | विद्यारश्मिमहामन्त्रमन्त्रमण्डलसंयुतः || ५३ || महाविद्यामण्डलेशः साम्राज्यमण्डलान्वितः | अष्टाष्टकसमाउक्तः पञ्चपारायणान्वितः || ५४ || शाम्भवप्रश्नसंयुक्तो * * * * दिविद्भवेत् | चतुःसन्ध्यासमायुक्तः पञ्चपारायणान्वितः || ५५ || वाञ्छाकल्पलतायुक्तो मन्त्रमण्डलनाम च | महाविद्यासमायुक्तः पादुकादशकान्वितः || ५६ || पञ्चषोढासमायुक्तः कादिहादिमतेष्वपि | यस्य प्राणमनो देवि मुर्तिस्फोटादिचालनम् || ५७ || हासनं कम्पनं वाक्यं मुखादुच्चार्यते स्फुटम् | षष्टिसिद्धीश्वरो यस्तु केरलः परिकीर्तितः || ५८ || काश्मीरं शृणु देवेशि सावधानमना भव | कार्पण्यादिविरहितः वामादिगुणसंयुतः || ५९ || उभयोर्ध्वाम्नाययुक्तो राज्यदातृत्वशक्तिवित् | चतुर्विंशतिसिद्धानामाधिपो नरपुङ्गवः || ६० || प्. ६८) एकत्रोर्ध्वाम्नाययुक्तः स काश्मीरः प्रकीर्तितः | उभयोर्ध्वाम्नाययुक्तो महाकाश्मीर ईरितः || ६१ || अथ गौडं महेशानि कथ्यते शृणु साम्प्रतम् | गीर्वाणगणसंवादी गारुडादिप्रणाशकः || ६२ || श्रीमद्ज्ञानसरस्वत्याः पारगामी नरस्तु यः | भुवनानन्दकृद्वीरः स्त्रीभक्तो विजितेन्द्रियः || ६३ || डामर्यादिकलायुक्तः पूर्णदीक्षासमन्वितः | उक्ताधिकारसंपन्नः पूर्वमत्रापि पार्वति || ६४ || अष्टाष्टकादिसंयुक्तः समयाचारपालकः | महाबलो महोत्साहो गौड इत्यभिधीयते || ६५ || पूर्वगौडो मध्यगौडो द्विविधः पूर्ववद्भवेत् | इति गौडस्तु संप्रोक्तः सर्वसिद्धिप्रदायकः || ६६ || अणिमाद्यष्टसंयुक्तः श्रीगौडः परिकीर्तितः | सम्प्रदायत्रये देवि विकल्पं पूर्वमीरितम् ||६७ || परमेशजपासक्तः सर्वसत्त्वदयान्वितः | त्यागी भोक्ता विनीतश्च तिथिनित्याप्रपूजकः || ६८ || परनिन्दा परद्रोहो परीवादो महेश्वरि | परस्त्रीपरवित्ते च षष्ठश्चैव प्रतिग्रहः || ६९ || वर्जयेत्सर्वमेतद्धि सङ्ख्यामन्यां शतं भवेत् | प्रद्रोहं परीवादं परवित्तं प्रतिग्रहम् || ७० || परवार्तो विशेषेण शाक्ते पञ्च विवर्जयेत् | वटुकस्य मतं प्रोक्तं शङ्करस्य मतं शृणु || ७१ || परान्नं परहस्तं च सर्वथा परिवर्जयेत् | परहस्तः सर्वपुण्यजपपूजाहरः स्मृतः || ७२ || अन्यमन्त्रं जप्यमानस्त्वन्यदेवेषु तत्परः | संप्रदायेन सम्भिन्नः सर्वदोषसमन्वितः || ७३ || लोलुपश्चैवपाषण्डः प्रोक्तः कलियुगे नरः | तेन यत्क्र्यते पापं सदसद्वा महेश्वरि || ७४ || तद्धस्तभोजी देवेशि तदंशं लभते ध्रुवम् | भित्ताहारी जपासक्तो गुरुभक्तो जितेन्द्रियः || ७५ || प्. ६९) सत्यवक्ता महेशानि नरश्चैव सदा भवेत् | दानादिगुणसंयुक्तो हस्ताद्भोजनमाचरेत् || ७६ || विशेषेण महेशानि स्त्रीहस्तं परिवर्जयेत् | स्त्रीशूद्रालापनं देवि कर्तव्यं न कदाचन || ७७ || इदं पशुमते प्रोक्तं दिव्यानां पूर्वमीरितम् | पूर्वोक्तं शक्तिमानीय सर्वलक्षणलक्षितम् || ७८ || घृणालज्जादिरहितां समानीय प्रयत्नतः | न्यासजालादिकं सर्वं पूर्ववत् परमेश्वरि || ७९ || * * विकसितं कृत्वा सर्वसौगन्धसंयुतः | पूजयेद्देवताबुद्ध्या विकारपरिवर्जितः || ८० || * * * तु विधायादौ ततो ग्रहणमाचरेत् | तत्कुण्ड * * * कुर्वन् जपं कुर्यान्निरन्तरम् || ८१ || तत्र * * ततो दत्त्वा जपं कुर्यादनन्यधीः | * * * देवि जपेदकमनाः प्रिये || ८२ || पुनरालोच्य संजप्य सम्बुध्य परमेश्वरि | सर्वसिद्धिश्वरो भूयाच्छिवतुल्यो नरो भवेत् || ८३ || तद्धस्तनिःसृतजलं दिव्यमुक्तासमं भवेत् | हीरकः स्फटिको भूयान्मन्त्रः स्वर्णकरं भवेत् | इति संक्षेप्ततः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ८४ || इति श्रीशक्तिसङ्गमतन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे शक्तिपूजाकथनं नाम चतुर्दशः पटलः || १४ || पञ्चदशः पटलः ईश्वर उवाच स्त्रीस्वरूपं पुंस्वरूपं गवाक्षयोगवर्णनम् | सिद्धेश्वर्यादिविज्ञानं वीरपत्न्यादिलक्षणम् || १ || चातुर्वर्ण्यकुले देवि चातुर्णां चाभिचारतः | भिन्नतीर्थप्रकथनं तद्वेश्यातीर्थनिर्णयम् || २ || पञ्चाशत्पीठदेवीनां वेश्यात्वाद्व्यभिचारतः | पञ्चाशत्पीठदेवीनां वेश्यात्वाद्व्यभिचारतः || ३ || कथ्यते देवदेवेशि सावधानमना भव | सुन्दरीं तरुणीं रम्यां चार्वङ्गीं चारुहासिनीम् || ४ || गुरुभक्तां जपासक्तां महाकामकुतूहलाम् | दर्शनान्मोहिनीं साध्वीं कटाक्षादिप्रमोचनम् || ५ || केशरञ्जनसंयुक्तां वस्त्ररञ्जनसंयुताम् | गर्भ * * कलायुक्तां पुष्पोत्पाटनतत्पराम् || ६ || नानापाककलायुक्तां लेह्यपेयादिसत्कलाम् | शययासंरञ्जनीं दिव्यां मुखवासादिरञ्जिनीम् || ७ || गीततालभृङ्गादिवीणावादनतत्पराम् | काव्यालापसमस्यादिपल्लवादिसमन्वितम् || ८ || नानाचित्रकलायुक्तां सौरम्य * * न्विताम् | * * शातनसंयुक्तां सत्कुचां करुणाकुलाम् || ९ || * * स्थूलदीर्घकरां नानाभरणभूषिताम् | * * * * देवेशि ह्यविकारपरायणाम् || १० || * * * * * विकारपरिवर्जिताम् | नायिकाष्टतुल्ययुक्तां क्रोधमात्सर्यवर्जिताम् || ११ || सर्वदोषविहीना या सा शक्तिः परिकीर्त्तिता | पुंस्वरूपं महेशानि कथ्यते शृणु साम्प्रतम् || १२ || नानाविलासकुशलः सर्वशक्तिसमन्वितः | तरुणः सुन्दरः शूरश्चिर * * * कारकः || १३ || दीर्घ * * दृढाघाती * * * च तत्परः | कामशास्त्रकलायुक्तो मन्त्रनाड्यौषधान्वितः || १४ || प्. ७१) स्तम्भज्ञानी * * वृद्धिस्थूलदीर्घक्रियान्वितः | मकारपञ्चकासक्तो गुरुभक्तो जितेन्द्रियः || १५ || सर्वकालं जपासक्तः सर्वतन्त्रार्थतत्त्ववित् | आकर्षणवशीकारस्तथाच्चाटनतत्परः || १६ || ज्ञानविज्ञानसंयुक्तः कामादिदोषवर्जितः | संगीतवाद्यवीणादि काव्यनाट्यकुलाग्रणीः || १७ || पल्लवानां तु विज्ञाता कुलभक्तो महोत्तमः | * * * चालोच्य विकारादिविवर्जितः || १८ || स्त्रीस्वरूपस्य विज्ञानी देहज्ञानी तथापरः | शापानुग्रहणे दक्षः सर्वभूतदयापरः || १९ || सर्वचक्रस्य विज्ञानी दिव्याम्बरविभूषितः | दिव्याभरणसंयुक्तः सर्वसौगन्धसंयुतः || २० || सर्वदा धूपगेहस्थस्त्रैकाल्य ज्ञानवित्परः | स्त्रीरूपज्ञानसम्पन्नः सर्वदा तत्स्वरूपवान् || २१ || समस्याकोशविज्ञानी गेहरञ्जनसंयुतः | ईद्दग्विधो महेशानि साधनार्हो न चाऽन्यथा || २२ || तत्रापि कालिकाभक्तः कलौ दुर्लभ एव च | एवं गुणान्समालोच्य सस्मितास्यो महेश्वरि || २३ || साधनां कारयेद्देवि नान्यथा शाङ्करं वचः | त्रिधा त्रिशक्तिसंजापी गवाक्षे योगमभ्यसेत् || २४ || देवालये नदीतीरे रम्ब्ये वा यत्र कुत्रचित् | धूपामोदगृहं गत्वा भूतशुद्ध्यादिसंयुतः || २५ || ऋषिच्छन्दादिषोढान्तं कुल्लुकान्तं महेश्वरि | कृत्वा ध्यात्वा महेशानि गवाक्षे दृष्टियोजनम् || २६ || अङ्गुष्ठादिशिखान्तं हि समालोच्य जपं चरेत् | भ्रामरं सूर्यबिम्बं च त्रिवेणीपुष्करं तथा || २७ || तिलपुष्पं खञ्जरीटं चम्पकं कामरूपकम् | अमृतं पुष्पितं देवि सङ्गीतं वाद्यमेव च || २८ || प्. ७२) समालोच्य जपेद्देवि कामगेहे विशेषतः | एकद्वित्र्यादिक्षान्तं समालोच्य जपं चरेत् || २९ || तत्रेष्टपुष्पिनीं दृष्ट्वा कृत्वा संयोगमादरात् | गवाक्षयोगसमर्थ्यात् जपं कुर्यादनन्यधीः || ३० || अष्टावधानी देवेशि भवत्येव न संशयः | अथवाऽन्यप्रकारेण साधनान्तरमुच्यते || ३१ || कुलजां युवतीं वीक्ष्य * * * प्रदापयेत् | * * * कारयेद्देवि गवाक्षमभ्यसेत्तथा || ३२ || * * * विलिहन् देवि स्वरसं च ततः परम् | एवं मासाष्टकं कुर्यात्सिद्धिदाता न चान्यथा || ३३ || दशावधानी देवेशि भवत्येव न चाऽन्यथा | वीरपत्नीं समानीय शवशययां समाचरेत् || ३४ || वीरसाधनवत्कृता शवमासाद्य यत्नतः | * * * * * स्थाप्य सप्त * * * योगतः || ३५ || गवाक्षयोगमासाद्य तत्रैव परमेश्वरि | वर्षमात्रं जपेद्देवि कालीतुल्यो नरो भवेत् || ३६ || शतावधानी देवेशि भवत्येव नरोत्तमः | अथवाऽन्यप्रकारेण साधनान्तरमुच्यते || ३७ || महाशवमध्यभागे भूमा वासाद्य यत्नतः | मृदुचूडकमुण्डानि कोमलं च चतुर्थकम् || ३८ || क्रमेण दिक्षु संयोज्य तत्र शक्तिं समानयेत् | आसनं तत्र सन्दत्वा महाव्याघ्रासनं तथा || ३९ || तस्योपरि समानीय * * * विधाय च | स्पर्श षट्कासनं कृत्वा जपं कुर्यादनन्यधीः || ४० || वर्षमात्रं जपेद्देवि समयादिषु तत्परः | सहस्राद्यवधानं तु कर्तुं शक्तो नरो भवेत् || ४१ || कुंकुमं केशरं चापि समानीय प्रयत्नतः | वामहस्ते तु संस्थाप्य दक्षिणे यन्त्रमालिखेत् || ४२ || प्. ७३) वामेन तर्पणं कुर्यात्सहस्रमयुतञ्च वा | शक्तेर्मुखं समालोक्य तर्पणं सर्वदा चरेत् || ४३ || सर्वसिद्धीश्वरी भूयान्नात्र कार्या विचारणा | सिद्धेश्वरीलक्षणं च कथ्यते शृणु साम्प्रतम् || ४४ || यस्या विवाह्यते कन्या सा चेद्वीराङ्गना यदि | सापि * * यदि भवेत्तदा सिद्धेश्वरी मता || ४५ || केलिकुञ्ची महेशानि व्यभिचारपरायणा | कुलीनस्य तु या भार्या सापि * * भवेद्यदि || ४६ || वागीश्वरीति विख्याता महापीठेश्वरी परा | श्यालिका यदि चे * * * * स्वादनतत्परा || ४७ || विशालाक्षीति सा प्रोक्ता सर्वसिद्धिप्रदर्शिका | श्यालकस्य तु या कन्या सा यदा व्यभिचारिणी || ४८ || कामाख्येति च विज्ञेया सर्वसिद्धिकरा भुवि | तत्पत्यास्तु गृहे देवि शत * * वधिर्भवेत् || ४९ || महाराजेश्वरी ख्याता त्रैलोक्यसिद्धिदायिका | वीरपत्नी स्वयं वीरा प्रोक्ता श्रीमन्महेश्वरी || ५० || तत्सुता कुलविद्यानामाद्या श्रीत्रैपुराम्बरा | तत्सुता भुवनेशानि शक्तस्य शाङ्करी कला || ५१ || दिव्यस्य विमला प्रोक्ता पूर्णस्य कालिका स्मृता | ऊर्ध्वादि सर्वसाम्राज्यमेधान्तं परमेश्वरि || ५२ || विद्याराज्ञीं समारभ्य हंसकाल्यन्तगं भवेत् | विलोमेन महेशानि तद्भार्यानाम कीर्त्तितम् || ५३ || गुरुपत्नीति कामेशी तत्सुता बालिका स्मृता | लोपामुद्रा तत्स्नुषा स्याच्चातुर्वर्ण्यक्रमं शृणु || ५४ || द्विजस्त्री यदि चे * * सा प्रोक्ता कुलसुन्दरी | त्वरिता सैव सम्प्रोक्ता व्यभिचारपरायणा || ५५ || क्षत्रियस्य तु कन्या च स्नुषा * * दियोगतः | कौलिनी माधवी देवि वाराही कामसुन्दरी || ५६ || मोहिनीति क्रमेणैव व्यभिचारक्रमेण च | वैश्यस्त्री यदि चे * * व्यभिचारपरायणा || ५७ || प्. ७४) स्वप्नावती भोगवती नित्या क्लिन्ना च कुक्कुटी | अघोरा सिद्धचामुण्डा सुतास्नुषा क्रमेण च || ५८ || शूद्रपत्नीसुता कुञ्ची * * वा व्यभिचारतः | अश्वारूढा च धनदा कुब्जिका शबरेश्वरी || ५९ || अनङ्गमाला नीलाख्या क्रमेण परिकीर्त्तिता | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ६० || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे गवाक्षयोगवर्णनं नाम पञ्चदशः पटलः || १५ || षोडशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि नवरात्रस्य निर्णयम् | नवरात्रे समायाते किं कर्तव्यं च तद्वद || १ || नवरात्रीति किन्नाम कथं जातं किमात्मकम् | श्रीशिव उवाच | नवशक्तिभिः संयुक्तं नवरात्रं तदुच्यते || २ || एकैव देवदेवेशि नवधा परिनिष्ठिता | शयनं बोधनाख्यं च नवरात्रं द्विधा || ३ || शयनं चैत्रमासीयमाश्विनस्थं तु बोधनम् | द्वाभ्यां तु समुपोष्यैव सर्वसिद्धिं लभेन्नरः || ४ || निराहारी फलाहारी त्वेकेभक्तो दृढव्रतः | नक्तभोजी हविष्याशी यथाशक्त्या समाचरेत् || ५ || नवरात्रव्रतासक्तो नवनाथो भवेद्ध्रुवम् | गौडकाश्मीरद्रविडमार्गेण विविधं भवेत् || ६ || अमायुक्ता न कर्तव्या प्रतिपत्कालिकार्चने | अष्टम्यन्तं समाचर्य ततोऽष्टम्यान्तु होमयेत् || ७ || अर्धरात्रे समायता मूलविद्याऽपि पार्वति | साऽष्टमी सर्वकार्याणां कर्त्रीं भवति || ८ || होमपूजादिकं तत्र कुर्याद्यत्नेन पार्वति | द्वितीये दिवसे चेत्स्यात्तदेवोपोषणं चरेत् || ९ || प्रतिपद्युक्तमल्पं वा यदि न स्यात्परेऽहनि | अमायुक्तं तदा कुर्यात्त्यक्त्वा षोडशनाडिकाः || १० || घटिकाः षोडश त्याज्या आद्याः प्रतिपदस्तु याः | कलशस्थापनं कुर्यात्कल्याणं जायते ध्रुवम् || ११ || नवम्यां पारणं कुर्याद्दशम्यां तु विसर्जनम् | काश्मीराख्यक्रमं देवि शृणु यत्नेन पार्वति || १२ || नवरात्रं निराहारो होमोऽष्टम्यां समाचरेत् | नवम्यां विप्रभोज्यं स्याद्दिग्वेधे पारणां चरेत् || १३ || नवरात्रं निराहारो निर्विकल्पो जितेन्द्रियः | अष्टमी नवमीसन्धौ होमोऽष्टम्यां समाचरेत् || १४ || प्. ७६) नवम्यां विप्रभोज्य स्याद्दशम्या पारणं चरेत् | केरलाख्यः क्रमः प्रोक्तो निर्णयं शृणु पार्वति || १५ || तिथिक्षये तथा वृद्धौ यथोक्तेन तु वर्त्मना | अष्टमीनवमीप्राप्तौ पूर्ववेधे न दुष्यति || १६ || अष्टम्यामर्धरात्रौ तु यत्किञ्चित्कुरुते नरः | तत्तदक्षययमायाति नवदुर्गाप्रयोगतः || १७ || एकोत्तरप्रवृद्ध्या वा स्तोत्रजापादिकं चरेत् | प्रथमेऽह्नि कृतं यावत्तावत्कुर्याच्च वा सुधीः || १८ || उदयास्तमयं जप्त्वा त्रैलोक्यविजयी भवेत् | नवरात्रव्रते स्त्रीणा * * योगो यदा भवेत् || १९ || सैव देवी न सन्देहस्ताम्पूज्य विजयी कलौ | ताम्बुलागुरुकस्तूरीदिव्याम्बरविभूषणैः || २० || शक्तीनां नवरात्रादौ ताम्बूलभक्षणं सदा | सूर्योदयं समारभ्य पुनः सूर्योदयान्तरम् || २१ || तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् | एकासनगतो भूत्वा नवरात्रे तु शाम्भवीम् || २२ || मुद्रामालम्बयेद्देवि नवनाथाधिपो भवेत् | गृहारामे च कर्तव्या निर्ज्जने पर्वतेऽपि वा || २३ || अधोमुखं वा देवेशि नवरात्रं निरम्बुभुक् | स्वमाच्छाद्य मृदा देवि तत्र संस्थापयेद् घटम् || २४ || यवाङ्कुरान्समारोप्य साम्भवीं मुद्रिकां चरेत् | दृढासनी वा शयनी यथादिष्टं समाचरेत् || २५ || कापालिकावधूतानां व्रतमेततन्मयोदितम् | आज्ञा भवति देवेशि तदैवोपोषणं चरेत् || २६ || आज्ञा यदि न जायेत तदां ग्रामाधिपस्य च | देशाधिपस्य विप्रस्य पूजकस्य स्त्रियस्तथा || २७ || आज्ञां गृहीत्वा देवेशि वरं प्रार्थ्य सुखी भवेत् | भक्तप्रीता महादुर्गा स्वयमाज्ञां प्रयच्छति || २८ || वीरशाक्त विधानेन चण्डदर्पव्रतं चरेत् | जिह्वां संप्रोथ्य यत्नेन द्विवेदरसनाङ्गुलम् || २९ || प्. ७७) पुनरायाति सा जिह्वा तेन सिद्धीश्वरो भवेत् | नवरात्रं समासाद्य महाष्टम्यां निशामुखे || ३० || देवीं सम्पूज्य यत्नेन सङ्कल्पं कामनान्वितम् | शिरःपुष्पं कर्तयित्वा पूर्णमध्यकनिष्ठतः || ३१ || यन्त्रमध्ये निवेद्याऽथ शिवतुल्यो भवेद्ध्रुवम् | पुनः शिरः समायाति महाचीनवरः स तु || ३२ || अथवाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु | नवरात्रं निराहारः श्रद्धाभक्तिसमन्वितः || ३३ || महाष्टम्यामर्धरात्रे अङ्गुष्ठात् मस्तकावधिः | मांसान् संकर्त्त्य यत्नेन यथोक्तं कुण्डमारभेत् || ३४ || होमयेत्तत्र देवेशि देवी प्रत्यक्षतामियात् | देवी देहो भवेत्तद्धि नात्र कार्या विचारणा || ३५ || अथवाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु | नवरात्रं निराहारो गुरुभक्तो महाव्रती || ३६ || कुण्डं पुरुषमात्रं तु कृत्वा तत्र विशेषतः | पञ्चपल्लवकाष्ठानां वह्निं तत्र समाचरेत् || ३७ || अङ्गुष्ठान्मस्तकान्तं हि स्वदेहं होमयेद्व्रती | अग्निशययां च वा कृत्वा देवीं पश्यति निश्चितम् || ३८ || न चापरक्रमेणैव लतागेहप्रवेशनात् | भवेत्कल्पलतातुल्यः साधको नात्र संशयः || ३९ || अथवाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु | नवरात्रं निराहारो निर्विकल्पो जितेन्द्रियः || ४० || यं कंचिद्वै जपेन्मन्त्रं पत्रं पुष्पं फलं तथा | मज्जनं दन्तकाष्ठं वा तद्गेहे भोजनं च वा || ४१ || जगत्त्रयं वशीकुर्यान्नात्र कार्या विचारणा | अथवाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु || ४२ || नवरात्रं निराहारो निर्विकल्पो दृढव्रतः | यमुद्दिश्य क्रियां कुर्यात्तमेव वशमानयेत् || ४३ || भोजनं वाऽनयेद्देवि यस्य वश्यं समुद्दिशेत् | कामबीजं साध्यनाम वशीकुर्विति चोच्चरेत् || ४४ || प्. ७८) स्वाहामुच्चार्य देवेशि प्रदीप्ते जठरानले | होमयेद्यत्नतो देवि तद्गृहं वशमानयेत् || ४५ || अथवाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु | नवरात्रं निराहारः सत्यवादी जितेन्द्रियः || ४६ || सहदेवी वनं गृह्य (?) नवम्यां परमेश्वरि | पूर्वोक्तमनुना देवि पत्रान् वा पिण्डमाहरेत् || ४७ || आजन्मान्तं वशीकुर्यात्तमेव सकुटुम्बकम् | अथवाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु || ४८ || नवरात्रं मौनयुक्तो वृक्षासनसमन्वितः | पारणादिवसे प्राप्ते गोमुखं कारयेत्प्रिये || ४९ || पूर्वोक्तमनुना देवि होमयेज्जठरानले | स्वगेहे तत्त्वरात्रेण तद्गेहे दिवसत्रयात् || ५० || आजन्मान्तं वशीकुर्यान्महादेवाधिकं नरम् | अथवाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु || ५१ || नवरात्रं निराहारो गुरुभक्तो महाव्रती | वामाङ्गुष्ठोपरि स्थित्वा वेदरात्रं महेश्वरि || ५२ || दक्षाङ्गुष्ठोपरि तथा वेदरात्रं महेश्वरि | नवम्यां पारणं कुर्याद्बिल्वपिण्डं प्रदापयेत् || ५३ || जगत्त्रयं वशीकुर्यान्नात्र कार्या विचारणा | अथवाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु || ५४ || होमं कुर्यान्महाष्टम्यां नवम्यां पारणं चरेत् | सर्वस्वदानं कृत्वा तु त्रैलोक्यविजयी भवेत् || ५५ || अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते | गोमुत्राशी महेशानि नवरात्रं महेश्वरि || ५६ || यं कञ्चिद्वै जपेन्मन्त्रं नवम्यां होममाचरेत् | नवम्यां पारणं कुर्याद्गोमुखेन महेश्वरि || ५७ || देवतादर्शनं भूयाद्रात्रौ स्वप्ने महेश्वरि | अथवाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु || ५८ || नवरात्रं जितग्रासो मौनव्रधरः शुचिः | निर्द्वन्द्वो निरहङ्कारः सत्यवादी महामतिः || ५९ || प्. ७९) राजाकर्षणकामश्चेद्राजा सप्तदिगुन्मुखः | पारणं चेच्छया कुर्याद्रात्रजापी सदा भवेत् || ६० || त्रैलोक्यं वशमायाति नात्र कार्या विचारणा | संन्यासी शङ्करः प्रोक्तः कापाली कालभैरवः || ६१ || दिगम्बरो महाकालो ब्रह्मचारी वटुर्भवेत् | कृष्णवर्णः स्मृतः कृष्णो गौरो ऋषिवरः स्मृतः || ६२ || रूपगन्धप्रभेदेन नाम प्रोक्तं महेश्वरि | रूपजातिप्रभेदेन कुमारीनाम कीर्तयेत् || ६३ || गन्धभेदेन देवेशि दशविद्यादिकं भवेत् | एवं ज्ञात्वा पारणं तु कुर्याद्यत्नेन शाम्भवि || ६४ || इति संक्षेपतः प्रोक्तं वाग्भेदं शृणु पार्वति | वाक्सिद्धिर्द्विविधा प्रोक्ता शापानुग्रहकारिका || ६५ || महाकवित्वरूपैका द्वितीया परिकीर्तिता | शापानुग्रहरूपाया भेदान्संशृणु || ६६ || मन्त्रद्वारा महेशानि स्वप्नद्वारा द्वितीयका | प्रत्यक्षता तृतीया स्याच्चतुर्थी कर्णगोचरी || ६७ || आकाशगोचरा बाणसंख्याख्या परिकीर्त्तिता | घटस्था दर्पणस्था च जलमण्डलमध्यगा || ६८ || एवमष्टविधा प्रोक्ता शापानुग्रहणी कला | कवित्वाख्या महेशानि तद्भेदान् शृणु यत्नतः || ६९ || अष्टदिक्शतसाहस्रं महाश्रुतिधरी तथा | दूतकाव्यं च घटिकाशतकाख्यं महेश्वरि || ७० || वाक्सिद्धिर्गदिता देवि लतारूपं शृणु प्रिये | महाचीन द्रुमलतावेष्टितः साधकोत्तमः || ७१ || रात्रौ यदि जपेन्मन्त्रं सैव कल्पलतां भवेत् | मुखे चन्द्रस्तु सीमन्ते रविः संकीर्तितो बुधैः || ७२ || नेत्रे कामः कर्णयुगे सनत्कुमार एव च | अधरेऽमृतवाणीशो जिह्वायां तु सरस्वती || ७३ || कल्पद्रुमः कलियुगे कामधेनुर्ललाटयोः | वाञ्छामणिः स्पर्शमणिः * * * परिकीर्तितौ || ७४ || प्. ८०) दक्षिणावर्तकम्बुस्तु कण्ठदेशः प्रकीर्तितः | चिन्तामणिर्ह्डम्भोजे शेषो वेण्यां प्रतिष्ठति || ७५ || सप्तस्वर्गा मस्तकान्ते सप्तपातालकं नसि | पादयोरवताराश्च जङ्घयोर्देवतागणाः || ७६ || नाभौ ब्रह्मा त्रिसूत्रे तु त्रिगुणात्मा सदाशिवः | रोमावल्यां महाविष्णु * * ब्रह्माण्डगोलकम् || ७७ || पृष्ठवंशे राक्षसाश्च भाग्यलक्ष्मीर्मुखाम्बुजे | दानलक्ष्मीः करयुगे हृदये करुणाभिधा || ७८ || * * युग्मे वीरलक्ष्मीर्देहः सौम्याभिधो भवेत् | कुलशास्त्रे कीर्तिलक्ष्मीर्माने खड्गाभिधा भवेत् || ७९ || अनेककोटिब्रह्माण्डं * * मध्ये प्रतिष्ठति | तत्त्वाग्निवेदभुवने द्वीपादौ लोकशक्तयः || ८० || वार्तालापे चतुर्वेदाः सर्वशास्त्राणि वै कटौ | ब्रह्माण्डगोलके यच्च यत्किञ्चिज्जगतीतले || ८१ || तत्सर्वं शक्तिदेहे तु सर्वदा व्याप्य तिष्ठति | शक्ति * * * मारभ्य मोक्षान्तपूर्वगं शिवे || ८२ || सर्वं तिष्ठति देवेशि क्रोधे संहारशक्तयः | महामन्त्रास्तथा हासे महाविद्याः कटाक्षयोः || ८३ || वृक्षो जीवो लता जीवप्रदात्री परिकीर्तिता | चीनद्रुमलतायास्तु माहात्म्यं परमेश्वरि || ८४ || विचित्रमेतद्देवेशि शृणु यत्नेन साम्प्रतम् | अन्य वृक्षस्य मूलञ्च प्रोक्तं भूमितलं भवेत् || ८५ || एतद्वृक्षस्य मूलं तु मध्यभागे विराजते | मध्ये भूमिर्महेशानि शाखाश्च परितः स्मृताः || ८६ || अधःशाखस्तूर्ध्वशाखो मूलं मध्ये च भूमिका | जलं तत्रैव देवेशि प्रयागं तत्र कीर्तिता || ८७ || ब्रह्माण्डगोलं पुष्पं वै फलं बीजं च पार्वति | तत्रैव तिठति प्राज्ञे वृक्षश्चलति सर्वदा || ८८ || वाणी वसति सानन्दा स्वेच्छाचारी निरङ्कुशः | परमानन्दरूपा तु लता तस्याः प्रकीर्तिता || ८९ || प्. ८१) महानन्दस्वरूपाख्या चिदानन्दस्वरूपिणी | पूर्णानन्दस्वरूपा सा महासमरसात्मिका || ९० || ब्रह्मानन्दस्वरूपा सा चिद्घनानन्दरूपिणी | लता प्रोक्ता महेशानि संयोगानन्दरूपिणी || ९१ || जगत्त्रयं सैव सूते पञ्चभूतानि सैव च | संहारकत्रीं सैव स्यान्मोक्षरूपा तु सा मता || ९२ || ब्रह्मारूपा तु सैव स्यान्मुक्तयस्तु चतुर्विधाः | यन्मूलज्ञानमात्रेण सदा तिष्ठन्ति पार्वति || ९३ || सालोक्यश्चैव सारूप्यं सायुज्यं च तृतीयकम् | सान्निध्यं च चतुर्थं स्यात्सर्वं शक्तौ प्रतिष्ठति || ९४ || नवशक्तिसमायुक्तो नवरात्राभिधो भवेत् | कलावर्षं तु चैत्राख्यमाश्विनाख्यं तदुत्तरम् || ९५ || द्वाविंशद्वर्षपर्यन्तं कीर्तितं परमेश्वरि | द्वात्रिंशद्वर्षपर्यन्तं प्रोक्ता दीपावली कला || ९६ || तदुत्तरं दारुणा स्यात्सर्वं शृणु महेश्वरि | वर्षद्वादशपर्यन्तं मोहरात्रिः प्रकीर्तिता || ९७ || संयोगे योगनिद्रा स्यान्महानिद्रा विसर्जने | आनन्ददीप्ता देवेशि विपरीता प्रकीर्तिता || ९८ || * * लापो सदा भूयात्सिन्दुराङ्कितभालकः | * * साहस्रसन्दर्शान्मुक्तो भवति मानवः || ९९ || * * दर्शे दिव्य रूपः सिद्धो भवति मानवः | भक्तियुक्तः प्रसन्नात्मा देवतातिथिपूजकः || १०० || अधोभागे वृक्षमूलमन्यवृक्षश्च तिष्ठति | ऊर्ध्वे शाखास्तत्र पुष्पं फलं तत्र तदुत्तरम् || १०१ || शुष्कं बीजं भवेद्ब्रह्मा आलवालाञ्च मूलके | जलं तत्र प्रदेयं स्याद्वृक्षकः पुरुषाधमः || १०२ || स्वमूलञ्च न जानाति पररक्षार्थमुद्यतः | चीनद्रुमलतायास्तु मूलं चैवालवालकम् || १०३ || पुष्पं फलं तथा बीजमेकत्रैव प्रतिष्ठति | स्वरक्षकः स्वयं देवि जलबिन्दुर्घटस्थितः || १०४ || प्. ८२) ध्वजस्तस्य च नालं स्यादिति सक्षेपतो मतम् | सर्वमेकत्र सिद्धञ्च वृक्षे भिन्नं महेश्वरि || १०५ || पूर्ववृक्षस्तु निर्जीवः सजीवोऽयं महेश्वरि | सर्वसिद्धः परः प्रोक्तो वृक्षोऽप्येवं महेश्वरि || १०६ || इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् || १०७ || यज्ज्ञानयोगतो देव त्रैलोक्यविजयी भवेत् | श्रीशिव उवाच | महाकल्पलतामूले विचिन्त्य स्वेष्टदेवताम् || १०८ || मनोतः समायोज्य चित्तं कोणगतं चरेत् | तद्रूपः सन्महादेवि ध्यानयोगं समभ्यसेत् || १०९ || घटिकापञ्चकध्यानाद् वायुतुल्यो नरो भवेत् | घटिकादशकध्यानात्पृथिव्यां जयमाप्नुयात् || ११० || घटीपञ्चदशध्यानाद्वह्निनाऽसौ न दह्यते | घटिकाविंशतिध्यानात्सर्वाकर्षणकारकः || १११ || घटिकात्रिंशतिध्यानात्पूर्णसिद्धिमवाप्नुयात् | अहोरात्रेण देवेशि मूलादीन्जपति प्रिये || ११२ || दिवसत्रितयध्यानादणिमाद्यष्टकं लभेत् | ध्यानयोगं समभ्यस्य कुण्डलीध्यानभाग्भवेत् || ११३ || मार्गं विना महेशानि गतिश्चैव कथं भवेत् | मार्गदर्शनकार्यार्थं लता प्रोक्ता किमिच्छसि || ११४ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे नवरात्रनिर्णयो नाम षोडशः पटलः || १६ || || सप्तदशः पटलः || श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् | श्रीशिव उवाच | रहस्यमपि देवेशि यन्न कस्यापि कीर्तितम् || १ || तदेव कथ्यते देवि यथावदवधारय | ग्रहनं द्विविधं देवि बाह्याभ्यन्तरभेदतः || २ || चन्द्रकोटिनिका याङ्गं भवेदाभ्यन्तराभिधम् | भावयोगात् क्रियायोगाद् द्विधा तत्रापि पार्वति || ३ || भावयोगो भवेच्छक्ते क्रिया योगविधौ स्मृता | बाह्यं शृणु महेशानि सूर्यचन्द्रक्रमात् द्विधा || ४ || सूर्ये भेदत्रयं देवि चन्द्रे भेदत्रयं तथा | सूर्योपरागो ग्रस्तास्तस्तथा ग्रस्तोदयः स्मृतः || ५ || चन्द्रेऽपि भेदत्रितयं शाक्तावपि त्रिधा त्रिधा | सार्धद्वयाङ्गुलोत्तरं ग्रस्तास्तत्वं प्रकीर्तितम् || ६ || स्पर्शयुक्ते स्फुटत्वं च यस्मिन्काले प्रजायते | स कालोऽक्षयरूपेण पुरश्चरणकर्मणि || ७ || चन्द्रसूर्यग्रहे देवि ग्रस्तावधि विमुक्तितः | यावत्सङ्खयं मनुं जप्त्वा तावद्धोमादिकं चरेत् || ८ || पञ्चाङ्गं तावदेवस्याज्जपहोमौ समौ स्मृतौ | सिद्धेश्वरीमतं प्रोक्तं सर्वसिद्धिप्रदायकम् || ९ || अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते | सूर्यचन्द्रोपरागे तु नाभिमात्रोदके स्थितः || १० || ग्रासाद्विमुक्तं पर्यन्तं कुर्यान्महेश्वरि | तद्दशांशं होमयेद्धि तद्दशांशैस्त्रयं क्रमात् || ११ || दृष्टस्पर्शपुरश्चर्या दृष्टमुक्तौ समापनम् | अनेन क्रमयोगेन सर्वसिद्धीश्वरो भवेत् || १२ || चन्द्रसूर्योपरागे तु नाभिमात्रोदके स्थितः | नद्यां समुद्रगामिन्यां तडागे सङ्गमेऽपि वा || १३ || एकाङ्गुष्ठोपरि स्थित्वा ग्रासावधि विमुक्तितः | पञ्चाङ्गां चाथ वाष्टाङ्गं दशाङ्गाख्यां पुरस्क्रियाम् || १४ || प्. ८४) कुर्याद्यत्नेन देवेशि सर्वसिद्धीश्वरो भवेत् | शास्त्रदृष्टया समालोक्य स्नानदानादिकाः क्रियाः || १५ || कर्तव्याश्च प्रयत्नेन नात्र कार्या विचारणा | शास्त्रदर्शस्तु सन्दर्शः प्रत्यक्षे पूर्णरूपता || १६ || सूर्यग्रहणकालाद्धि नान्यः कालः प्रशस्यते | मलापकर्षणं स्नानं कृत्वा पूर्वं विशालधीः || १७ || मुच्यमाने भवेद्दानं ग्रस्ते स्नानं प्रकीर्तितम् | स्नानं मन्त्रोदितं कृत्वा तर्पणं त्वधिकारतः || १८ || सन्ध्यां तात्कालिकीं कृत्वा विमोक्षान्तं जपं चरेत् | तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् || १९ || ऋतुस्नातां स्त्रियं ज्ञात्वा सूर्यचन्द्रग्रहान्तरे | प्रतिपार्वणमासाद्य पिण्डं तस्यै प्रदापयेत् || २० || वन्ध्यापुत्रप्रदो योगः सर्वसिद्धिप्रदायकः | सूर्योपरागे देवेशि स्नात्वा पूजां समाचरेत् || २१ || साङ्गां सावरणां पूज्य सबल्यन्तं महेश्वरि | कुमारीपूजनं कृत्वा सर्वसिद्धीश्वरो भवेत् || २२ || सूर्योपरागे संप्राप्ते स्नात्वा पूज्य महेश्वरि | तुला ब्रह्माण्डदानादि यथाशक्त्या समाचरेत् || २३ || देवतायै तन्निवेद्य सर्वसिधीश्वरो भवेत् | चन्द्रसूर्यग्रहे देवि शतसंख्यां कुमारिकाम् || २४ || पूज्य सिद्धीश्वरो भूयान्नात्र कार्या विचारणा | सूर्यग्रहे महेशानि काम्यहोमं चरन् शिवे || २५ || तर्पणं कुरुते यस्तु तस्य श्रीः सर्वतोमुखी | मार्जनं तु प्रकर्तव्यं सर्वदुःखप्रशान्तये || २६ || सूर्यग्रहे समायाते परिधिर्यदि वै भवेत् | पारिभद्राभिधो योगः सर्वसाम्राज्यदायकः || २७ || अल्प दृष्टे दिशा देवि मध्यग्रासे महेश्वरि | मेघाच्छन्ने मुक्तिकाले स्नानदानादिकं चरेत् || २८ || जपमात्रं विधातव्यं मध्यग्रासे तु सूर्यवत् | तारापिण्ड ग्रहे प्राप्ते तथा सूर्यग्रहेऽपि च || २९ || जपादिकं विधातव्यं शक्तिपूजां ततश्चरेत् | सर्वसिद्धीश्वरी भूयान्नात्र कार्या विचारणा || ३० || प्. ८५) तारापिण्डोपरागे तु गुरुं सम्पूज्य देववत् | सन्तोष्य तद्वरो ग्राह्यः सर्वसिद्धीश्वरो भवेत् || ३१ || तारापिण्डग्रहे प्राप्ते शवमानीय साधकः | शवासने जपेद्देवि ग्रासानुग्रासतः शिवे || ३२ || सर्वसिद्धीश्वरो भूयात्तदन्ते शिवतां व्रजेत् | सूर्योपरागे सम्प्राप्ते शुचिः पूर्वमुपोषितः || ३३ || ग्रासाद्विमुक्तिपर्यन्तं देहमांसानि होमयेत् | सर्वसिद्धीश्वरो भूयाद्देवतां पश्यति प्रिये || ३४ || सूर्यग्रहः शिवः प्रोक्तश्चन्द्राख्यः शक्तिरेव च | सूर्यग्रहे शक्तिदीक्षां पशुदीक्षां न कारयेत् || ३५ || चन्द्रग्रहे विष्णुदीक्षां पाञ्चरात्र न कारयेत् | चन्द्रसूर्यग्रहे दीक्षा सर्वदीक्षा शुभा मता || ३६ || चन्द्रग्रहे शक्तिदीक्षा सर्वदीक्षोत्तमोत्तमा | न वारतिथि ऋक्षादि न मासनियमस्तथा || ३७ || न योगकरणं वापि न विचारं समाचरेत् | दमनोत्सवे च श्रवण्यां ग्रहनं यदि जायते || ३८ || समन्त्रश्च पुरश्चर्याविहीनोऽपि प्रसिद्धति | चन्द्रसूर्यग्रहकालात् नान्यः कालः प्रशस्यते || ३९ || चन्द्रग्रहे पुरश्चर्या सर्वसिद्धिकरी मता | घटिकार्धपूर्वमेव ग्रहणं परिवर्तते || ४० || तदा स्नानं विधातव्यं ग्रस्ते सङ्कल्पमाचरेत् | विमोक्षान्तं जपं कुर्यात्सम्यक्ज्ञाते समापनम् || ४१ || सूर्याच्छादनमायाते घटिकार्द्धं विचारयेत् | ततः समापनं कुर्यात्सिद्धो मन्त्रो भवेद्ध्रुवम् || ४२ || प्रमादात् गमिते योगे वसुविप्रान् प्रभोजयेत् | यद्यदङ्गं विहीयेत तत्साङ्गे द्विजभोजनम् || ४३ || दशांशं हवनं कुर्ययात्तर्पणं तद्दशांशतः | मार्जनं तद्दशांशेन दशांशेनाभिषेचनम् || ४४ || तद्दशांशं विप्रभोज्यं देवरूपो नरो भवेत् | यद्यदङ्गं विहीयेत तत्संख्याद्विगुणो जपः || ४५ || द्वित्रिवेदवाणभेदैर्विप्रादीनां क्रमेण च | अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते || ४६ || प्. ८६) चन्द्रसूर्योपरागे तु मेरुसाधनमाचरेत् | दुष्टमन्त्रोऽपि देवेशि क्रमेण सिध्यति ध्रुवम् || ४७ || अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते | सूर्योपरागे देवेशि शुद्धान्तःकरणो यती || ४८ || स्नात्वा यथोक्तविधिना सम्पूज्य जगदम्बिकाम् | शिरःपुष्पं कर्त्तयित्वा देवतायै निवेदयेत् || ४९ || देवतां पश्यति शिवे वरदानपरां ध्रुवम् | सूर्योपरागे सम्प्राप्ते स्नात्वा प्रोक्तेन वर्त्मना || ५० || शक्तिमानीय तद्गात्रे न्यासजालं प्रविन्यसेत् | मद्यैर्मांसैस्तथा मत्स्यै * * * * * मृतैरपि || ५१ || देवतां तत्र सम्पूज्य साङ्गां सावरणां शिवे | तत्र जिह्वां प्रदत्वा तु जपात्त्रैकाल्य विदभवेत् || ५२ || अतीतानागतज्ञानं वर्तमानं च पश्यति | सूर्यग्रहे महेशानि * * मानीय सादरम् || ५३ || * * * * परिस्थाप्य जपेद्यत्नेन पार्वति | त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा || ५४ || ग्रस्तोदयविधिर्देवि ग्रस्तास्तनिर्णयस्तथा | पूर्वमेव मया प्रोक्तः शक्तियोगक्रमे शिवे | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ५५ || इति श्रीशक्तिसङ्गममहातत्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे ग्रहणलक्षणं नाम सप्तदशः पटलः || १७ || अष्टादशः पटलः | श्रीदेव्युवाच | पूजाचिह्नविधिं देव श्रोतुमिच्छामि साम्प्रतम् | श्रीशिव उवाच | यदाशाभिमुखो भूत्वा चक्रराजं समुद्धरेत् || १ || सैव प्राची महेशानि ताराछिन्नाविधौ स्मृता | पूज्यपूजकयोर्मध्ये प्राची कालीविधौ स्मृता || २ || पुरन्दरमुखो मन्त्री पूजयेज्जगदम्बिकाम् | देवीनामक्रमेणैव गौडे ताराविधौ स्मृता || ३ || स्ववामकालीदक्षाख्यक्रमेण कालिकाविधौ | देवीपृष्ठदलारम्य गौडकाश्मीरयोर्विधिः || ४ || तदैवार्घ्यक्रिया देवि स्वदेवीक्रमतो द्विधा | अर्घ्यश्च पीठपूजा च सिद्धासु कल्पितासु च || ५ || दिक्षु कार्या केरलाख्यकाश्मीरक्रमयोगतः | अङ्गक्रमो महेशानि स्वस्वदेवीक्रमेण च || ६ || षट्कोणेषु षडङ्गानि वह्नीशादिक्रमेण वा | बीजानां लेखनं देवि तथैव त्रिविधं मतम् || ७ || प्रसिद्धिदिक्क्रमेणैव केरलाख्यक्रमो भवेत् | बीजलेखो गौडमार्गे कल्पितासु च दिक्षु च || ८ || प्रसिद्धदिक्षु काश्मीरे पीठ पूजनमीरितम् | स्वसाम्मुख्यक्रमेणैव देवतां पूजयेत् || ९ || आग्नेययादिक्रमेणैव गौडे बलिचतुष्टयम् | उग्रविधाविधौ देवि तिर्यग्भूत्वा प्रपूजयेत् || १० || गोपनीयं गोपनीयं गोपनीयं पुनः पुनः | रहस्यातिरहस्यं च रहस्यातिरहस्यकम् || ११ || इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् || १२ || यन्न कस्य त्वया प्रोक्तं तदेव कथ्यतां शिव | प्. ८८) श्रीशिव उवाच | रहस्यातिरहस्यं च रहस्यातिरहस्यकम् || १३ || कथ्यते देवदेवेशि तत्र सावहिता भव | अन्तरालं भवेत्प्राची पूज्यपूजकयोरपि || १४ || इयं छिन्नाविधौ प्राची विरूपाक्षस्य सम्मतम् | देवपूजकयोरन्तः प्राची दिक्भैरवे मता || १५ || पूज्यपूजकयोर्मध्ये प्राची सैव तु केरले | तद्दक्षिणं दक्षिणं स्यात् देवसाम्मुख्यमार्गतः || १६ || स्वदक्षिणक्रमेणैव भैरवे प्राग्विनिर्णयः | यदाशाभिमुखो भूत्वा चक्रराजं समालिखेत् || १७ || सैव प्राची गौडमार्गे चीनमार्गक्रमे भवेत् | पुरन्दरमुखो मन्त्री त्रिपुरा मुक्तमालिनी || १८ || देवीपृष्ठे तदा प्राची प्रतीची त्रिपुरा मता | भानुर्यत्र सदोदेति सैव प्राचीति वैदिके || १९ || अपरा सूर्यसिद्धान्ते परिक्रमणमार्गतः | स्वरसम्मुखे भवेत्प्राची देवीपृष्ठं तु पश्चिमम् || २० || सव्यं तु दक्षिणं विद्यात् दक्षिणं सव्यमेव च | इति प्राचीक्रमः प्रोक्तः समताष्टकमार्गतः || २१ || तत्र नाथक्रमेणैव गुरुपंक्तिं प्रपूजयेत् | देवतादक्षिणे देवि गुरुपंक्तिं प्रपूजयेत् || २२ || देवीमध्य त्रिकोणे तु गौडे तु गुरुपूजनम् | दक्षवामऋष्ठपंक्तिक्रमेण गुरुपूजनम् || २३ || चैतन्याख्यमतं देवि त्रिरेखानन्दसम्मतिः | त्रिपंक्तिक्रममार्गेण नाथमार्गे प्रपूजनम् || २४ || दक्षाङ्गं पुरुषश्रेष्ठं वामाङ्गं चण्डिकामनौ | अत एव महेशानि वामहस्ते जपस्य च || २५ || समर्पणं निगदितं सर्वसिद्धिप्रदायकम् | दक्षहस्ते तु पुरुषं जपान्तं तु समर्पणम् || २६ || गुरुपंक्तिर्वामभागे कल्पितप्राक्क्रमेण | गुरुपूजाक्रमः प्रोक्तस्तर्घ्यद्वयक्रमं शृणु || २७ || प्. ८९) सामान्यार्घ्यविशेषार्घ्यौ द्वौ प्रोक्तौ यत्र पार्वति | चतुष्पात्राणि सामान्ये घटस्त्वावश्यको मतः || २८ || यथा त्रिकोणं देवेशि बिन्दुना वर्जितं भवेत् | यथा घटं विना देवि पूजा सर्वत्र वर्जिता || २९ || यथा दलं केशरेण वियुक्तं कर्मवर्जितम् | तथा त्रिकोणं देवेशि बिन्दुना वर्जितं भवेत् || ३० || बिन्दुहीनं तु यद्यन्त्रं तद्यन्त्रं शववद्भवेत् | बिन्दुयुक्तं तु यद्यन्त्रं तद्यन्त्रं सिद्धिदायकम् || ३१ || तथैवाष्टदलस्योर्ध्वं वृत्तं यत्नेन कारयेत् | वृत्तं विना नाष्टदलं गर्भभूषणभेदतः || ३२ || पात्रद्वये महेशानि निर्णयं यत्नतः शृणु | प्रोक्षणीपाद्यपात्रं च तथाचमनकं शिवे || ३३ || अर्घ्यश्च मधुपर्कश्च तथा पञ्चामृतं शिवे | स्नानीयादि महेशानि सामान्यार्घ्येण वै भवेत् || ३४ || शिवपूजामपि शिवे सामान्यार्घ्येण केरले | भैरवाणां प्रपूजा च सामान्यार्घ्येण गौडयोः || ३५ || विशेषार्घ्यं महेशानि गुरुपात्रं च भैरवे | वीरपात्रं शक्तिपात्रं वीरपात्रं च योगिनाम् || ३६ || बलिपात्रं तथा देवि श्रीपात्रेण प्रकल्पयेत् | केरलक्रम आदिष्टः श्रीसदाशिवसम्मतः || ३७ || बलिपात्रं वीरशक्तिं योगिनीपूर्वपात्रकम् | विरूपाक्षमते प्रोक्तं वीरभद्रमतं शृणु || ३८ || सामान्यार्घ्यश्च श्रीपात्रमेकमन्यमहेश्वरि | सामान्यार्घ्येण संसिद्धिर्विशेषार्घ्येण पूजनम् || ३९ || तृतीयेन महेशानि पाद्यादीनि प्रकल्पयेत् | पञ्चाङ्गं कल्पयेद्देवि वीरभद्रमते शिवे || ४० || बटुकस्य मते देवि सामान्या प्रोक्षणी भवेत् | देवीपूजा विशेषार्घ्ये सर्वं तार्त्रीयतश्चरेत् || ४१ || गुरूभैरववीरादिशक्तिश्च योगिनी तथा | बलिपाद्यादि सर्वत्र तार्तीयेन समाचरेत् || ४२ || बटुकस्य मतं प्रोक्तमानन्दस्य मतं शृणु | सामान्ये वीरपात्रं च शक्तिपात्रं विशेषके || ४३ || पगे नो. ९०, ९१, ९२ अन्द् ९३ मिस्सिन्ग् प्. ९४) सम्प्रदायत्रयेणैव पात्राणां स्थापनं चरेत् | महाकलामहानन्दवाणाग्निचन्द्रभेदतः || १०१ || स्थाप्य सम्पूजयेद्देवि पूर्वकल्पप्रभेदतः | पात्रं प्राच्यां स्थानमध्ये पात्राणां चालनं यदि || १०२ || पुनरादि समारभ्य पात्राणां स्थापनं चरेत् | पात्रसंघट्टनं देवि भूयात्प्रमादतः || १०३ || पुनः पात्राणि संस्थाप्य पूजयेज्जगदम्बिकाम् | संस्थापिते पात्रवरे पात्रोत्सर्जनकं न हि || १०४ || विसर्जनमकृत्वा तु पुनस्तु पूर्ववद् यजेत् | त्रिसन्ध्यं पूजयेद्देवि पात्रस्थापनमात्रतः || १०५ || स्थापितैरेकवारैस्तु तैः पात्रैः पूजयेच्छिवाम् | विसर्जनोत्तरं देवि पात्राणामविसर्जनम् || १०६ || पूजा जाता महेशानि न कृतं च विसर्जनम् | एवं क्रमेण देवेशि पूजयेद्गौडसम्मतम् || १०७ || पात्रासादनकं कर्म कृत्वादौ पूजनक्रमे | सम्पूज्य देवतां तारां पात्राणां तु विसर्जनम् || १०८ || पुनः पात्राणि संस्थाप्य पूजां माध्याह्निकीं चरेत् | पुनर्विसर्जनं कृत्वा पुनः स्थाप्य प्रपूजयेत् || १०९ || चैतन्याख्यः क्रमः प्रोक्तो महाभैरवसम्मते | एवं क्रमेण देवेशि पात्रासिद्धिकरो भवेत् || ११० || पात्रं दिव्यमयं पश्येद्विशेषार्घ्यमय शिवे | वीरपात्रं तु वीराणां शक्तीनां शक्तिपात्रकम् || १११ || अवीराणां महेशानि योगिनीपात्रमीरितम् | गुरुपात्रं श्रीगुरूणां यतीनां भैरवाभिधम् || ११२ || कापालिकानां मुख्यं च बलिपात्रं प्रकीर्तितम् | तद्भावेन तु शूद्राणां सर्वाभावे जलं पिबेत् || ११३ || दिव्यं देव्यग्रतः पानं वीरं वीरसमागमे | अन्यथा पशुपानं च नरकार्थं प्रकीर्तितम् || ११४ || सामान्यार्घ्यविशेषार्घ्यावेकीकृत्य स्वयं पिबेत् | घटद्रव्यं तु वीराणां वीराभावे स्वयं पिबेत् || ११५ || प्. ९५) स्थापयेत् याचकार्थं च पात्रे याचकसंज्ञके | याचकार्थं च यत्पात्रं तत्पात्रं याचकं विदुः || ११६ || चक्रान्ते परमेशानि विशेषार्घ्यजलं शिवे | देवीपीठे चक्ररूपं भ्रामयित्वा स्वयं मुखे || ११७ || क्षिपेद्देवेशि यत्नेन स्वयमादौ तु सङ्ग्रहेत् | सामान्यार्घ्यजलेनैव जलं देव्यै समर्पयेत् || ११८ || ब्रह्ममन्त्रं समुच्चार्य देव्यै सर्वं समर्पयेत् | महादिव्यामृतमयं पात्रं ज्ञात्वा महेश्वरि || ११९ || देवीस्वरूपं तद्ध्यात्वा गृह्नीयात्स्वयमादरैः | मूलमन्त्रैश्च मन्त्रैर्वा अभिषिञ्चेत्स्वमूर्द्धनि || १२० || स्निग्धभूमौ तज्जलं तु क्षिप्त्वा मायां लिखेच्छिवे | मन्त्रेणानेन देवेशि तिलकं कारयेद्ध्रुवम् || १२१ || यं यं स्पृशति हस्ताभ्यां यं यं पश्यति चक्षुषा | स एव दासतां याति यदि शक्रसमो नरः || १२२ || इति सर्वं विधानेन ज्ञात्वा कर्माणि कारयेत् | इति संक्षेपतः प्रोक्तकिमन्यच्छ्रोतुमिच्छसि || १२३ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे पूजाचिह्नविधिर्नामाष्टादशः पटलः || १८ || एकोनविंशतिः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि आरार्त्तिकविनिर्णयम् | श्रीशिव उवाच | दशदीर्घविंशतिभिः पञ्चभिर्नवभिश्च वा || १ || अष्टभिस्तत्त्वसंख्याभिः कुर्यादारार्त्तिकं बुधः | त्रिकोणं चैव षट्कोणं मध्ये बिन्दुं निपातयेत् || २ || तत्तद्विद्यामयैर्यन्त्रर्विशेषार्घ्यमयेन वा | आदौ तु भैरवीयन्त्रं चक्रमुद्रां प्रदर्शयेत् || ३ || समस्तयोगिनीचक्रे परिवारसमन्विते | आरार्त्तिकं गृहाणेदं देवते प्रीतिहेतवे || ४ || मन्त्रेणानेन देवेशि कुर्यादारार्त्तिकं बुधः | माषैस्तिलैस्तण्डुलैर्वा गोधूमैर्यवजैरपि || ५ || ओदनोत्त्याः शर्करोत्त्या हरिद्राः केशरोद्भवाः | अष्टगन्धोद्भवा गौडा दीपा यत्नेन कारयेत् || ६ || दीपानां रक्तपीतानां वश्यस्तम्भाभिधं पहलम् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ७ || श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि पात्रसिद्धेस्तु लक्षणम् | श्रीशिव उवाच | पात्रं तेजोमयं पश्येत्पात्रसिद्धेश्च लक्षणम् || ८ || तत्पात्रबिन्दुग्रहणादेति देवस्वरूपताम् | ऊर्ध्वोर्ध्वक्रमणं भूयात्पात्रस्पर्शमात्रतः || ९ || मृतरूपोऽपि देवेशि पात्रस्पर्शेन जीवति | दुर्जना भैरवा विद्यापात्रं पश्यन्ति दीपवत् || १० || महाज्वालानिभं पश्येद्देवताहस्तदर्शनम् | षडङ्गमपि संपश्येत्तत्र निर्याततेजसि || ११ || तेजोमध्ये समुद्यन्ति साधकाग्रे न संशयः | पात्रं चलति देवेशि देवताग्रेऽतिसादरम् || १२ || प्. ९७) वाणीं वदति देवेशि शान्तिस्तोत्रमयीं पराम् | दुष्टान्धीकरण देवि माषानां करवीरताम् || १३ || मद्यानां दुग्धतामेति मत्स्यानां मूलकन्दताम् | यागे भैरवता देवि शक्तौ दीपस्वरूपता || १४ || होमकुण्डस्वरूपत्वं मंत्राध्वातत्त्वरूपता | देवतारूपता देवि पात्रसिद्धेरियं मता || १५ || पात्रमासाद्य देवेशि यन्त्रं पीठे निवेशयेत् | बीजहीनं तु यद्यन्त्रं तद्यन्त्रं शववद्भवेत् || १६ || बीजयुक्तं सिद्धिरूपं सजीवं परिकीर्तितम् | जीवचक्रं यथा देवि तथा यन्त्रं सजीवकम् || १७ || प्रसिद्धप्राचीमार्गेण केरले बीजलेखनम् | कल्पिता प्राक्क्रमेणैव गौडकाश्मीरयोर्लिपिः || १८ || स्वसाम्मुख्यक्रमेणैव चैतन्ये बीजमेलनम् | स्ववामदक्षभेदेन नन्दनाथे क्रमाल्लिपिः || १९ || देवतादक्षवामाख्यक्रमाच्चिद्घनभैरवौ | एवं लेख्यक्रमाज्ञानात्पूजनात्तत्र सिध्यति || २० || ध्यानरूपा महाविद्या यद्बिन्दौ दिव्य रूपताम् | रूपमासाद्य देवेशि सदा तिष्ठति यत्र वै || २१ || यत्किंचित् लेखनेनैव तदेव सिद्धिदायकम् | यन्त्रसिद्धिरियं देवि लक्षणाभिः क्षणे क्षणे || २२ || भवन्ति सिद्धिरूपाणि देहसिद्धिकराग्रके | रहस्यातिरहस्ये च रहस्यं योनिवत्कुरु || २३ || इति सक्षेपतः प्रोक्तं घटसिद्धिं शृणु प्रिये | यद्घटस्थापनेनैव देवता करगा भवेत् || २४ || सर्वचक्रं सर्वरूपं सर्वदेवमयं शिवम् | आनन्दभैरवं पश्येद् घटमध्ये निरन्तरम् || २५ || तेजःस्वरूपो वाञ्छाख्यो मणिः कल्पलतामयः | सुधारसमयीं वाणीं अमृतस्यन्दनिर्झराम् || २६ || वाणीं वदति देवेशि देवतानां निवेदनात् | स्वयं करोति देवेशि स्वयं नीलासमो घटः || २७ || प्. ९८) तद्गेहगमनाद्देवि मूको वदति शारदाम् | सहस्त्रशतधारां च महाश्रुतिधरो घटी || २८ || घटसिद्धिरियं प्रोक्ता सर्वशास्त्रमयी भवेत् | षोडशोपचारसिद्धिर्बलिसिद्धिस्तथैव च | भवत्येककरे देवि किमन्यच्छ्रोतुमिच्छसि || २९ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे आरार्त्तिकविनिर्णयो नाम एकोनविंशतिः पटलः || १९ || विंशतिः पटलः | श्रीदेव्युवाच | दशविद्यादिकं देव दश वै शक्तयः प्रभो | पुरैव कथिताः स्वामिन् तत्क्रमान् वद साम्प्रतम् || १ || श्रीशिव उवाच | रहस्यातिरहस्यं च कथ्यते तव भक्तितः | महानीलक्रमेणैव कालिका सिद्धिदायिनी || २ || महानीलक्रमो देवि द्विविधः परिकीर्तितः | सकलो निष्कलश्चेति तत्क्रमं शृणु पार्वति || ३ || खड्गहस्तः शिरोन्यस्तः सर्वदा मुक्तकुन्तलः | सदा मांसासवोल्लासहृदयाघूर्णलोचनः || ४ || सिन्दूरतिलकं भाले तु मदिरारसः | न करोति नरो यस्तु स कथं मम पूजकः || ५ || रात्रौ पर्यटनं रात्रावेव प्रपूजनम् | न करोति नरो यस्तु स कथं मम पूजकः || ६ || * * * * कर्म शक्तेरालिङ्गनं तथा | करोति नरो यस्तु स कथं मम पूजकः || ७ || सिन्दूरबिन्दु भ्रूयुग्मे स्वयम्भूमुनिपत्रकम् | रक्तचन्दनजं चापि त्रिपुण्ड्रञ्च ततो परि || ८ || कुचन्दने कज्जलस्य बिन्दुर्देयो महेश्वरि | धूपाङ्गारत्रिपुण्ड्रस्य सत्त्वस्थाने प्रदापयेत् || ९ || महानीलक्रमे देवि तिलकः परिकीर्त्तितः | श्मशानशायी मांसाशी संविदानन्दमानसः || १० || * * पश्यन् स्पृशन् गच्छन् सर्वकालं जपं चरेत् | * * रमन् श्मशानस्थो मृदुचूडकसंयुतः || ११ || दन्ताक्षमालया देवि राजदन्तेन मेरुणा | मालां कृत्वा जपेद्देवि सदा ताम्बूलचर्वकः || १२ || कपालपात्रं सम्पूज्य सदा ताम्बूलचर्वकः | कपालपात्रं सम्पूज्य वीरसाधनतत्परः || १३ || कपालमालाभरणो * * * तत्परः | सिन्दूउरतिलकं भाले पाणौ तु मदिरारसः || १४ || प्. १००) शक्त्यानन्दो नेत्रकञ्जे मुखे हालां गृहाङ्गने | * * बाला करे माला शक्तिदोला हृदम्बुजे || १५ || रक्तचन्दनजा वापि स्वयम्भूकुसुमोद्भवा | रक्तश्वेता द्विधा प्रोक्ता मुण्डास्थिदन्तजा प्रिये || १६ || * * * * * कृत्वा सर्वकालं जपेच्छिवे | शक्तिद्रव्यं न संस्कार्यं सर्वमेतच्चराचरम् || १७ || अविकारी प्रहृष्टान्मा स्त्रीभक्तो विजितेन्द्रियः | इदृग्विधो नरो देवि महानीलक्रमे मतः || १८ || राजदन्तमयी माला खरोष्ट्राश्वसमुद्भवा | असक्तानां निष्कलः स्यात्तत्क्रमं शृणु पार्वति || १९ || विजयादुग्धकं पीत्वा सच्चिदानन्दमानसः | स्फाटिकां मालिकां कृत्वा विहरन् जपमाचरेत् || २० || दिक्कालनियनो नात्र स्थित्यादिनियमो न च | न जपे कालनियमो महामन्त्रस्य साधने || २१ || यस्मिन्मन्त्रे य आचारस्तत्र धर्मस्तु तादृशः | भ्रान्तिस्तत्र न कर्तव्या स्वर्गो वा मोक्ष एव च || २२ || पञ्चचक्रक्रमः कार्यो गुरोराज्ञाक्रमेण च | मृदुकोमलकं देवि चूडकं वाप्यचूडकम् || २३ || शवं वीरासनं वापि योनित्वगासनं च वै | कामरूपासनं देवि सुरतासनमेव च || २४ || सिन्दूरासनकं देवि पर्वतासनमेव च | सरोरुहासनं देवि तिलपुष्पं च खञ्जनम् || २५ || चन्द्रबिम्बं सर्पिणी च कम्बलासनमेव च | प्रयागासनकं देवि महाप्रयागासनं तथा || २६ || मुनिचूडासनं वश्ये स्पर्शषट्कासनं तथा | जिह्वास्पर्शासनं देवि वायुस्पर्शासनं च वा || २७ || आश्लेषासनकं देवि तथा मुण्डासनं तथा | श्रीमुण्डसुरतं वापि श्रीवीर सुरतं च वा || २८ || पञ्चवीरासनं देवि सुरेन्द्रादिदिशा क्रमात् | आवन्ती मथुरा काशी प्रयागाद्यासनं तथा || २९ || प्. १०१) लेहस्पर्शासनं चैव प्रयागत्रितयासनम् | प्रत्येकमासनासक्तजघनासक्तमासनम् || ३० || तरुणं सुन्दरं शूरं सम्मुखे रणवर्तिनम् | पलायनविशून्यञ्च चापलाद्यभिभूतकम् || ३१ || तरुणं सुन्दरं शूरं सम्मुखे रणवर्तिनम् | पलायनविशून्यञ्च चापलाद्यभिभूतकम् || ३१ || शनिभौमदिने वापि पञ्चरात्रिदिने च वा | सद्यः प्राप्तान् त्रिरात्रस्यान् शवानानीय पार्वति || ३२ || दिग्विदिक्क्रमयोगेन स्थापयेद्यत्नतः शिवे | शून्यागारे पर्वते वा एकलिङ्गे चतुष्पथे || ३३ || पश्चिमाभिमुखं लिङ्गं वृषशून्यं च यत्र वै | इदृक् स्थानं समासाद्य वीरवेषं समाचरेत् || ३४ || श्मशानदेवताभ्यश्च महाकालाय पार्वति | बलिं दत्त्वा प्रयत्नेन दिक्पालेभ्यो बलिं हरेत् || ३५ || शवान् संक्षाल्य यत्नेन पूर्वोक्तेन तु वर्त्मना | सर्वोपस्करसम्पन्नो दूरे चोत्तरसाधकान् || ३६ || अभिषेकविधिज्ञांश्च साधिकान् साधकान्प्रिये | इदृग्विधान समानीय सशस्त्रान् दूरदेशके || ३७ || संस्थाप्य दश कीलान्वै दशदिक्षु निखानयेत् | वीरार्गलेन मन्त्रेण त्वघोरास्त्रेण वा प्रिये || ३८ || जयदुर्गाख्यमनुना विद्यामण्डलकेन वा | दिग्बन्धनमथाचर्यय मद्यमांसादिसंयुतः || ३९ || मत्स्यं मुद्रां * * * तत्र सर्वं समाचरेत् | स्वस्वकल्पोक्तविधिना बलिसम्भारसंयुतः || ४० || गोनरेभाश्वमहिषछागमेषसमूषकान् | मार्जारादिन् समानीय पिष्टजानथवा प्रिये || ४१ || स्वकण्ठ समरासीन्वै (?) कृत्वा यत्नेन पार्वति | सर्वं श्मशानवत्कृत्वा जूटिकाबन्धनादिकम् || ४२ || अश्वारोह क्रमेणैव तत्र स्थित्वा जपं चरेत् | प्रथमं प्रहरं त्यत्त्का तृतीयप्रहरावधि || ४३ || प्. १०२) एकद्वित्र्यादिवर्णानां मालामन्त्रादिकाः प्रिये | उक्तमार्गेण देवेशि शक्तियोनौ शिवं यजेत् || ४४ || जपं कुर्यान्महेशानि देवता वरदा भवेत् | कोटिकोटिप्रकारैश्च भयं तत्र प्रजायते || ४५ || सर्वं मिथ्यैव कृत्वा तु जपं कुर्यान्महेश्वरि | यदि भाग्यवशाद्देवि स्त्रीरूपा संस्कृताक्षरम् || ४६ || मधुरं वक्ति या देवि सैव प्रोक्ता महेश्वरी | मध्यभागान्महेशानि ब्राह्मणः संस्कृतं वदेत् || ४७ || समायाति महेशानि भैरवः परिकीर्तितः | तया यद्याच्यते देवि तद्देयं तत्र पार्वति || ४८ || स्वस्य वाञ्छावरो ग्राह्यो वरं ब्रूहीति सा वदेत् | तत्तथैव महेशानि भविष्यति न संशयः || ४९ || तच्छक्तियोनितत्त्वस्य * * प्रत्यक्षमाचरेत् | सर्वसिद्धीश्वरो भूत्वा कालीरूपो नरो भवेत् || ५० || ब्रह्माण्डगोलके या च या काचिज्जगतीतले | समस्ताः सिद्धयो देवि तस्य हस्ते व्यवस्थिताः || ५१ || सैव काली भवेद्देवि नात्र कार्या विचारणा | भ्रान्तिं त्यत्त्का महेशानि सर्वं कार्यं महेश्वरि || ५२ || शुद्धौ चाशुद्धताभ्रान्तिः स कथं मम पूजकः | पाने भ्रान्तिर्भवेद्यस्य घृणा स्या * * * || ५३ || र्ददृग्विधो नरो यस्तु स कथं मम पूजकः | यद्यत्प्राप्तं महेशानि तत्सर्वं विनिवेदयेत् || ५४ || निष्कले नीलमार्गे च तिलकाद्यं च पूर्ववत् | ताम्बूलभक्षणं कृत्वा संविद्दुग्धं सदा भजेत् || ५५ || स्त्रियं दृष्ट्वा जपेद्देवि शवभस्मान्समाहरेत् | इत्याचारपरः श्रीमान् कालीरूपो नरो भवेत् || ५६ || पंचाशत्कुशतो ब्रह्मा तदूर्ध्वं विषरः स्मृतः | कुशपत्रशतेनैव विष्टरं कारयेद्बुधः || ५७ || जीवन्यासं तत्र कृत्वा तस्योपरि जपं चरेत् | ताम्बूलं योनिचक्रं च मुण्डमाला शवासनम् || ५८ || प्. १०३) सिन्दूरं खड्गकं देवि संविदासवयो रसः | विना यः पूजयेत्कालीं रौरवं नरकं व्रजेत् || ५९ || कुलाचारं समासाद्य सर्वसिद्धीश्वरो भवेत् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ६० || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे दशविद्यादिपूजाक्रमं नाम विंशतिः पटलः || २० || एकविंशतितमः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि महाचीनक्रमं परम् | श्रीशिव उवाच | महाचीनक्रमो देवि कथ्यते क्षिप्रतो मया || १ || महाचीनक्रमेणैव तारा शीघ्रफलप्रदा | ब्रह्मचीनो दिव्यचीनो वीरचीनस्तृतीयकः || २ || महाचीनो निष्कलश्च चीनः पञ्चविधः स्मृतः | महाचीनक्रमो देवि द्विविधः परिकीर्तितः || ३ || सकलो निष्कलश्चेति सकलो बौद्धगोचरः | निष्कलो ब्राह्मणानाञ्च द्वितीयं शृणु || ४ || न वक्तव्यं त्रिभुवने सारात्सारतरं परम् | केचिद्देवा नराः केचिद्दानवा यक्षराक्षसाः || ५ || नागलोकः किन्नराश्च गन्धर्वाप्सरसां गणाः | ये वा पशुमृगापक्षा ये केचिज्जगतीगताः || ६ || एते जडतराः सर्वे परस्परखलात्मनः | कुकल्पे निरताः सर्वे कुमार्गदर्शनोत्सुकाः || ७ || एतेषां ब्रह्मविज्ञानमानन्दं ब्रह्मचित्सुखम् | न जानन्ति महेशानि कथं तत्कथयामि ते || ८ || नित्यमुक्तस्वभावो यः तस्मै तद्व्रतमीरितम् | क्षमस्व देवि चार्वंगि न वक्तव्यं मयानघे || ९ || श्रीदेव्युवाच | नमस्ते वरदास्वामिन् करूणानिधये नमः | अन्यदेवरता ये च तेऽपि त्वत्पदकांक्षिणः || १० || तेषामेवाधिकफलं मद्भक्तानां व्यवस्थितम् | सिंहव्याघ्रादयो ये च ये च विघ्नानुकारिणः || ११ || रिपवश्च तथा पापा ये चान्ये दुष्टजन्तवः | ते सर्वे विलयं चान्ति पतङ्गा इव पापके || १२ || गेहं दीपाशिखारं दृश्यते दुष्टजन्तुभिः | केवलं प्रेमभावेन त्वयैव विभुना प्रभो || १३ || प्. १०५) किं वा शवमयो भूत्वा आसने पंचदेवता | पृथिवी याति जडतां जडं तेजोमयं भवेत् || १४ || तेजो वायुस्तथा पृथ्वी आकाशं तत्प्रकाशकम् | दानवा राक्षसा मर्त्या ये चान्ये देवतागणाः || १५ || राजानश्च तथा सर्वे चान्ये तत्पादवर्तिनः | आज्ञां भजन्ति गन्धर्वाः किं पुनर्नरकिन्नराः || १६ || यत्र यत्र भवेद्वाञ्छा तत्र सिद्धिः करे स्थिता | सदा तद्गामिनीं वाणीं भजते वातिनिश्चला || १७ || द्वन्द्वभावं परित्यज्य किमन्यद्बहुजल्पितैः | मोक्षार्थीं लभते मोक्षं धनर्थीं लभते धनम् || १८ || अन्ते तु जायते गौरीलोके शिव इवापरः | सिद्धो भवति मद्भक्त्या कथितञ्च मया तव || १९ || न वक्तव्यमभक्ताय परभक्त्य पापिने | श्रीशिव उवाच | महाचीनक्रमं देवि द्विविधं सूचितं पुरा || २० || महाचीनक्रमो देवि द्विविधैव प्रकीर्त्तितः | तत्रैव देवदेवेशि त्रगुण्याद्भेदभाजनम् || २१ || स्नानादि मानसं शौचं मानसः प्रवरो जपः | पूजनं मानसं दिव्यं मानसं तर्पणादिकम् || २२ || मानसो नियमः प्रोक्तो मानसं दन्तधावनम् | सर्व एव शुभः कालो नाशुभो विद्यते क्वचित् || २३ || न विशेषो दिवारात्रौ न सन्ध्यायां महानिधि | वस्त्रार्द्रं मानसं शौचं देहस्यशांदि वारिणा || २४ || शुद्धिं न चार्चयेदत्र निर्विकल्पमनाश्चरेत् | नात्र शुद्धेरपेक्षास्ति न च मेध्यादिदूषणम् || २५ || य एवं नियमैर्मन्त्रं सर्वकामसमृद्धिदम् | गद्यपद्यमयी वाणी सभायां तस्य जायते || २६ || तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः | राजानोऽपि च दासत्वं भजन्ते किं परे जनाः || २७ || सर्वदा पूजयेद्देवीमस्नातः कृतभोजनः | महानिश्यां शुचौ देशे बलिं मन्त्रेण दापयेत् || २८ || प्. १०६) स्त्रीद्वेषो नैव कर्त्तव्यो विशेषात् पूजनं स्त्रियः | जपस्थाने महाशङ्खं निवेश्योर्द्धं जपं चरेत् || २९ || स्त्रियं गच्छन् स्पृशन् पश्यन् यत्र कुत्राप्यचूडके | भक्ष्यं ताम्बूलमन्यांश्च भक्ष्यद्रव्यान्यथारुचीन् || ३० || मांसं मत्स्यं दधि क्षौद्रं संविदासवयो रसः | उक्तान्यशेषभक्ष्याणि भुक्त्वा भक्ष्यं चरेज्जपम् || ३१ || दिक्कालनियमो नास्ति स्थित्यादिनियमो न च | न जपे कालनियमो नार्चादिषु बलिष्वपि || ३२ || स्वेच्छानियम उक्रोऽत्र महामन्त्रस्य साधने | वस्त्रासनगेहदेहस्पर्शस्पर्शादि वारिणा || ३३ || तैलं संलाप्य देवेशि ताम्बूलं बक्षयेत् सदा | नानाम्बराणि संधार्य देहं वस्त्रेण मार्जयेत् || ३४ || मन्त्रस्नानं चरेद्देवि सर्वदा मद्गताशयः | महाचीनक्रमे देवि विप्रस्नानमिदं भवेत् || ३५ || शुद्धिर्न चाचरेदत्र निर्विकल्पमनाश्चरेत् | सुगन्धिश्वेतलौहित्यकुसुमैरर्चयेद्दलैः || ३६ || बिल्वैर्मरुवकाद्यैश्च तुलसीवर्जितैः शुभैः | वर्जयेद्बिल्वपत्रञ्च मरुं यत्नेन वर्जयेत् || ३७ || केशान् संवर्द्धयेद्देवि सर्वदातैलभूषितः | अष्टम्यां च चतुर्श्यां विशेषादिवसे सदा || ३८ || नाधर्मो विद्यते सुभ्र किंचिद्धर्मो महान् भवेत् | स्वेच्छानियम उक्रोऽत्र प्रचरेद्धृष्टमानसः || ३९ || कृतार्थं मन्यमानस्तु सन्तुष्टो निजमानसः | हरेर्नाम न गृह्णीयान्न स्पृशे तुलसीदलम् || ४० || नान्यचिन्ता प्रकर्तव्या नान्यनिन्दा कदाचन | नान्यमन्त्रं जपेद्देवि निर्विकल्पः सदा भवेत् || ४१ || सद्यो मद्यं पिवेद्देवि मातङ्गीभिर्विहारवान् | * * * * देवि जपं कुर्यादनन्यधीः || ४२ || ब्राह्मि भूते मदाचारे विकल्पः कः प्रियेऽस्ति वै | भ्रूयुग्मे कुण्डले देवि सिन्दूरं तदनन्तरम् || ४३ || प्. १०७) कुचन्दनं त्रिपुण्ड्रं च ततः सकेशरं शिवे | मुण्डमाला गले धार्या कपालं पाणिसङ्गतम् || ४४ || इत्याचारपरो नित्यं महाचीनक्रमी भवेत् | सर्वदानन्दहृदयः सर्वदा भक्तसेवकः || ४५ || कर्णनेत्रान्तरस्थो सा महाशङ्खः प्रकीर्तितः | पञ्चाशन्मणिमिर्माला गोनराश्वास्थिसंभवा || ४६ || माला कार्या महेशानि षष्टिसिद्धीश्वरो भवेत् | सैव तारा महेशानि नात्र कार्या विचारणा || ४७ || श्रीदेव्युवाच | शिव शङ्कर विश्वेश विश्वेश विश्वतारक शाश्वत | वेदहीनाश्च ये धर्मास्तान् कथं ब्राह्मणश्चरेत् || ४८ || श्रीशिव उवाच | साधु देवि मम प्राणप्रिये साधकसुप्रिये | तद्भावनासमायातस्तद्भावमाचरेत्प्रिये || ४९ || यथा श्राद्धविधौ देवि मांसं मुख्यं प्रकीर्तितम् | कलौ तत्र निषद्धं स्याद्ब्राह्मणानां महेश्वरि || ५० || आत्मार्थं वा परार्थं वा पशून् हत्वा पशुर्भवेत् | यावन्ति तस्य रोमाणि तावद्योनिमवाप्नुयात् || ५१ || तस्यानुकल्पा माषाश्च मया प्रोक्तास्ति पार्वति | सकलं तु मया प्रोक्तं निष्कलं शृणु पार्वति || ५२ || यथा तद्भावनायां तु न च दोषोऽस्ति पार्वति | मण्डिबन्धादधः पाणिः पादौ गुल्फादधः शिवे || ५३ || मुखं प्रक्षालयेद्देवि चीनस्नानमिदं भवेत् | जानुभ्यामवनि धृत्वा भूमौ मस्तकमानयेत् || ५४ || चीनमार्गे नमस्काराः कीर्तितास्ते मया तव | पूर्वक्रमस्य देवेशि शक्रः प्रतिनिधिर्मम || ५५ || स्नानदानादिकं कृत्वा तथा पूजादिकं प्रिये | न च स्नानं न मे देहो न च पापं ममासि वै || ५६ || किं स्नानं कस्य च स्नानमस्नातः कृतभोजनः | सर्वमेव हृदम्भोजे मयि सर्वं प्रतिष्ठितम् || ५७ || प्. १०८) मयि ज्ञात्वा मन्त्रसिद्धिर्मम देवा वरप्रदाः | तेजो रूपं जगत्सर्वं तारिणी तत्स्वरूपधृक् || ५८ || तत्तेजसा च संस्पर्शं संभाव्य जपमाचरेत् | भावनावशमापन्नो भवेद्योगी महाकविः || ५९ || गुडार्द्रकरसेनैव सुरा तु तु ब्रह्मणस्य च | तदभावे जलं देवि सम्भाव्य पूजनं चरेत् || ६० || तद्भावहृदयासन्नः सदा तद्गतमानसः | द्वन्द्वभावं एरित्यज्य सर्वसिद्धीश्वरो भवेत् || ६१ || ब्रह्मा चैव वसिष्ठश्च तथान्ये च ऋषीश्वराः | निष्कलक्रममार्गेण भजन्ति सततं शिवे || ६२ || ताराभक्ता महेशानि ब्राह्मणा एव कीर्त्तिता | ब्रह्मविद्या महाविद्या सर्वत्र दुर्लभा कलौ || ६३ || रहस्यातिरहस्यं च गोप्तव्यं पशुसङ्कटे | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ६४ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे महाचीनक्रमो नामैकविंशतिः पटलः || २१ || द्वाविंशतिः पटलः | श्रीदेव्युवाच | गन्धर्वाख्यक्रमं देव कथयस्व मम प्रिये | श्रीशिव उवाच | गन्धर्वाख्यक्रमेणैव सुन्दरी भुवि दुर्लभा || १ || गन्धर्वाख्यक्रमो देवि कथ्यते शृणु साम्प्रतम् | भ्रूमध्ये कुङ्कुमं देवि तदन्ते मलयागुरुम् || २ || अष्टगन्धत्रिपुण्ड्रञ्च मध्ये कस्तूरिकान्वितम् | सुगन्धश्वेतलौहित्यपुष्पुष्पैः सम्भूषितो नरः || ३ || स्वस्तिकाङ्कितदेशस्थो रक्तप्राकारसंयुतः | अष्टगन्धस्य धूपेन नानासौगन्धभूषितः || ४ || रक्तमाल्याम्बरधरो मुक्ताहारोपशोभोतः | पूर्णाभिषेकः शिरसि तेन तत्र न मुण्डनम् || ५ || केशान् संवर्द्धयेद्देवि सौगन्धतैलभूषितः | नानासौगन्धभोज्यैश्च राजयोग्यैर्महेश्वरि || ६ || आपो निसर्गतः पूताः किं पुनर्वह्नितापिताः | सदा चोष्णोदके स्नायात्तदभावे यथोदकम् || ७ || गृहं चित्रैस्तु संचित्र्यं दर्पणोदरसन्निभम् | वितानध्वजभूषाढ्यं घण्टानादपशोभिताम् || ८ || पञ्चवादित्रसंयुक्तं नानाघोषैः समन्वितम् | अतिसूक्ष्माम्बरैयुक्तं स्वर्णपत्रादिरञ्चितम् || ९ || ग्रैवेयवलयाङ्गुल्य भूषितैर्भूषितः सदा | नानामधुराभोज्यैश्च दुग्धपाकैरनेककैः || १० || नानाभोगेन संयुक्तो गन्धर्वाख्यक्रमो भवेत् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ११ || इति श्रीशक्तिसङ्गमममहातत्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्य महोत्रतारासंवादे गन्धर्वाख्यक्रमो नाम द्वाविंशतिः पटलः || १२ || त्रयोविंशतिः पटलः | श्रीदेव्युवाच | छिन्नमस्ताविधौ देव क्रमं मे ब्रूहि सत्वरम् | श्रीशिव उवाच | दिव्यचीनक्रमेणैव छिन्नमस्ता फलप्रदा || १ || क्रमद्वयं महेशानि पूर्वमेव प्रकाशितम् | एतस्यास्तिलको देवि भ्रयुग्मे च कुचन्दनम् || २ || तदन्ते रोचनापत्रं त्रिपुण्ड्रं दिव्यवर्णकैः | श्मशानभस्मबिन्दुस्तु तन्मध्ये दापयेत्प्रिये || ३ || मुखे मुखं प्रदत्त्वा तु सर्वकालं जपेच्छिवे | विशेषः कथितो देवि शक्तितत्त्वस्य पानकम् || ४ || इति संक्षेपतः प्रोक्तं भैरव्यां शृणु पार्वति | स्वपुष्पक्रमयोगेन भैरवी भुवि दुर्लभा || ५ || स्वपुष्पाख्यक्रमो देवि कथ्यते शृणु साम्प्रतम् | तरुणीं सुन्दरीं रम्यां तारुण्यामृतविग्रहाम् || ६ || तदा * * साभिलाषां * * * द्युक्तमानसाम् | मन्त्रयंत्रसमायुक्तां समानीय महेश्वरि || ७ || * * तां च विधायादौ * * जपं चरेत् | परस्परावलोकश्च कर्तव्यश्च परस्परम् || ८ || सदा तत्सङ्गिना भाव्यं तद्धस्तरचितं जलम् | तद्धस्तरचितं भोज्यं तद्धस्तरचितं स्थलम् || ९ || तद्धस्तरचितं पुष्पं देवताभ्यो निवेदयेत् | स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव हि भूषणम् || १० || स्त्रियः सृष्टिः स्त्रियः सर्गः सर्वं तस्यां प्रतिष्ठितम् | स्त्रीद्वेषो नैव कर्तव्यो विशेषात्पूजनं स्त्रियः || ११ || तासां प्रहारं कौटिल्यं सर्वथा परिवर्जयेत् | प्रमादात्कुरुते यस्तु तस्य पातो भविष्यति || १२ || इदृग्विधां समालोक्य सुन्दरीगेहसंस्थितः | अविकारी यदा देवि साधनार्हो न चाऽन्यथा || १३ || विकार भावमाने च साधको नश्यति क्षणात् | तत्कुण्डं च महेशानि क्षनाद्वि * * भवेत् || १४ || तथापि स्वस्य देहस्य विकारं नहि कारयेत् | सापि चेद्देवदेवेशि ह्यविकारी यथा भवेत् || १५ || प्. १११) * * * तदीये विद्यन्ते नाड्यस्तिस्रः प्रधानिकाः | अम्भः स्रवति चान्द्रीया पुष्पं स्रवति भानवी || १६ || बीजं स्रवति चाग्नेयी नाड्यो ज्ञेया त्रिह्दा * * | पुष्पिणीमनुना देवि बलात् पुष्पं समानयेत् || १७ || द्राविणीमनुना देवि बलादृष्ट्या * * नयेत् | उभयं चैव संगृह्य जपं कुर्यान्महेश्वरि || १८ || स्वयमेव भवेत् पुष्पं स्वपुष्पं तेन कीर्तितम् | तथा कार्या महेशानि स्थैर्ययसङ्कारिणीजपात् || १९ || शक्तिश्च साधको देवि दम्पती दुर्लभौ मतौ | बगलान्तासु देवेशि कल्पाद्यास्वपि यत्नतः || २० || क्रमोऽयं योज्यतां सम्यक् नात्र कार्या विचारणा | कलिदोषवशाद्देवि नायं योगो भविष्यति || २१ || तस्मात्पाशवकल्पेन बालां संसाध्यतां शिवे | बालायामुभयाचारो दक्षिणो मुख्य एव हि || २२ || शीघ्रञ्च सिद्धिमामा चेत् गवाक्षयोगमभ्यसेत् | यत्र स्त्रीणां समूहोऽस्ति नदीनदसमुद्रके || २३ || यत्र स्नानं प्रकुर्वन्ति गवाक्षं तत्र कारयेत् | तानालोक्य प्रयेत्नेन जपं कुर्यान्निरन्तरम् || २४ || सर्वाः सम्प्रीणयेद्देवि स्वर्णवस्त्रादिभिः प्रिये | इति सक्षेपतः प्रोक्तं तिलकं शृणु पार्वति || २५ || घुसृणं वामहस्ते तु समानीय प्रयत्नतः | शक्तिस्नपनतीरे तु गत्वा यत्नेन पार्वति || २६ || वामहस्ततले यन्त्रं विलिख्य यत्नतः शिवे | अवशिष्टेन तिलकं कारयेत्परमेश्वरि || २७ || भाले कस्तूरिकाबिन्दुर्मुनि पत्रं सुचन्दनम् | पट्टरङ्गनकं देवि घुसृणेन प्रकारयेत् || २८ || तन्मध्ये श्वेतादिव्यं च केशादि पूर्ववद्भवेत् | दशविद्याविद्यौ देवि केशवर्द्धनमीरितम् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || २९ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे छिन्नमस्ताक्रमो नाम त्रयोविंशतिः पटलः || १३ || चतुर्विंशतिः पटलः | देवेश श्रोतुमुच्छामि वगलाक्रमनिर्णयम् | श्रीशिव उवाच | सौभाग्याचीक्रमेणैव बगला शीघ्रदर्शिनी || १ || पीताम्बरधरो मन्त्री पीतभूषणभुषितः | पीतमाल्याम्बरधरो पीतगेहसमास्थित्ः || २ || पीतपूजा परः प्रोक्तः पीतान्नप्रीतमानसः | पीतद्रव्योपभोगी च पीतासनसमन्वितः || ३ || पीतहोमी पीतपुष्पी पीतशक्तिसमन्वितः | रोचनां भुवि संदद्यात् कुङ्कुमं मुनिपत्रकम् || ४ || हरिद्रया त्रिपुण्ड्रं च तन्मद्ये खादिरं शिवे | हरिचन्दनधूपेन धूपितः परमेश्वरि || ५ || सर्वं सर्वं तु सम्पाद्य क्रममार्गरतो भवेत् | सृष्टिस्थित्यन्तसंहारः पूजा च त्रिविधा कलौ || ६ || केवला सृष्टिपूजा स्यात् गर्भकौलागमक्रमात् | अर्चनं गौडदेशे तु स्थितिमार्गं कुमारिके || ७ || गुप्तकौलागमन्नाम गौडदेशार्चने विधिः | कामरूपागमन्नाम संहारक्रमपूजने || ८ || गौडागमं चावलम्ब्य सांख्यायनमुनिस्तथा | उक्तवाना गमे चैव स्थित्यर्चां शृणु पुत्रके || ९ || सर्वाङ्गसुन्दरीं रम्यां सर्वावयवशोभिताम् | नवोढां पुष्पिणीं चैव प्रार्थयेद्विप्रकन्यकाम् || १० || कृष्णाष्टम्यां चतुर्दश्यां पौर्णमास्यां कुमारकः | अथवा भौमऽवारे च निशायां भृगुवासरे || ११ || युवासितेन तैलेन कुर्यादभ्यज्जनं तथा | तूलिकातल्पमानीय आस्तीर्योदङ्मुखे तदा || १२ || प्. ११३) तस्योपरि समस्तीर्य शेवन्तैर्जातिचम्पकैः | कर्पूरं चैव कस्तूरीमिश्रितं चन्दनं तथा || १३ || सर्वाङ्गलेपनं कुर्याल्लक्ष्मीसूक्तेन बुद्धिमान् | पर्यङ्कोपरि तां कन्यां चन्दनेन विलेपिताम् || १४ || ध्रुवा द्यौरिति मन्त्रेण कन्यां दक्षिणतोमुखीम् | उन्मीखीशयनं कुर्यात् श्रीसूक्तेन कुमारकः || १५ || तस्याः * * प्रसार्ययाय * * नार्चनमाचरेत् | न्यस्त्वा षोढाद्वयं चैव बगलापञ्चकं न्यसेत् || १६ || कन्यां चैव न्यसेदेवं तत्तदङ्गानि संस्मरन् | पादं जपपुरं चैव मार्जयेन्मूलविद्यया || १७ || गन्धद्वारेति मन्त्रेण कुर्यात्कस्तूरिलेपनम् | मूलमन्त्रेण सम्यक् च पुष्पमालां समर्पयेत् || १८ || निवेदयेत् द्रव्यशुद्धिं तत्रैव जपमाचरेत् | शतमष्टसहस्रं च मन्त्रराजमिनं जपेत् || १९ || पुरश्चरणमध्ये च प्रतिमार्गञ्च वासरे | अथवा पौर्णमास्याञ्च सौभाग्यार्चनमाचरेत् || २० || प्रयोगसिद्धिदं पुंसां मन्त्रसिद्धिकरं परम् | एतत्क्रमं विना देवि प्रयोगो न भवेत्क्वचित् || २१ || तस्मात्सर्वप्रयत्नेन सिद्ध्यर्थं देवि भूतले | सौभाग्याख्यक्रमं देवि विना सिद्धिर्न कोटिभिः || २२ || अभिमानाष्टकं त्यक्त्वा त्यक्त्वा वै दूषणत्रयम् | त्यक्त्वा पञ्चेन्द्रियासक्तिं सौभाग्यक्रममाचरेत् || २३ || सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ | शीतोष्णसमतां कृत्वा सौभाग्यक्रममाचरेत् || २४ || षोढाद्वयं च न ज्ञात्वा यः करोत्यर्चनं भुवि | पतितः स भवेत्पुंसो रौरवं नरकं व्रजेत् || २५ || बाह्याभ्यन्तरयोर्देवि प्रभेदज्ञानयोर्विना | पीतक्रमो न कर्तव्यो देवताशापमाप्नुयात् || २६ || संकल्पं च विकल्पं च त्यक्त्वा विज्ञानमानसः | पीतक्रमं ततः कुर्ययान्नो चेद्भ्रष्टो भवेद्ध्रुवम् || २७ || प्. ११४) जितेन्द्रियः सुखं कृत्वा कुर्यात्पीतक्रमं शिवे | सुखार्थं कुरुते योऽसौ देवताशापमाप्नुयात् || २८ || स्वस्यावेश विधिं चैव न ज्ञात्वा परमेश्वरि | यः करोत्यर्चनं देवि न विप्रः पतितो भवेत् || २९ || यस्तु कन्यामनः क्षोभं करोति यजने शिवे | भ्रान्तचित्तो भवेत्सद्यो वाचस्पतिरिवापरः || ३० || नोत्पादयेद्वेदनां च सन?श्चैव शरीरयोः (?) | वेदनां जनयेद्यस्तु स नरः पतितो भवेत् || ३१ || स्वपत्नीं भ्रातृपत्नी वा गुरुभार्यामथापि वा | अर्चयेद्यौवनोपेतां साङ्ख्यायनसमर्पिताम् || ३२ || दीक्षालयस्थां रजकीं कुलालगृहकन्यकाम् | पुलिन्दकन्यकां वापि मृदुचूडकमादरात् || ३३ || अर्चयेदृषिपत्नीं च पूर्वोक्तलक्षणैर्युताम् | अर्चनं विधिमार्गेण पूजा दुर्वाससोमतम् || ३४ || सर्वलक्षणसंयुक्तां पुष्पिणीमर्चयेच्छिवे | मतङ्गमुनिनोक्तं च सद्यः सिद्धिकरं भुवि || ३५ || सिद्धिक्रमोऽयं देवेशि नास्ति सिद्धिर्गुरुं विना | तस्मात्सर्वप्रयत्नेन गुर्वाज्ञापरिपालकः || ३६ || सिद्धो भवति देवेशि नात्र कार्या विचारणा | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ३७ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरेभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे वगलाक्रमो नाम चतुर्विंशतिः पटलः || २४ || पञ्चविंशतिः पटलः | श्रीदेव्युवाच | महाराजक्रमं देव कथयस्व मम प्रभो | श्रीशिव उवाच | महाराजक्रमो देवि कथ्यते शृणु साम्प्रतम् || १ || नानाविचित्रसोपानमण्डिते चितमण्डपे | सौधाट्टालकसंशोभिवितानध्वजसम्मिते || २ || नानोपवनसंयुक्त हंसमायूरशोभिते | नानाचित्रगृहे रम्ये गजवाजिविराजिते || ३ || सर्वतोभद्रसंयुक्ते नानाभरणभूषिते | धूपामोदसमायुक्त चित्रदीपैरलङ्कृते || ४ || रत्नसिंहासने रम्ये रत्नाभरणभूषिते | जातिचम्पकपुन्नागकेतकीगन्धशोभिते || ५ || कर्पूरागुरुककस्तूरीरोचनाकुङ्कुमं तथा | जटामांसीरसं गन्धसौगन्धगृहभूषितः || ६ || घण्टानिनादसंयुक्तः सर्वदा शुद्धमानसः | आनन्दमग्नहृदयो दिव्यवस्त्रैरलङ्कृतः || ७ || दिव्यमाल्याम्बरधरो दिव्यवस्त्रैरलङ्कृतः | ताम्बूलपूर्णवदनो रदछन्दविराजितः || ८ || देवपात्रैर्नृत्यपात्रैर्भोगपात्रैर्निनादिभिः | नृत्यगीतैश्च वादित्रैश्चतुर्विंशतिवाचकः || ९ || सङ्गीतरागतालैश्च ध्वनिभिश्च निनादिभिः | नानादेशीयभाषाभिर्गद्यपद्यैरलङ्कृतः || १० || नानाविचित्रभूषाभिर्भूषितः साधकोत्तमः | समस्तराजचर्याणा मोहनाद्राजनायिका || ११ || श्रीमहाराजमातङ्गी सर्वदेवप्रमोहिनी | तस्यास्तु तिलकं देवि कथ्यते शृणु साम्प्रतम् || १२ || प्. ११६) कुचन्दनं भ्रुवोर्मध्येऽगुरुसारस्तदन्तरे | कस्तूरिकात्रिपुण्ड्रं च तन्मध्ये केशरं शिवे || १३ || महाराजक्रमो देवि कथितस्तु मया तव | अथवा देवदेवेशि स्वयं गानपरो भवेत् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || १४ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे महाराजक्रमो नाम पञ्चविंशतिः पटलः || २५ || षड्विशतिः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् | वद श्रीभुवनेशान्याः क्रमं परमदुर्लभम् || १ || श्रीशिव उवाच | दिव्यभावक्रमेणैव भुवना शीघ्रासिद्धिदा | हकारः शिवरूपत्वात् रकारः पापनाशकः || २ || हकारः कामरूपत्वात् मायारूपः प्रकीर्तितः | ब्रह्माण्डमेतद्देवेशि मायया वेष्टितं भवेत् || ३ || यस्या मायां विना देवि न च किञ्चित्प्रभासते | यद्भासारहितं किञ्चिन्न च तद् भासते क्वचित् || ४ || यद्भासासहितं देवि जगदेतत्प्रभासते | यां विना तु महेशानि जगज्जडसमं भवेत् || ५ || गुरुदैवतमन्त्राणामैक्यं संभावयन् धिया | त्रितेजस्त्वेकीकृत्याऽथ तत्र मूर्ति प्रकल्पयेत् || ६ || साङ्गां सावरणां ध्यात्वा तद्रूपस्तु स्वयं भवेत् | गुरुरूपो भवेद्देवी देवीरूपो गुरुः स्मृतः || ७ || मन्त्ररूपो भवेदात्मा चात्मानस्तन्मयो भवेत् | एवं क्रमेण देवेशि सदा तद्गतमानसः || ८ || त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा | एतस्यास्तिलकं देवि कथ्यते यत्नतः शृणु || ९ || श्वेतचन्दनबिन्दुस्तु भ्रमध्ये तु प्रलेपयेत् | गन्धसारं तदन्ते स्यात् त्रिपुण्ड्रं दिव्यवर्णतः | रक्ताक्षताश्च तन्मध्ये तेन सिद्धीश्वरो भवेत् || १० || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयख्ण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे भुवनेश्वरीक्रमो नाम षड्विंशतिः पटलः || २६ || सप्तविंशतिः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि कमलाक्रमनिर्णयम् | श्रीशिव उवाच | भ्रूयुग्मे घुसृणं देवि सिन्दूरं तदनन्तरम् || १ || श्वेतत्रिपुण्ड्रं देवेशि तन्मध्ये केशरं शिवे | स्नातः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः || २ || शुक्लभूषणभूषाध्यस्त्रिसन्ध्यं स्नानमाचरेत् | हविष्याशी भूमिशायी मधुरान्नप्रियो नरः || ३ || भृगुवासरतो यत्तद्वितीयं भृगुवासरम् | दिनवृद्धिक्रमेणैव कुमारीं पूजयेत्सदा || ४ || द्वितीयभृगुमारभ्य ग्रासयेद्दिनवृद्धितः | प्रत्यहं पूजयेद्देवि नानावादित्रनिस्वनेः || ५ || दिनषोडशपर्यन्तं प्रत्यहं तु समाचरेत् | पुनस्तद्दिनमारभ्य तद्दिनान्तं महेश्वरि || ६ || पूजयेत्प्रयतो नित्यं देवताभावतत्परः | प्रदक्षिणा प्रकर्तव्या कलाभावक्रमेण || ७ || दीपास्तत्र प्रदातव्याः कलावृद्धिक्रमेण च | ब्राह्मणान्भोजयेन्नित्यं कलाभावक्रमेण च || ८ || इत्याचारपरः श्रीमान् विश्वरूपो नरो भवेत् | राजचिन्हानि सर्वाणि प्रयतः पूजयेत्सदा || ९ || सर्वसाम्राज्यलक्ष्म्यास्तु नाथो भूयान्न संशयः | धनदा तस्य गेहस्था राजा च किङ्करो भवेत् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || १० || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे कमलाक्रमनिर्णयो नाम सप्तविंशतिः पटलः || २७ || अष्टविंशतिः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि धूमावत्याः क्रमं शिव | श्रीशिव उवाच | धूमावत्याः क्रमो देवि कथ्यते शृणु पार्वति || १ || भ्रूमध्ये कज्जलं देवि भस्मबिन्दुं तदन्तरे | मृत्त्रिपुण्ड्रं ललाटे स्याच्छवभस्म तदन्तरे || २ || कृष्णवस्त्राम्बरधरः कृष्णगन्धविभूषितः | धूमवस्थाम्बरधरो धत्तूरमाल्यभूषितः || ३ || गुलधूपेन संयुक्तः श्मशानासनसंगतः | धूम्रवर्णं जगत्सर्वं मन्त्रं धूम्रमयं भजेत् || ४ || काकपिच्छं चासनं स्यात् दन्ता कृष्णाः प्रकारयेत् | ब्रह्मचारी मिताहारी निर्विकल्पो जितेन्द्रियः || ५ || सत्यवादी मिताहारो भूशायी कुशविष्टरे | स्नानं त्रिषवणं कुर्यादुच्चाटनपरायणः || ६ || स्वचित्तं काकवत्कृत्या जगदुच्चाटयेद्ध्रुवम् | इत्याचारपरो मर्त्यो धूम्रक्रमगतो भवेत् | काकक्रमस्तु गदितः किमन्यच्छ्रोतुमिच्छसि || ७ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे धूमावतिक्रमो नामाष्टविंशतिः पटलः || २८ || एकोनवित्रिशतिः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमुच्छामि ब्रह्ममार्गक्रमं शिवे | श्रीशिव उवाच | नेत्रयोः कज्जलं देयं सिन्दूरेण त्रिपुण्ड्रकम् || १ || हरिद्रा भ्रूयुगे देया श्वेतपत्रं समाचरेत् | रक्तबिन्दुञ्च तन्मध्ये सर्वदा तद्गतो भवेत् || २ || भोजने शयने रात्रौ * * * सर्वदा जपेत् | उच्छिष्टहस्ते देवेशि उच्छिष्टेन बलिं हरेत् || ३ || शक्त्युच्छिष्टं भुंजानः सार्वकालिकम् | जपं कुर्यान्महेशानि रात्रावेव जपं चरेत् || ४ || ताम्बूलभक्षणं कृत्वा ताम्बूलानि च होमयेत् | ताम्बूलभक्षी मांसाशी भुक्त्वा शौचं न कारयेत् || ५ || गृहं प्रलिप्य यत्नेन मार्जन्या मार्जनं चरेत् | प्रजपेद्यत्नतो देवि नान्यथा सिध्यति ध्रुवम् || ६ || उच्छिष्टहस्ते देवेशि स्वदेहं प्रोक्षयेत्सदा | उच्छ्ष्टहस्तः प्रजपेत् ब्रह्ममार्गः प्रकीर्तितः || ७ || ब्रह्ममार्गक्रमो देवि गदितस्तु मया तव | अन्येन क्रमयोगेन सिद्धमार्गक्रमी भवेत् || ८ || सिद्धविद्या प्रसन्ना स्यात्प्रत्यक्षा वर दायिनी | सुरेन्द्रोऽपि च दासः स्यान्मनुष्याणां च का कथा || ९ || रहस्यं कथितं भद्रे गोपनीयं स्वयोनिवत् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || १० || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंअवादे ब्रह्ममार्गक्रमो नाम एकोनत्रिंशतिः पटलः || २९ || त्रिंशतिः पटलः | देवेश श्रोतुमिच्छामि क्रममालाविनिर्णयम् | श्रीशिव उवाच | पूर्वोक्तक्रमविद्यानां मालां शृणु महेश्वरि || १ || दन्ताख्यमाला कथिता महामाला तथैव च | धिन्नमस्ताविधौ देवि नरास्थिमालिका तथा || २ || रक्तचन्दनजा माला त्रिपुरायां प्रकीर्तिता | स्वयम्भूकुसुमाख्या तु भैरव्या परिकीर्तिता || ३ || गुञ्जामाला तु मातंग्यां धूम्रायां खरदन्तजा | हरिद्राख्या तु वगलामुख्या माला प्रकीर्तिता || ४ || दन्तोत्था नरशङ्खोत्था नारिकेलमयी तथा | अनयोर्न हि भेदोऽस्ति शिवशक्योर्यथा प्रिये || ५ || मालिका कमलाक्षस्य महालक्ष्म्याः प्रकीर्तिताः | भुवनेश्याः स्फाटिकी स्यात्सिद्धविद्याविधौ शिवे || ६ || गुञ्जाख्यमालिका शस्ता तद्विद्याशक्तयः शृणु | गन्धरूपजातिभेदैर्महाविद्या प्रकीर्तिता || ७ || तत्क्रमं देवदेवेशि शृणु यत्नेन साम्प्रतम् | रूपगन्धक्रमेणैव नाम दद्यान्महेश्वरि || ८ || मातृपितृकृतं नाम त्यक्त्वा यत्नेन पार्वति | स्वयं नाम प्रदद्याद्वै यथायोगेन पार्वति || ९ || या सा प्रथमशक्तिस्तु शुद्धान्तःकरणा द्विजा | शुद्धा विमलसद्गात्री दिव्यगन्धा मनोरमा || १० || सा हि स्वप्नवतो देवी सर्वसिद्धिप्रदर्शिका | या कृष्णा नीलकृष्णाभा मधुपिङ्गललोचना || ११ || साधकाकाकांक्ष्यहृदया पुंगन्धा निन्द्यगन्धिका | तस्यां काली समायोज्या सा काली परिकीर्तिता || १२ || या स्यात्तृतीया गौरांगी मधुगन्धानुलेपना | त्रिपुरा नाम सा देवी स्वपुष्पक्रमसाधिनी || १३ || प्. १२२) मदगन्धा तु या नारी मदस्खलनमन्थरा | युक्ता चामिषगन्धेन महिषासुरमर्दिनी || १४ || मद्यगन्धा तु या नारी रक्तनेत्रातिनिष्ठुरा | महोग्रतारा सम्प्रोक्ता महापापविनाशिनी || १५ || अश्वगन्धा तु या नारी दीर्घजङ्घा मनोहरा | सा स्याच्चकितलोलाक्षी अश्वारूढा वरप्रदा || १६ || अमागन्धा च वदने पूतिगन्धा च सन्धिसु | नीलकेशी च सा प्रोक्ता साक्षाद्दुर्गा मदोन्मुखी || १७ || सर्वलक्षणसंयुक्ता नानागन्धसमाकुला | सुन्दरी चारुकेशी च दीर्घनेत्रा मनोहरा || १८ || नानाविलासकुशला कुलशास्त्रविचारिणी | गुरुवक्षःस्थलाक्रान्ता मध्ये विरलदर्शिनी || १९ || सुन्दरी सा भवेद्गौरी सर्वकार्यप्रवर्तिनी | दिव्यवर्णा कृशाङ्गी च दिव्यगन्धानुलेपना || २० || भुवनेशी मया प्रोक्ता कमलां शृणु पार्वति | चार्वङ्गी चारुनेत्रा च कब्ज पद्मासनस्थिता || २१ || पीताभरणभूषाङ्गी कमला परिकीर्तिता | गुञ्जाहारविभूषाढ्या श्यामचञ्चललोचना || २२ || चारुहासा तु मातङ्गी विद्या ख्याता महेश्वरि | पिङ्गनेत्रा पिङ्गकेशा किंबिन्दुश्चातिहासिनी || २३ || धूमावती च सा प्रोक्ता सिद्धविद्यां शृणु प्रिये | सर्वदा भोजनासक्ता बहुभोज्याति चञ्चला || २४ || त्रैलोक्यमोहनाकारा सिद्धविद्या प्रकीर्तिता | लम्बवक्त्रा च लम्बोष्ठी पीतवर्णाति निश्चला || २५ || बगला सा महेशानि कीर्तिता तव सुव्रते | दशविद्या इमाः ख्याताः शक्तिरूपेण पार्वति || २६ || त्रिधा भावं महेशानि मातृस्त्रीभगिनीक्रमात् | क्रीडन्ति सततं देवि विद्या एव न संशयः || २७ || प्. १२३) दशक्रमा महेशानि दशविद्यासु यत्नतः | सर्वधा कारयेद्देवि नान्यथा युगकोटिभिः || २८ || न हि सिध्यन्ति देवेशि दशपद्मजपेन वै | तस्मात्सर्वप्रयत्नेन स्वस्वविद्याक्रमं चरेत् || २९ || स्वयम्भूकुसुमं देवि त्रिविधं कीर्तितं कलौ | गौडकाश्मीरमार्गेण षड्विधं तच्च वै भवेत् || ३० || आषोडशादनूढायाः पुष्पमुत्तममीरितम् | बलात्कारेण * * पुष्पं मध्यममीरितम् || ३१ || रजोयोगेन जातायाः कनिष्ठं कीर्तितं प्रिये | काश्मीराख्यक्रमे देवि शृणु पुष्पक्रमं च || ३२ || आषोडशादभुक्तायाः पुष्पमुत्तममीरितम् | बलात्कारेण * * पुष्पं मध्यमीरितम् || ३३ || रजोयोगेन स्वेच्छायाः कनिष्ठं परिकीर्तितम् | पुष्पत्रयमिदं प्रोक्तं त्रिषु लोकेषु दुर्लभम् || ३४ || प्रति * * * पुष्पमनङ्गगन्धसंज्ञकम् | रहस्यातिरहस्यं च न वक्तव्यं कदाचन || ३५ || गोपनीयं गोपनीयं गोपनीयं पुनः शिवे | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ३६ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यग्रतारासंवादे क्रममालाविनिर्णयो नाम त्रिंशतिः पटलः || ३० || एकत्रिंशतिः पटलः | श्रीदेव्युवाच | दशक्रमः शक्तयश्च त्वयोक्ताः परमेश्वर | तत्क्रमाणां फलं देव कियत्कालेन जायते || १ || तत्सर्वं देवदेवेश पुरा रूपा क्रिया कथम् (?) | श्रीशिव उवाच | शृणु देवि प्रवक्ष्यामि रहस्यं तव सन्निधौ || २ || अष्टम्यां च चतुर्दश्यां पक्षयोरुभयो रपि | नीलसाधनकं कर्म सर्वथा कारयेच्छिवे || ३ || प्रत्यहं क्रियतां देवि तदभावे महाष्टमी | सत्ये च दशवर्षेण त्रेतायां हायनेन च || ४ || द्वापरे तद्द्विमासेन ह्यहोरात्रं कलौ युगे | सिद्धिर्भवति देवेशि नीलमार्गे विशेषतः || ५ || सम्पूर्णदिवसं त्यक्त्वा रात्रौ याममपश्चिमम् | अंत्य यामं च सन्त्यज्य मध्ययामद्वयम् || ६ || तन्मध्ये तुर्यनाडीषु कालिका वरदा भवेत् | सोपानषोडशयुते नानाभूतगणैर्युते || ७ || नवसोपानतन्मध्ये सप्तमेन समाकुले | तत्र स्थिता महाकाली परिवारगणैः सह || ८ || साधकाकाक्ष्यहृदया वह्निवेतालसंयुता | श्रीमतोत्तरतंत्रोक्त कवचावरणैर्युता || ९ || कलावस्थैः समायुक्ता स्वयं याति ततः परम् | महानील क्रमे देवि सङ्खयां शृणु महेश्वरि || १० || सत्ये विंशतिवर्षेण त्रेतायां हायनद्वये | द्वापरे मासषट्कैस्तु कलौ मासद्वयोत्तरम् || ११ || अनेनैव क्रमेणैव छिन्नमस्ताविधिः स्मृता | एतावद्धि विशेषोऽस्ति शक्तिसङ्गः सदा स्मृतः || १२ || गन्धर्वाख्यक्रमे संख्यां शृणु यत्नेन पार्वति | शतं विंशतिदिग्वेदसप्तमारभ्य पार्वति || १३ || प्. १२५) वीरसाधनकं कर्म चतुर्मन्त्रैः समाचरेत् | स्पुष्पाख्यक्रमे सङ्खयां शृणु यत्नेन पार्वति || १४ || ऋषिवेदवह्नियामयोगमार्गेण सिद्द्यति | महाचीनक्रमे सङ्ख्यां शृणु यत्नेन पार्वति || १५ || षट्त्रिंशद्दशवेदाख्यषट्त्रिंशद्दिवसैः शिवे | सत्यादिकलिपर्यन्तं महाराजक्रमं शृणु || १६ || अशीतिषष्टिषड्विश सप्तवर्षक्रमेण च | सत्यादिकलिपर्यन्तं ब्रह्मभावक्रमं शृणु || १७ || सहस्रं शतकन्यूनं षष्टिवर्षेण पार्वति | कलार्चनक्रमे देवि सङ्खयां शृणु प्रत्यत्नतः || १८ || सहस्रं षट्शतं वेदशतं षोडशहायनम् | सत्यक्रमाच्च कल्यन्तं धूम्रभावं शृणु प्रिये || १९ || दिक्सहस्रं षट्सहस्रं सहस्रं पञ्चविंशतिः | ब्रह्माभावे महेशानि कलौ च वत्सरत्रयं || २० || दशवर्षं मासषट्कं देवता वरदा भवेत् | प्रत्यक्षदर्शने देवि संख्या प्रोक्ता मया तव || २१ || सिद्धमन्त्रे महेशानि पूर्वयोगेन सिध्यति | पूर्वक्रमो महेशानि मन्त्रमात्रे प्रकीर्तितः || २२ || पूर्वक्रमेण देवेशि दुष्टमन्त्रोऽपि सिध्यति | रहस्यातिरहस्यं च गोपनीयं स्वयोनिवत् || २३ || गोपनात् सिद्धिमाप्नोति नात्र कार्या विचारणा | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || २४ || इति श्रीशक्तिसङ्गमतन्त्रराजे द्वितीयखण्डे श्रीमदक्षोग्रतारासंवादे क्रमफलकथनं नामैकत्रिंशतिः पटलः || ३१ || द्वात्रिंशतिः पटलः | श्रीदेव्युवाच | पूर्वं संसूचितं नाथ मुद्रासङ्केतकं तथा | किं त्वया गोपितं स्वामिन् कथयस्व ममाधुना || १ || श्रीशिव उचा | रहस्यातिरहस्यं च सारात् सारतरं शिवे | कथयामि तव प्रीत्या रहस्यं गोपयेत् प्रिये || २ || केरलश्चैव काश्मीरो गौडश्चैव तृतीयकः | सम्प्रदायत्रयं प्रोक्तं प्रत्येकं विविधं भवेत् || ३ || शुद्धगुप्तोग्रभेदेन नवधा परिकीर्तितम् | दिव्यसिद्धमानवौघो दक्षिणामूर्तिशङ्करः || ४ || आनन्दभैरवः कालश्चाति कालक्रमेण च | आनन्दभैरवमते पञ्चाशीति गुरुक्रमः || ५ || दक्षिणामूर्तिंसमत्या भेदत्रितयमेव च | दशविद्याक्रमेणैव दश भेदाः पुरोदिताः || ६ || परतो शिवनिर्वाणं षट्शाम्भवक्रमेण च | कादिहादिक्रमेणैव रश्मिपुंशक्तिभेदतः || ७ || षट्सहस्रं वेद शतं चतुःषष्टिः प्रकीर्तितः | प्रकृतौ विद्यमानायां विकृतिर्न बलीयसी || ८ || सम्प्रदायत्रयं देवि प्रकृतिस्थानगोचरम् | तत्त्वमुद्रा मकाराख्या भेदेन त्रितयं भवेत् || ९ || दुग्धे वृन्ताककं देवि सूरणं दुग्धमांसकम् | कुमारी पञ्चपञ्चत्वमक्षरान्ते प्रकीर्तितम् || १० || * * * * सम्पूज्य न विकारं समाचरेत् | बालायां तरुणायां च बालां सम्पूज्य पञ्चमम् || ११ || मद्यं मांसं तथा मत्स्यं मुद्रां मैथुनमेव च | मकारपञ्चकं प्रोक्तं देवताप्रीतिकारकम् || १२ || गुडार्द्रकरसो देवि मुद्रा तु प्रथमा मता | पिण्याकं लवणं देवि द्वितीया परिकीर्तिता || १३ || लशुनं तित्तिडी चैव तृतीया परिकीर्तिता | सूर्यमण्डलसंकाशा चन्द्रमण्डलसन्निभा || १४ || प्. १२७) गोधूममाषसम्भूता सुन्दरी च चतुर्थिका | शक्त्यालापः पञ्चमी स्यात्पञ्चमुद्राः प्रकीर्तिताः || १५ || श्रीदेव्युवाच | मुद्रा नाम तु किं जातं तत्त्वं किन्नामकं भवेत् | मकाराः किस्वरूपाश्च सर्वं कथय शङ्कर || १६ || श्रीशिव उवाच | रहस्यं कथ्यते देवि शृणु यत्नेन साम्प्रतम् | महादेव्या यथा प्रोक्तं तद्रूपं ब्रूयते यथा || १७ || तद्रूपधारणान्मुद्रा तद्रूपाद्विकृतिर्भवेत् | विना मार्गं महेशानि गतिश्चैव कथं भवेत् || १८ || मार्गप्रदर्शनाद्देवि गतिः सर्वत्र दृश्यते | तन्मार्गदर्शनार्थं हि मकाराः पञ्च कीर्तिताः || १९ || ज्ञात्वा फलमवाप्नोति नात्र कार्या विचारणा | ब्रह्मा विष्णुश्च रुद्रश्च सदाशिवः || २० || एते पञ्च मकाराश्च पञ्च नामप्रकारकाः | आत्मविद्या शिवा सर्वा पूर्णेति पञ्चमं विदुः || २१ || पञ्च तत्त्वानि देवेशि केरले कीर्तितानि च | पञ्च मुद्रानामधरा स्यात्यानन्दो वच्मि संशृणु || २२ || ब्राह्मी च वैष्णवी रौद्री ईश्वरी श्री सदाशिवा | पञ्च मुद्राः समाख्यातास्तत्त्वमामधराः शिवे || २३ || सन्तर्प्य कुण्डलीं शक्तिं पञ्च मुद्राविधानतः | अलिना पिशितं मीनं मुद्रा मथुनमुत्तमम् || २४ || मकारपञ्चकं यत्र तत्र देवी न संशयः | न मध्यं माधवीमद्यं शक्तिरसोद्भवम् || २५ || सुसुम्ना शङ्खिनी मुद्रा उन्मन्यनुत्तमं रसः | सामरस्यामृतोल्लासं मैथुनं च सदाशिवम् || २६ || महाकुण्डलिनी शक्तिस्तद्योगार्थं महेश्वरि | शक्तिः प्रोक्ता महेशानि न भोगार्थं मयेरिता || २७ || कुण्डलीसामरस्यार्थं स्वयम्भूलिङ्गमीरितम् | एतदभ्यासयोगेन कुण्डलीरसवान् भवेत् || २८ || कुण्डली कीदृशी देव तद्रसः कीदृशो भवेत् | श्रीशिव उवाच | अवाच्यं यद्भवेद्वच्मि तद्रसस्तु यथा भवेत् || २९ || तथा समरसानन्दरसः सङ्कीर्तितो मया | अज्ञानादपि देवेशि भोगवासनयाऽपि च || ३० || फलं संसारजं देवि गर्भरूपेण जाग्रति | ज्ञात्वा फलमवाप्नोति त्रैलोक्यविजयी भवेत् || ३१ || तस्मात्तु पञ्चमी मुद्रा कीर्तिता तु मया तव | संयोगामृतयोगेन कुण्डल्युत्थानकारणात् || ३२ || चान्द्रपात्रे यदा याति तन्मध्ये परिकीर्तितम् | मणिपूरे दशदले सुषुम्नायां यदा गतः || ३३ || तत्करामृतयोगाद्धि द्वितीया परिकीर्तिता | हृत्पद्मद्वादशारे तु शंखिनी कूर्मसंस्थिता || ३४ || सुधासागरक्रीडायां मत्स्यस्तत्र प्रकीर्त्तितः | मुद्रा तृतीया गदिता चतुर्थीं षोडशच्छदे || ३५ || चन्द्रसूर्याग्निसंभिन्ना वर्तुला बिन्दुगर्भिता | भगध्वजाख्यचणकैर्घटिता तु चतुर्थिका || ३६ || पञ्चमुद्रा मया प्रोक्ता मोक्षं भावफलाप्तये | मकारपञ्चकेनैव ज्ञानमेतस्य जायते || ३७ || मकार रूपमार्गो हि कीर्तितस्ते मया तव | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ३८ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मुद्रासङ्केतकं ना द्वात्रिंशतिः पटलः || ३२ || त्रयस्त्रिंशतिः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि पूर्वोक्तं च रहस्यकम् | श्रीशिव उवाच | पञ्चमुद्राख्यसङ्केते मुख्यसङ्केतकं शृणु || १ || पानं पञ्चविधं प्रोक्तं महादिव्यादिभेदतः | महादिव्यं तथा दिव्यं वीरश्चैव महापशुः || २ || पशुबन्धः पशुश्चेति पञ्चधा परिकीर्तितम् | प्राणापानौ समाहारौ प्रत्याहारो मनःस्थिरम् || ३ || भानुमण्डलकं भित्वा इन्दुमण्डलमध्यगम् | सुषुम्नावर्त्मनि नित्यं सुधाधारापकर्षिणी || ४ || दिव्यपानमिदं प्रोक्तं सर्वसिद्धिकरं परम् | महादिव्यमिदं प्रोक्तं शृणु दिव्यं महेश्वरि || ५ || दिव्यं देव्यग्रतः पानमुत्तमं वीरपानकम् | त्यक्तसर्वाशयोन्मूलवासनामल संचयः || ६ || कौलिकाचारयोगेन पञ्चतत्त्वेन तर्पयेत् | षट्चक्रक्रमभेदेन हुनेद्द्रव्यं सममन्त्रकम् || ७ || ध्यानार्चनपरावस्था वीरापानमनुत्तमम् | उद्वासनोत्तरं देवि वीरपानं तदुच्यते || ८ || वीरपानं द्विधा प्रोक्तं पशुपानं शृणु प्रिये | वीरपाने पूर्ववीरः परस्तु पशुरित्यपि || ९ || आसक्तलोलुपो दम्भो मन्त्रार्थे त्वप्रसङ्गतः | कामुकः कामनिर्देशः पशुपानं तदुच्यते || १० || सर्वै कुलीनैः स्थित्वा तु विना पूजां सुगर्वितैः | यत्पानं क्रियते देवेइ पशुपानं तदुच्यते || ११ || अन्योऽपि शृणु देवेशि पशुपानक्रमं शिवे | एकाकी मद्यपानी य एकाकी शक्तिभुक् प्रिये || १२ || माहेश्वरस्य संसर्गं न कदापि करोति चेत् | पशुपानमिदं प्रोक्तं महादारिद्र्यदायकम् || १३ || प्. १३०) विना मन्त्रं विना दीक्षां गुरुमुखात्प्रिये | यत्पानं क्रियते मुखैः पशुपानं विदुर्बुधाः || १४ || पशुस्तु त्रिविधः प्रोक्तः पूर्वेण सह भैरवे | एकाकी पाननिरतः पशुरित्यभिधीयते || १५ || दीक्षितो निन्दको यस्तु द्वितीयः परिकीर्तितः | अदीक्षितः क्रियीनो मन्त्रतन्त्रविवर्जितः || १६ || महापशुरिति प्रोक्तः कौलवामौ शृणु प्रिये | वामं रामा रतियुता बलिपात्रं तु दक्षिणे || १७ || पानपात्रं महेशानि वामहस्तेन तर्पकः | महाकौलो महेशानि भूमौ संस्थाप्य तर्पयेत् || १८ || हस्तद्वयेन चेद्देवि कौल इत्यभिधीयते | वामदक्षव्यत्ययेन वीरकौलः प्रकीर्तितः || १९ || अलिपात्रं वामपाणौ दक्षहस्तेन तर्पयेत् | वामगौडस्तु सम्प्रोक्तश्चतन्याख्यः स एव || २० || भूमौ स्थाप्य महेशानि हस्तयुग्मेन तर्पयेत् | आनन्दाख्यस्तु सम्प्रोक्तो वाम इत्यभिधीयते || २१ || पूजायां देवदेवेशि केरले दक्षहस्ततः | गौडे वामकरेणैव पूजां च तर्पयामि || २२ || तर्पयामि पूजयामि नमश्चैव त्रिभागशः | आदौ मध्ये तथा चान्ते भिन्नं भिन्नं च वा प्रिये || २३ || दक्षेणैव महेशानि केवलं पूजयामि च | तर्पयामि ततः प्रोच्य हृदाद्यन्ते समुच्चरेत् || २४ || एतेऽत्र सम्प्रदायाश्च मया प्रोक्ता महेश्वरि | सिद्धचैतन्यनामा च विलासाख्यस्ततः परम् || २५ || सत्यचैतन्यनामा च सिद्धाख्यश्च तदुत्तरम् | चैतन्यादि विलासी तु सिद्धप्रज्ञाभिधस्ततः || २६ || सिद्धप्रज्ञाभिधश्चैव दिव्यानन्दाभिधस्ततः | सिद्धबोधनन्दसंज्ञो दिव्यचैतन्यसंज्ञिकः || २७ || प्. १३१) सिद्धबोधस्ततः प्रोक्तो दिव्यचैतन्यसंज्ञिकः | दिव्यप्रज्ञाननाथाख्यो दिव्याद्वैतश्च शाश्वती || २८ || शाम्भवाद्वैतनामा च मेधाद्वैताभिधस्ततः | एते षोडश संप्रोक्ताः केवलं तर्पणक्रमात् || २९ || अन्ये भेदा विस्तारेण रहस्ये परिकीर्तिताः | गोपनीयं गोपनीयं स्वयोनिरपरा यथा | इति संक्षेपतः प्रोक्तो मुद्रासङ्केत उत्तमः || ३० || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे श्रीममदस्क्षोभ्यमहोग्रतारासंवादे पानसङ्केतकं नाम त्रयस्त्रिंशतिः पटलः || ३३ || चतुस्त्रिंशतिः पटलः | श्रीदेव्युवाच | विश्वेश श्रोतुमिच्छामि लतासङ्केतमुत्तमम् | श्रीशिव उवाच | लतासङ्केतकं देवि शृणु यत्नेन साम्प्रतम् || १ || मेधादीक्षां विना देवि न लतासाधनं भवेत् | कादिहादिकला नाम लता प्रोक्ता मया तव || २ || बालादि शाम्भवान्तं च मेधापूर्वं प्रकाशिता | श्रीस्पर्शकालीमारभ्य गुह्याम्बान्तं महेश्वरि || ३ || मेधादीक्षा महेशानि कादिहादिमतेऽपि च | सर्वसाम्राज्यमेधा तु द्वयोर्योगे भवेत् प्रिये || ४ || मणिपूराद्बिलान्तं च बालामारभ्य योजयेत् | मणिपूराद्बिलान्तं च स्पर्शमारभ्य योजयेत् || ५ || अथवा देवदेशि संहारसृष्टिमार्गतः | सृष्टिः कादिर्यदा देवि संहृतिगोचरा || ६ || हादिः सृष्टिस्तदा काली संहारान्त क्रमाद् भवेत् | परादि सर्वातीतान्तं ब्रह्म चारभ्य पार्वति || ७ || शान्त्यतीतान्तगं ज्ञात्वा शिवशक्त्या प्रबोधयेत् | अथवा वर्णवेधेन केवलां वेधरूपिणीम् || ८ || चक्षुष्मतः समारभ्य साम्राज्यान्तं समाचरेत् | मेधादिक्षायुक्तानां न च मुण्डनमारितम् || ९ || केशान् संवर्द्धयेद्देवि सर्वदा तैललेपनम् | न श्मश्रून् कृन्तयेद्देवि यावद्वेधः प्रदृश्यते || १० || वाग्वेधः श्रुतिवेधश्च दृष्टिवेधस्तृतीयकः | स्पर्शवेधश्चतुर्थः स्यात्क्रिया वेधस्तु पञ्चमः || ११ || अनुक्रमेण देवेशि जायन्ते साधनक्रमात् | ब्रह्माण्डगोलके या च या काचिज्जगतीतले || १२ || समस्ताः सिद्धयस्तस्य साधकस्य पुरः स्थितः | यस्य वीक्षणमात्रेण जायन्ते साधन क्रमात् || १३ || प्. १३३) स्वयमायाति पुरतो जयादीनां च का कथा | निर्देशवर्तिनो भूत्वा वर्तन्ते चेटका इव || १४ || मनोरथमयी सिद्धिस्तस्य दासी सदा भवेत् | अणिमा खेचरी वीक्षा गुटिका कामरूपिता || १५ || धातुवादश्च वेताला यक्षिण्यश्चिरजीविता | परकायप्रवेशादि चराचरपुरी गतिः || १६ || षष्टिसिद्धीश्वरो भूयान्नात्र कार्या विचारणा | षट्कर्माणि महेशानि वीक्षया सम्भवन्ति च || १७ || यावद्विभूमिका भूयात्तावत्कुर्यान्निरन्तरम् | यदेव भूमिका जाता तदागन्धर्वमार्गतः || १८ || गन्धर्वमार्गाद्देवेशि शिव एव न संशयः | साम्राज्यमेधायुक्तो हि लतासाधनमाचरेत् || १९ || अन्यथा कुरुते यस्तु पातो भविष्यति | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || २० || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे लतासङ्केतकं नाम चतुर्स्त्रिंशतिः पटलः || ३४ || पंचत्रिंशतिः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमुच्छामि लतारूपमथादरात् | श्रीशिव उवाच | लतारूपं महेशानि पूर्वमेव मयेरितम् || १ || सामान्यतः प्रवक्ष्यामि सावधानमना भव | तरुणीं तु सुलावण्यां सुन्दरीं चारुदासिनीम् || २ || चंचलां कञ्जनेत्राश्च षोडशाब्दामपुष्पिताम् | कटाक्षताडिनीं रामां सुगन्धां तनुमोहिनीम् || ३ || ईदृग्विधां समालोक्य सदा तत्सङ्गमाचरेत् | तस्याः संचुंबनं कार्यमविकारेण चेतसा || ४ || नारीं निवीक्ष्य यत्नेन अविकारी नरो यदि | विकारे जायमाने तु साधको नश्यति ध्रुवम् || ५ || सर्वदा तु निवीक्ष्यैनां तद्योगं शृणु सत्वरम् | चरणान्मूलपर्यन्तं पीत्वा पीत्वा पुनः पिबेत् || ६ || तस्या नखशिखा ज्योत्स्नाखण्डितान्तस्तमो भवेत् | कमठी कर्पराकारा प्रपदाञ्चितशोभया || ७ || स्निग्धान्तःकरणो वीरो निर्विकल्पः सदा भवेत् | सुवृत्तजानुना चारु जङ्घोरुजघनाश्रयैः || ८ || नाभौ रोमावली वक्षःस्थलैः पीनपयोधरौ | ग्रीवानयनपर्यन्तं केशाग्रैः प्रवरस्थितैः || ९ || यावन्मधुमदापूर्णौ निस्सीमैर्भावलोकितैः | स्निग्धेन्द्रियश्च सन्तुष्टश्चतुर्वर्गसमन्वितः || १० || निवृत्तिकाले च पुनर्भावपूर्णामृतैर्निजम् | मुखं बिन्दुवदाकारं समारभ्य महेश्वरि || ११ || साधकोत्तम इत्युक्तः श्लोकानां च चतुष्टयम् | ध्यात्वा स्पृष्ट्वाऽथवा दृष्ट्वा एतत्कामकलान्वितः || १२ || क्षणं तत्र विमृश्यैतज्जयते भावसञ्चयः | कुलेषु तत्कलारूपमङ्गले परिवर्त्य च || १३ || प्. १३५) कुले सञ्जायते यत्नात्कथं तत्कथयामि ते | कुले साक्षाद्यतस्तत्त्वं स्वयं चिन्तिततत्त्वतः || १४ || तेन तत्कुलशास्त्रज्ञैः पूजनीयं प्रयत्नतः | कुलदेवी चात्मदेवी निश्चला यस्य वर्तते || १५ || स धन्यः पुरुषो लोके निश्चलोदय एव सः | यत्कुले कुलदीक्षा तु तस्मात्साऽपि स एव हि || १६ || अदीक्षितकुलासङ्गात्सिद्धिहानिः प्रजायते | तत्कथाश्रवणं चेत्स्यात्तत्तल्पगमनं || १७ || स कुलीनः कथं देवि स कथं मम पूजकः | गन्धरूपानुरूपेण नाम कुर्यान्निजेच्छया || १८ || मातृपितृकृतं नाम वर्जनीयं प्रयत्नतः | परयोषाधिका ज्ञेया निजस्त्री प्रीतिवर्धनी || १९ || आगते स्वागतं कुर्याल्लीलायोगान्निजेच्छया | तस्मादुत्थाय हस्ताग्रे धृत्वा संवेशयेत्ततः || २० || वामभागे समासीनां सुवर्णां कामरूपिणीम् | ध्यात्वा कामकलां तत्र बिन्द्वादिपूर्णविग्रहः || २१ || केशविन्यासतिलकहारकेयूरयावकम् | सर्वकलाविधानादौ कुलद्रव्याणि योजयेत् || २२ || हेतुयुक्तं सताम्बूलं दत्त्वा भुक्त्वा तु साधकः | पश्येत् कुलपथं तस्या लौकिकालौकादिकम् || २३ || स्वयं चोद्भवपुष्पाणि कीर्तितानि कुलादिषु | न करोति कुलाभिज्ञः शिवोऽपि नश्यति ध्रुवम् || २४ || दृष्ट्वा दोषादिकं तत्र स्नेहादपि न शिक्षयेत् | भाषयेन्न कटूक्त्या वै कृते तु निष्फलं भवेत् || २५ || कुलशास्त्ररहस्यं तु कुलमूलं यतः प्रिये | वरं कुलमत त्यागो वरं कुलगुरोरपि || २६ || न त्यागं पापं स्वकुलं दृष्टदोषादपि प्रिये | कुलवृक्षस्थितः सोऽहं स्वकुलं पोषयाम्यहम् || २७ || तेन सर्वप्रयत्नेन रक्षणीयञ्च यत्नतः | स्वकुले कुलबाहुल्यं यदि स्याद्भाग्ययोगतः || २८ || प्. १३६) समरूपं विधातव्यं वैपरीत्यं त्यजेद्बुधः | पृथक् ध्यानं पृथक् स्थानं पृथक् पूजा पृथक् स्तुतिः || २९ || न कर्तव्या प्रयत्नेन किमेतैर्बहुजल्पितैः | कुले तिष्ठामि देवेशि नात्र कार्या विचारणा || ३० || तासां विश्वासघातेन तद्देशश्चैव नश्यति | प्रमोदादमृताख्यानं ममस्यान्नात्र संशयः || ३१ || कुलजाहं महायुद्धे वीरास्फालनिनादिनी | न दोषमात्रमिच्छामि पातयामि यतो जगत् || ३२ || सौन्दर्यपतिविद्वेषः कटूक्तिः कलहादिकम् | नीचानां गमनः चैव न चैव न वै तत्र वसाम्यहम् || ३३ || ब्रह्माण्डभाण्डसम्भेदात्तेन जीवेत्स सिद्धियुक् | विना कुलेन संसिद्धिर्न कुत्रापि प्रविद्यते || ३४ || कुलालापानुसन्धायी कुलरूपं विचित्य च | विहरेद्दिवसे चैव रात्रावाकृष्टितत्परः || ३५ || आनीय योषितः सर्वाः जात्यष्टकसमुद्भवाः | गंधानुक्रमणादेव नामं कुर्यान्महेश्वरि || ३६ || एकजातिभवा वापि स्वरूपं पूर्वमीरितम् | तन्मन्त्रं तत्र संयोज्य तेनैव पूजनं चरेत् || ३७ || शुद्धपुष्पैश्च नैवेद्यैर्लवणैर्मधुसंयुतैः | पूजयित्वा यथापूर्वं साधयेन्निजसाधनम् || ३८ || तत्पुष्पेणैव नैवेद्यैस्तां कालीं परिपूजयेत् | त्रिपुरानामिकां देवि रक्तं पुष्पेण पूजएत् || ३९ || गुणैः पूर्वोदितैर्युक्ता नाना वा एकजातयः | रूपगन्धसमायुक्ता नामतः पूर्वमीरितम् || ४० || एवं कृत्वा तु बहुधा दृष्टादृष्टविभेदतः | विशेषो ह्यत्र देवेशि किमन्यद्बहुजल्पितैः || ४१ || माययाच्छाद्य आत्मानं निजस्त्रीरूपधारिणी | आगत्य * * * देवि तेनैव दृश्यते ध्रुवम् || ४२ || तस्मात्स्वदेशेनैवैतत् कर्तव्यं सिद्धिकांक्षया | किं वा कामविलोपार्थं यतितव्यं सुरेश्वरि || ४३ || प्. १३७) कर्मदण्डं समादाय शिवसाम्यं विधाय च | तद्गात्रं चक्रसूत्रेण वेष्टनं सप्तधा कृते || ४४ || पाशस्त्वं सर्वभूतानां रक्षणाय स्वयम्भुवा | निर्मितोऽसि महाभाग दृढबन्धं विधीयताम् || ४५ || एवमामन्त्र्य तत्सूत्रं शिवाङ्गं सर्पवेष्टितम् | जपेदशांशमासाद्य स्वीयमन्त्रं ततो जपेत् || ४६ || संहारस्वप्रबोधिन्या पुटितं प्रणवत्रयम् | सुप्तमन्त्रः समाख्यातः श्वापदः सर्वजन्तुषु || ४७ || एवं कृत्वा स्वयं देवो महेशाधिक एव च | कुले यदि स्याद्योगस्य चापल्यः स्मरलोलुपः || ४८ || तदा रक्षा विधातव्या न कार्या कर्हिचिद्बुधैः | वरांगे शृणु मद्वाक्यमावयोः शुभहेतुकम् || ४९ || एतत्कार्यं समासाद्य कर्तव्यं तव चेष्टितम् | एवमुक्त्वा निजं कार्यं विधाय साधकोत्तमैः || ५० || प्रवर्तनं न कर्तव्यं कुलयोगं महेश्वरि | वीरपत्नीं वीरकन्या वीरांगनवरांगना || ५१ || नाकृष्य साधकैः कार्यं यावत्स्यान्मनसः स्थिति | मनःक्षोभे तत्र जाते मूलयोगेन यत्फलम् || ५२ || तत्फलं जायते देवि सत्यं सत्यं न चान्यथा | वीरपत्नी तु परमा स्वयमेव महेश्वरि || ५३ || सा स्मृता कुलविद्यानामाद्या चैव पुरातनी | तद्वधूः परमेशानि सर्वमन्त्रप्रबोधिनी || ५४ || न्यायतोऽन्यायतो वापि गुरुपत्नी गुरुर्यदि | वीक्षणादेव देवेशि सर्वार्थसाधको भवेत् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ५५ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे लतारूपकथनं नाम पञ्चत्रिंशतिः पटलः || ३५ || षट्त्रिंशतिः पटलः | श्रीदेव्युवाच | शङ्कर श्रीमहादेव निशापूजां वद प्रभो | श्रीशिव उवाच | निशापूजा प्रकर्तव्या हेतुयुक्तः सदैव हि || १ || निजं कुलं समादाय स्वयं भैरवरूपधृक् | कुलं च भैरवीरूपं तद्गात्रे न्यासविस्तरम् || २ || विन्यस्य सकलन्यासं नवयोन्यात्मकं तथा | प्रसूनतुलिकामध्ये पुष्पप्रकरसङ्कुले || ३ || नानागन्धसमाकीर्णे कुलद्रव्येण यन्त्रकम् | लिखित्वा पूजयेच्छङ्खे घटस्थापनपूर्वकम् || ४ || स्ववामभागे षट्कोणं तन्मध्ये ब्रह्मरन्ध्रकम् | लिखित्वा तत्र कुम्भं च सौवर्णं राजतं तथा || ५ || ताम्रभूमिमयं वापि यद्वा लोहविवर्जितम् | स्थापयेत्कलया देवि कुम्भे गन्धसुवासितम् || ६ || हेतुद्रव्यं ब्रह्मणादिभेदतः परिपूजयेत् | तत्र मन्त्रं विलिख्यादौ द्यत्कुलसमुद्भवम् || ७ || ध्यात्वेष्टदेवतां तत्र जपेदष्टोत्तरं शतम् | धेनुमुद्रां प्रदर्श्याथ अमृतं तद्विचिन्तयेत् || ८ || दृष्ट्वार्घ्यपात्रं नृत्यन्ति भैरवा मातरो गणाः | इन्द्रादयः सुरा सर्वे नृत्यन्ति मधुलोलुपाः || ९ || ब्रह्मविष्णुमहेशाद्या नृत्यन्ति हर्षतत्पराः | अर्घ्यभाण्डं द्विधा कृत्वा गुरवे चैकभागकम् || १० || एकं गुरुं समादाय एकेन देवतर्पणम् | पीत्वा कुलरसं देवि नानालङ्कारभूषितम् || ११ || साक्षाद्यदि गुरुर्न स्यात्तदा तोये विसर्जयेत् | आनन्दरूपवान् भूत्वा पूजयेत्परमेश्वरी || १२ || स्वस्वकल्पोक्तविधिना तत्तद्यन्त्रे प्रपूजयेत् | विसर्जनं विधायाथ मन्त्रं वै प्रजपेत्ततः || १३ || तद्धि स्वरसमानेन अमृतं भुज्यते मया | तच्चकोररसास्वादैः सम्यक् रसः प्रजायते || १४ || प्. १३९) तत्फलग्रहणादेव सुमेरोः शृङ्गरोहणं | लतालिङ्गनमात्रेण सुधाधौतकलेश्वरः || १५ || मूलयोगे कृते तत्र जपेद्दश सहस्रकम् | जपपूतं हविर्द्रव्यं गृहीत्वा तर्पयेत्ततः || १६ || विधाय तर्पणं देवि प्रदक्षिणमनुवजन् | प्रणम्य स्तुत्वा कल्पोक्तस्तवेन तोषयेत्ततः || १७ || तस्मात्कुलं तथा योग्यं कृत्वा यत्नेन सञ्जपेत् | कुलं शक्तिः समाख्याता तस्याः पूजादि कथ्यते || १८ || कुलाचारः स विज्ञेयो देवानामपि दुर्लभः | कुलीनो जायते यस्मात्तत्कथं कथयामि ते || १९ || कुले साक्षाद्यतस्तत्त्वं स्वयं तिष्ठति तत्त्वतः | मद्यं मांसं तथा मुद्रां मैथुनमेव च || २० || एभिरेव कृता पूजा कुलाचारः प्रकीर्तितः | तेन तत्कुलशास्त्रज्ञैः पूजनीयः प्रयत्नतः || २१ || कुलं चात्मकुलं वापि निश्चलं यस्य वर्तते | स धन्यः स च विज्ञानी कुलरूपः स एव च || २२ || कुलदीक्षा यतुकुले स्यात्स शिवः परिकीर्तितः | यथा काली तथा तारा यथा श्रीभैरवी तथा || २३ || समपूजादिकं सर्वं प्रयोगं भावलक्षणम् | वेदशास्त्रपुराणानि स्पष्टा वेश्याङ्गना इव || २४ || इयं तु शाम्भवी विद्या गुप्ता कुलवधूरिव | सुगुप्तं कौलिकाचारमनुगृह्णन्ति देवताः || २५ || वाञ्छासिद्धिं प्रयच्छन्ति नाशयन्ति प्रकाशने | अनाचारान्मधुपान् चक्रस्थान् शक्तिकौलिकान् || २६ || शिवगौरीधिया देवि भावयेन्नावमानयेत् | कुलाचार गृहं गत्वा भक्त्या पापविशुद्धये || २७ || याचयेदमृतं चान्नं तदभावे जलं पिबेत् | कुलाचारेण यद्द्रव्यं सर्वं दत्तं तु भक्तितः || २८ || नमस्कृत्य तु गृह्नीयादन्यथा नरकं व्रजेत् | पूर्वोक्तं देवदेवेशि न सिद्धं स्यात्स्त्रियं विना || २९ || प्. १४०) स्त्रीसमीप प्रदेशो हि कामरूपाधिकस्तव | श्रीदेव्युवाच | पुरश्चरणलक्षैर्वा होमानामपि कोटिभिः || ३० || कोटिहोम दक्षिणाभिस्तस्मात्पूजनविस्तरैः | न च सिद्धिं समायाति वनितासन्निधिं विना || ३१ || वनितासु सदा नाथ निवसामि निरन्तरम् | वाराणसी कामरूपं जालन्धरमथापि वा || ३२ || अथवान्यानि पीठानि शाम्भवाख्यानि शङ्कर | षट्चक्रं षोडशाधारं त्रितयं व्योमपञ्चकम् || ३३ || कुलचक्रे महादेव सर्वं नित्यं प्रतिष्ठति | इतोऽपि किं महत्पुण्यं वक्तुं शक्नोमि शङ्कर || ३४ || कदाचिद्वनिता वापि वनिता वत सन्निधिम् | विग्रहे नैव शक्नोमि देही देहं यथा प्रभो || ३५ || यादृशी तादृशी वापि व्याधिदारिद्र्यपीडिता | विरूपा वा सुरूपा वा वतिता मम विग्रहा || ३६ || मयी स्याद्या दृशी भक्तिः साधकानां निरन्तरम् | नूनं मेतादृशी कुर्याद्योषिन्मात्रेऽपि साधकः || ३७ || या नारी रूपसम्पन्ना सुदृशा गन्धशालिनी | मम तस्याः परिज्ञेया शेषा तु शक्तिरीश्वरी || ३८ || बालां वा यौवनोन्मत्तां वृद्धां वा सुन्दरी तथा | कुत्सितां वा महादुष्टां नमस्कृत्य विभावयेत् || ३९ || सर्वावस्थासु देवेशि योनिवन्धा तु साधकैः || ४० || साक्षाद्वा मनसा वापि नारी पूज्यैव दर्शनात् | कदाचन कटूक्त्या तु साम्भाव्या वनिता जनैः || ४१ || स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव हि भूषणम् | तद्धस्तरर्चितं भोज्यं तद्धस्तरचितं जलम् || ४२ || तद्धस्तरचितं पुष्पं देवताभ्यो निवेदयेत् | तत्सङ्गिना सदा भाव्यमन्यथा स्वस्त्रियामपि || ४३ || * * र्देया न कुत्रापि साधकेन वधूः क्वचित् | प्रत्यक्षदृष्टदोषेपि स्वस्त्रियो वा परस्त्रियः || ४४ || प्. १४१) सकृदपि न वक्तव्यो निन्दयेन्मनसापि न | पूर्ववद्ध्यवहर्तव्या सर्वदा साधकेन सा || ४५ || मम निन्दा मम द्वेषो मम हिंसा ममार्दनः | गुरुनिन्दा गुरुद्वेषो गुरुहिंसा तथैव च || ४६ || साधकेन वरं कार्यं वनिता नैव निन्दयेत् | परं पूजां न कुर्वीत वरं बलिं परित्यजेत् || ४७ || कुलाचारं कुलद्रव्यं कुपंक्ति वरं त्यजेत् | तथापि नैव योषाणां निन्दायां मानसं चरेत् || ४८ || किमिहोक्तेन बहुना वरं त्याज्यो भवन्मनुः | तथापि नैव कर्तव्यं वनितानिन्दनादिकम् || ४९ || मातृवत्पूजयेन्नित्यं मातृवद्भावयेत्सदा | साधकप्राणदानेन प्रीतिः स्याद्यदि कामिनी || ५० || प्राणान् दत्त्वापि कर्तव्या सुप्रीतिरनपायिनी | स्वयं देहं समुत्सृज्य मोक्षमाप्नोति शाश्वतम् || ५१ || स्त्रीद्वेषो नैव कर्तव्यो विशेषात् पूजनं स्त्रियः | स्त्रियं गच्छन् स्पृशन् पश्यन् विशेषात्कुलजां शुभाम् | नारीं सम्पूजयेन्नित्यमुपभोगं न का कारयेत् || ५२ || इति श्रीसक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे निशापूजाकथनं नाम षट्त्रिंशतिः पटलः || ३६ || सप्तत्रिंशतिः पटलः | श्रीशिव उवाच | शृणु देवि वरारोहे रहस्यं महदद्भुतम् | विना पूजां स्त्रियो * * सङ्गमे साधकोत्तमः || १ || सप्तजन्मदरिद्रत्वं नरके कोटिकल्पशः | ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः || २ || एतत्पापकृतो दोषो जायते नात्र संशयः | वीरो वाऽप्यथा दिव्यो न बुद्ध्वा नरके व्रजेत् || ३ || गुरुपूजाकृतिविधौ विद्योच्चारणकर्म तत् | रहस्याख्यं कर्णकूपे दंशनं गण्ड * * || ४ || भूतशुद्धिपरिरम्भो संभावेन्द्रियनिग्रहः | प्राणायामस्तवा कृष्टिः न्यासस्तस्याः समाहितः || ५ || परस्परावलोकश्च ध्यानकर्म प्रकीर्तितम् | नखदन्त * * दीनि धूपदीपप्रतापनम् || ६ || तत्तत्तत्त्वविश्षोश्च प्रेम मुद्रा प्रकीर्त्तिता | पूजनं गायनं स्तुत्यम् * * * विसर्जनम् || ७ || ज्ञति प्रोक्तं महेशानि रहस्यमपरं शृणु | सत्यमेतद्विना * * * सङ्गान्मन्त्रो न सिध्यति || ८ || सङ्ग एव हि कर्तव्यः कर्तव्यं न च * * * | पूजनीया सदा योषामद्भाव कृतनिश्चयः || ९ || तस्यां तु * * * देवि कर्तव्यं मम साधकैः | मम भावस्वरूपा सा मत्स्वरूपा महं च सा || १० || यदि न * * देवि सा कथं भवतारिता | भरता दृढपापेन सदृशो जायते नरः || ११ || मद्भावप्रतिपन्नापि अधिकारी न * * * | यादृशी तु दृढे ज्ञाने मद्भावैकपरायणा || १२ || कदाचित्पतितां वापि कदाचिद्वापि पूतताम् | कदाचित् गुरुतां याति कदाचिदपि शिष्यताम् || १३ || प्. १४३) इदृशं सर्वदा ज्ञानं निश्चयं यस्य योषितः | स विष्णुः स शिवः साक्षात् स योग्यः सर्वकर्मसु || १४ || श्रीदेव्युवाच | अहं हि जगतां धात्री जननी जन्मकारणम् | सद्भावप्रतिपन्ना या साऽहमेव सुनिश्चितम् || १५ || कर्तव्या * * * नैव तस्या मनोविकारणा | मोहाद्वा गुरुमौढ्याद्वा यदा यत्कुरुते सुधीः || १६ || वीरो वाऽप्यथवा दिव्यो अबुद्ध्वा नरकं व्रजेत् | गुरुपत्नीम् द्विजपत्नी पितृपत्नीं प्रपूजयेत् || १७ || * * * नरकं यावत् तावत्कोटिगुणं भवेत् | पापासम्भवमापन्ना नारी सर्वमयी ही सा || १८ || अहं च रोषसम्पन्ना नाशयामि तमीश्वर | छिन्नशिरः शिरा तस्य द्वेषं पश्येद्भिया तपेत् || १९ || भया हतोऽपि पापात्मा प्राप्नोति नरकं महत् | अथवा.पि चिरञ्जीवेन्महादुर्गतिदुर्गतिम् || २० || निरन्तरं रोग पीडा जायते तस्य पापिनः | कदाचन शिरःपीडा कदाचित्तु गुरुज्वरः || २१ || कदाचित् गात्र्सन्तापः कदाचित्कर्णपीडनम् | कदाचिदपि कण्डूः स्यात्कदाचित्तु विचर्चिकाम् || २२ || अनालोक्यं च बाधिर्यं खञ्जता तथा | अन्येऽपि विविधा रोगाः कुष्ठाद्याः प्रभवन्ति हि || २३ || चक्षुर्नाशः श्रुतिच्छेदो नासाच्छेदस्तथैव च | करच्छेदः पादच्छेदः शिरश्छेदोऽपि जायते || २४ || पशुपीडा राजपीडा वह्निपीडाऽपि जायते | कुलं तस्मात्तु दोषेण भ्रियते नात्र संशयः || २५ || प्रार्थनामपि कुर्वाणो न लभेदन्नमुष्टिकम् | मूलाहारः फलाहारः पत्राहारो जलाशनः || २६ || प्रायशो जायते पीडा तपःफलविवर्जितः | तस्य स्यादसकृद्बन्धुद्रोहो भृत्याश्च तस्कराः || २७ || प्. १४४) स्वगोत्रकलहो नित्यं स्वगोत्रहिंसनं सदा | सुहृद्भिः क्रियते द्वेषो रिपुणा बध्यते स तु || २८ || स्वयोषाऽपि विषं दद्यान्मित्रं वा सेवकोऽथवा | औषधं च भवेत्तस्य महाहालाहले प्रभो || २९ || हितं पथ्यं सुहृद्वाक्यं न कदाचन रोचते | हिता न वदनात्तस्य क्वचिद्वाणी बहिर्भवेत् || ३० || चारूक्ता बन्धुजा वाणी विपरीतेव जायते | तदाज्ञाकारिणो न स्युः सुहृद्भृत्यादयस्तथा || ३१ || एकादशगृहस्थो हि ग्रहः पीडयते ध्रुवम् | अन्यथा सिद्धिमापन्ना मन्त्राः स्युर्हतसिद्धयः || ३२ || एते ते कथिता दोषा योषि * * * सम्भवाः | अधिकारविहीनानां अधिकारयुतेन हि || ३३ || ईश्वर उवाच | अधिकारी भवेत्कीदृक् देवेशि भवदर्चने | कथं स्यादधिकारश्च प्रागभ्यासप्रवर्तनम् || ३४ || महान्ममैव सन्देहो वर्द्धते जगदीश्वरि | तदेव श्रोतुमिच्छामि सन्देहं छेदय प्रिये || ३५ || ममानुग्रहतो देवि तदेतद्वक्तुमर्हसि | श्रीदेव्युवाच | शृणु देव प्रवक्ष्यामि गुह्यात् गुह्यतरं महत् || ३६ || गोपितं सर्वतन्त्रेषु न देय यस्य कस्यचित् | अहमेव परं ज्ञानमहमेव परा गतिः || ३७ || अहमेव परं ध्यानमहमेव परा श्रुतिः | मत्तः परतरं विश्वे न किञ्चिदवलोकयेत् || ३८ || अहमेव जगत्सर्वं जगदेवाहमीश्वर | मद्भावनावितानां हि भवद्वैतादृशी शिव || ३९ || एवं ज्ञानविशिष्टः स्यादधिकारी भवेच्छिव | ब्रह्माविष्णुमहेशादिसर्वदेवमयो हि सः || ४० || जायमानस्य बालस्य * * * * | सम्पर्केण विकारो हि न यथा जायते क्वचित् || ४१ || साधकस्य तथा यस्य मतिः स्यादविकारिणी | सोऽधिकारी भवेन्नित्यं यागादौ सह योषिता || ४२ || प्. १४५) मद्भावप्रतिपन्ना या मत्स्वरूपाऽहमेव सा | विकारो नहि योषायां तस्यामर्पित एव हि || ४३ || एवं यस्य स्थिता बुद्धिः सोधिकारी न संशयः | भ्रातु * * परित्यज्य सर्व * * विचारयेत् || ४४ || सङ्गमे साधकश्रेष्ठः शिववत् क्रीडते भुवि | प्रथमन्यासकाले तु यावद्धैर्यं न जायते || ४५ || तावत्कामविलोपार्थं यतितव्यं प्रयत्नतः | कामभावविलोपार्थं सङ्गं कृत्वैव * * * || ४६ || साधयेन्सर्वकार्याणि यावज्ज्ञानं न जायते | ततो ज्ञाने समुत्पन्ने स्वच्छन्दं विहरेत् पुमान् || ४७ || एवं कर्तुमशक्तसु नाधिकारी कथञ्चन | कुर्याज्जपं तथा होमं तर्पणं मार्जनं तथा || ४८ || द्विजानां भोजनं चैव योषित्सङ्गविवर्जितः | साधकस्य भवेद्यस्तु यत्स्वरूपेष्टदेवता || ४९ || तद्वर्णसमतेजोभिः पूर्णं भुवनमण्डलम् | भावनाभिः स्थिरीकृत्य देवताध्यानतत्परः || ५० || यथास्वरूपवर्णादि चिन्तयेद्यतमानसः | एवं यस्य मनो नास्ति तस्य प्रतिनिधिः स्मृतः || ५१ || कुमार्यामेव कर्त्तव्यं न * * * कदाचन | यतः स्या * * योग्यामविकाराय कल्प्यते || ५२ || न प्रयोगादिकं क्वापि गृहस्थो निजयोषितः | कुमारी भोजनादेव कुमारीपूजनादपि || ५३ || कुमारीचिन्तनादेव त्रैलोक्यविजयी भवेत् | इति संक्षेपतः प्रोक्तं गौडानां वीरयोषिताम् || ५४ || श्रीशिव उवाच | शृणु यत्नेन देवेशि रहस्यातिरहस्यकम् | विना मद्येन मांसेन पुंश्चलीसेवनं विना || ५५ || न मन्त्रसिद्धिमाप्नोति चन्द्रसौरक्रमार्चिते | अलिना पूरितं पात्रं बलिना पूरितो अलिः || ५६ || प्. १४६) अलिं बलिं च रामाञ्च किन्न सिध्यति भूतले | विशेषं शृणु देवेशि पूजाप्रकरणं तथा || ५७ || विजया सर्वदा प्रोक्ता ताम्रपात्रे पयस्तथा | मधुमिश्रा तु विजया गौडब्राह्मणकर्मणि || ५८ || * * * नन्तरं सिर्द्धिमधुपानैर्विशेषतः | नृत्यगीतादिभिः सर्वैर्गुरुशुश्रूषणैस्तथा || ५९ || अष्टम्यां च चतुर्दश्यां नवम्यां सङ्क्रमे तथा | अमायां देवदेवेशि भौमे शुक्रग्रहत्रये || ६० || काली तारा स्थिता तत्र पूजनाद्वरदायिनी | स्वशक्त्या सर्वदा पूज्यानन्तरा पञ्चपर्वणि || ६१ || नो चेन्मांसेन सम्पूज्यानन्तरा वत्सरो यदि | अगम्यागमनं चैव तथाऽभक्ष्यस्य भक्षणम् || ६२ || सकृदुच्चारितो मन्त्रो दहत्यग्निरिवेन्धनम् | पैष्टी गौडी तथा माध्वी तालखर्जूरसम्भवा || ६३ || नारिकेली तथा द्राक्षी पूगी चान्यैरुपस्कृता | पैष्टी शूद्रस्य माध्वी च क्षत्रियस्य तथा द्वयम् || ६४ || पैष्ट्यादि सर्वं शूद्रस्य ब्राह्मणस्य न पिष्टजा | ब्राह्मणेणैव दातव्या विना माध्वीं कथञ्चन || ६५ || अथान्येषु प्रकारेषु नाधिकारो द्विजन्मनाम् | अथवा कुलमध्येन पूजयेत्कुलसुन्दरीम् || ३६ || योगिभिः पीयते मद्यं न मद्यं द्विजपिङ्गवैः | न सद्यं पानयोग्यं स्यान्न मद्यं गुडमिश्रितम् || ६७ || अशक्तद्विज जातीनां विधिं शृणु प्रयत्नतः | ब्राह्मणस्ताम्रपात्रे तु मधु मद्यं प्रकल्पयेत् || ६८ || अनुकल्पस्त्वशक्तानां नान्यथा पातकी भवेत् | नो चेत्सिद्धिकरी देवि प्रजप्तैरपि कोटिभिः || ६९ || पुरश्चरणलक्षैश्च होमानामपि कोटिभिः | ताम्बूलेन विना यस्तु कालिकां दशधा जपेत् || ७० || इह क्षोभमवाप्नोति परत्र नरकं व्रजेत् | ताम्बूलं * * चक्रञ्च मुण्डमाला शवासनम् || ७१ || प्. १४७) सिन्दूरं खड्गकं चैव संविदासवयो रसः | एतान्विहाय यः कश्चित्काली साधितुमुद्यतः || ७२ || इह क्षोभमवाप्नोति परत्र नरकं वजेत् | कोट्यर्बुदयुगैर्देवि नहि सिध्यति तारिणी || ७३ || चिन्मयेऽयं निगदिता महाकालाय वै पुरा | कालिकामनुजापी तु स्पृशेत्पातकिनं यदि || ७४ || स तु संस्पर्शमात्रेण ससिद्धिश्वरो भवेत् | गद्यपद्यमयी वाणी भवेद्रक्षापरम्परा || ७५ || जायते देवदेवेशि काव्यकर्ता क्षणेन तु | अतीतानागतं ज्ञानं वर्तमानं च पश्यति || ७६ || तस्मा * * र्मुख्यभूता सर्वसिद्धिप्रदर्शिनी | * * चक्रं समालोच्य यत्किञ्चित्कुरुते नरः || ७७ || तत्तदक्षप्यमायाति छिन्नविद्याप्रसादतः | कालीं विहाय यः कश्चित् सिद्धिमिच्छति कामुकः || ७८ || स चक्षुषा विना रूपं दर्पणे द्रष्टुमिच्छति | शक्तिं विहाय यः कश्चित् कालिकां द्रष्टुमिच्छति || ७९ || स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति | कालीविद्या सिद्धविद्या महाविद्या प्रकीर्तिता || ८० || इयं विद्या त्रिधा देवि जप्यते स्मर्यतेऽथवा | तदैव सिद्धिदा तस्य सा चान्यस्य वरप्रदा || ८१ || तस्याः सकाशान्मन्त्रोऽयं ब्राह्यो यत्नेन पार्वति | पाणौ विचिन्त्य जप्तव्यः सिद्धिर्दिवसमात्रतः || ८२ || कृष्णाष्टम्यां चतुर्दश्यां मङ्गले वासरे निशि | कृष्णपक्षे विशेषेण कारयेत्सर्वदा गृहे || ८३ || मृदुचूडकयो * * कोमले विष्टरेऽपि च | एकलिङ्गे शून्यदेशे शून्यगेहे जलार्णवे || ८४ || श्मशाने कुलवृक्षे तु शवमुण्डे रणाजिरे | स्वयम्भूकुसुमं वापि अथवा * * जं च वा || ८५ || एतेषु कालिका देवि स्वय तिष्ठति निश्चितम् | एतान् स्थानात् शुभान् विद्धि महाकौलवरप्रदान् || ८६ || प्. १४८) श्मशानं तु समाश्रित्य यः यश्चित्कालिकां जपेत् | तस्य काली प्रसन्नाऽस्ति नात्र कार्या विचारणा || ८७ || * * शवे श्मशाने वा कालिकां दशधा जपेत् | तस्य काली प्रसन्नाऽस्ति नात्र कार्या विचारणा || ८८ || मुनिदिननरमुण्डं साधनार्हं सुशस्तम् शशिदिननवमुण्डं दैवतं नोत्तमं च | हुतवहदिनमुण्डं मालिकाद्येषु शस्तम् तपनदिनसुमुण्डं मध्यमं कार्यपात्रे || ८९ || हायनायनमासैश्च कलामुत्पत्तिचन्द्रमा (?) | साध्यादि क्रमतो सायं दिक्पात्रं परमेश्वरि || ९० || एवं सर्वं तु विज्ञाय मुण्डं लक्षणपूर्वकम् | साध्यं सिद्धं सुसिद्धं च सुसिद्धेयं तथैव च || ९१ || वीरं च दैवतं दिव्यं क्रमेण परिकीर्तितम् | इति संक्षेपतः प्रोक्तं शृण्वेतत्साधनं शुभम् || ९२ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे शक्तिसङ्गमरहस्यकथनं नाम सप्तत्रिंशतिः पटलः || ३७ || अष्टात्रिंशतिः पटलः | श्रीशिव उवाच | यः कश्चित् कुरुते वीरसाधनं सुसमाहितः | स प्राप्नोति परां सिद्धिं देवैरपि सुदुर्लभाम् || १ || तस्मात् सर्वप्रयत्नेन कर्त्तव्यं सुसमाहितैः | मञ्जुघोषे चीनमार्गे स्नाननत्यादिकं शृणु || २ || जानुभ्यामवनीं धृत्वा शिरसा स्पृश्य भेदिनीम् | उत्थाय नमनं कुर्यात् स्थित्वा वा परमेश्वरि || ३ || एष एव नमस्कारश्छिन्नमस्ताविधौ शिवे | मणिबन्धादधः पाणिः पादो गुल्फादधः || ४ || मुखं प्रकाल्य मन्त्रेण स्नानं छिन्नाविधौ स्मृतम् | साधनायामिदं स्नानं कर्त्तव्यमादिकारणम् || ५ || कथ्यते चैव वेदोक्तं नहि ध्यानमनुत्तमम् | भैरवेन पुरा प्रोक्तं सर्वसिद्धिकरं परम् || ६ || तस्मात् सर्वप्रयत्नेन कर्तव्या वीरसाधना | न स्यात् परतरं किञ्चित् विद्यते शीघ्रसिद्धिदम् || ७ || चितासाधनयोगेन मृतकारोहणेन वा | मृदुकोमलयोर्वाऽपि चूडकाचूडकेऽपि वा || ८ || * * त्वचि त्रिमुण्डे वा पञ्चमुण्डेऽथवा प्रिये | साधनेयं महेशानि एतेषु परिकीर्तितम् || ९ || श्रीविद्यायां कालिकायां तारिण्यां भैरवी मनौ | चण्डके बगलायाञ्च साधनेयं प्रकीर्तिता || १० || वज्रोदके समारभ्य स्वरक्षान्तं महेश्वरि | रुदसंख्याऽत्र मनवो मञ्जुघोषेति पार्वति || ११ || एतज्ज्ञात्वा महेशानि विशेषज्ञानमाचरेत् | ज्ञात्वा स्वगुरुवक्त्रात्तु मन्त्राचारकुलक्रमात् || १२ || वीरसाधनमात्रेण सर्वसिद्धिर्भवेद्ध्रुवम् | सम्पाद्य सामिषान्नं तु स्वगेहे बलिमाहरेत् || १३ || मधुमांसं गुडमांसं महिषच्छागकुञ्जरैः | ततो बलिप्रयोगार्थं पिष्टं पुष्पाद्यनेकधा || १४ || प्. १५०) गोदुग्धसंप्लुतं सर्वं कृत्वा यामोर्द्धतः शिवे | सार्धयामोत्तरं देवि परितः सकृदेव च || १५ || शस्त्रपाणिर्निभयश्च चितास्थानं विशेषतः | अन्यानवेक्षकान् दूरे स्थाप्य निर्भयमानसः || १६ || महावीरोरुचित्तश्च जितक्रोधो जितेन्द्रियः | महाबलो दयालुश्च रक्षकोऽयं नरो भवेत् || १७ || चितावरुणदिग्भागे चोपविश्य महेश्वरि | प्राङ्मुखोद्ङ्मुखो वापि यथोक्ताचमनं चरेत् || १८ || दत्त्वा मूलबलिं चादौ श्रीकरालस्य सम्मते | ये के चात्र स्थिता देवा राक्षसाश्च भयानकाः || १९ || ते प्रयच्छन्तु मां सिद्धिं ममत्वेनानुकम्पया | मन्त्रेणानेन तान् दत्वा षट्पात्रेषु बलिं हरेत् || २० || एकैकेन च संस्थाप्य देयं यत्नेन पार्वति | चतुःपात्रं चतुर्द्वारे उदगारभ्य पार्वति || २१ || प्रदक्षिणक्रमेणैव पश्चिमान्तं महेश्वरि | बलिं दद्याद्यथोक्तेन दुग्धेनोत्सर्गमाचरेत् || २२ || गोदुग्धेन विशेषेण उत्सर्गं तं समाचरेत् | ओं ह्रां श्मशानेति जंभायेमं बलिं हरेत् || २३ || गृह्ण गृह्णापयद्वन्द्वं सर्वविघ्ननिवारणम् | कृत्वा बलिं प्रयच्छेति द्वन्द्वं स्वाहा ततो बलिः || २४ || श्मशानजम्मदेवाय बलिं दत्त्वा प्रयत्नतः | ओं ह्रीं भैरवभयानकेति श्मशानाधिप इत्यपि || २५ || सामिषादि पूर्ववत्स्यात् स्वाहान्तो बलिरीरितः | ओं हूं स्मशानदेवेति इममित्यादि पूर्ववत् || २६ || ओं ह्रीं महाकाल श्माशानधिप इत्यपि | इममित्यादि देवेशि पूर्ववत्तु समुच्चरेत् || २७ || ओं ह्रूं कालपदं प्रोच्य भैरवेति स्मशान वै | साधनाधिपमुच्चार्य इममित्यादि पूर्ववत् || २८ || प्रणवं कूर्वबीजं च स्मशानवासिनीति च | महाभीमे महाघोर स्वने च गृहाण वै || २९ || प्. १५१) इमं बलिं मातर्देहि सिद्धिमनुत्तमा वदेत् | ह्रीं कालिका वह्निजाया इममित्यादि पूर्ववत् || ३० || महाकालसमीपे तु ततश्छागबलिद्वयम् | ततो यथोक्तविधिना दिक्पालेभ्यो बलिं चरेत् || ३१ || स्वस्वविद्याङ्गदेवेभ्यो बलिं दत्त्वा प्रयत्नतः | यथोक्तेन विधानेन प्राणायामं समाचरेत् || ३२ || षडङ्गाद्यं पूर्ववत्स्यात्स्वेष्टदेवं विचिन्त्य च | अव्यग्रचित्तः प्रजपेन्निर्भयः साधकोत्तमः || ३३ || एकाक्षरे दिक्सहस्रं द्व्यक्षरे वसुसंख्यकम् | सहस्रं देवदेवेशि त्र्यक्षरे नियुतार्द्धकम् || ३४ || अष्टोत्तरसहस्रं च महामन्त्रे प्रकीर्तितम् | देवता यदि प्रत्यक्षा तदैव जपमुत्सृजेत् || ३५ || देवतापूजनं कृत्वा यदा देहीति भाषते | देववाणी तु सा देवि तदा छागबलिं हरेत् || ३६ || तदभावे महेशानि गुडपायसयोर्बलिः | वरं गृहीत्वा देवेशि सुखेन विहरेद्भुवि || ३७ || अत्रैव मृतके देवि पञ्चवर्षमिते शिवे | इयञ्च साधना कार्या महावीरमतोदिता || ३८ || सार्धयामोत्तरं रात्रौ मृतकस्थल संगतः | चतुष्पथे नदीतीरे श्मशाने वापि पार्वति || ३९ || अधोमुखं तु तं कृत्वा तदाऽवाहनकृन्मनुः | मायाबीजेन यजनं हूंबीजेनोपवेशनम् || ४० || तस्योपरि महेशानि पूर्वोक्तमण्डलाष्टकम् | देवीपूजादिकं कृत्वा ततो बल्यादिकं चरेत् || ४१ || नीलक्रमेण कर्तव्यं दिक्सहस्त्रं जपं चरेत् | मन्त्रमात्रे महेशानि जपान्ते देवता वरा || ४२ || प्रत्यक्षे सति देवेशि ततश्छागबलिं हरेत् | देहीति भाषेत द्वंद्वं वरं गृह्य द्विधा वदेत् || ४३ || संस्कृतं वक्ति या चाग्रे सा देवी कीर्तिता मया | वीरार्गलाघोरयोश्च चक्रपाशुपतौ तथा || ४४ || जयदुर्गान्तं देवेशि पञ्चमन्त्राः प्रकीर्तिताः | सिद्ध वीरक्रमो देवि मन्त्रषट्के प्रकीर्तितः || ४५ || प्. १५२) गणेशे क्रूरमन्त्रे च क्रमोऽयं परिकीर्तितः | नीलक्रमो वा देवेशि महाचीनक्रमश्च वा || ४६ || गन्धर्वाख्यक्रमो वापि सौभाग्यार्चनकोऽपि वा | क्रममेतत्पुरस्कृत्य त्रैलोक्यविजयी भवेत् || ४७ || महानीलक्रमे स्नानं मुखं प्रक्षाल्य यत्नतः | कण्ठाधः स्नानमासाद्य मस्तके मार्जनं चरेत् || ४८ || वीरस्नानमिदं प्रोक्तं वीराणां सिद्धिदायकम् | वीरगुरोर्महाविद्यां प्राप्य कालानलप्रभाम् || ४९ || वीरजापं च देवेशि तेन सिद्धीश्वरो भवेत् | दिव्यगुरोर्महाविद्यां कालीं कादम्बरीनिभाम् || ५० || दिवाजापेन सिद्धिः स्यान्नात्र कार्या विचारणा | पशुगुरोर्महाविद्यां महाकालाभ्रसन्निभाम् || ५१ || पशुजापेन देवेशि कलौ सिध्यति वा न वा | रहस्यातिरहस्यञ्च मयोक्तं गोप्यतां शिवे | इति संक्षेपतः प्रोक्तं मालाभेदं शृणु प्रिये || ५२ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे वीरसाधनं नामाष्टात्रिंशतिः पटलः || ३८ || एकोनचत्वारिंशतिः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् | मुण्डासनमिदं ब्रूहि यद्यहं तव वल्लभा || १ || श्रीशिव उवाच | रहस्यातिरहस्यं च तव स्नेहात्प्रकाश्यते | चन्द्रत्रिपञ्चमुण्डानि वसुरन्ध्राभिधानि च || २ || दशमुण्डानि देवेशि रुद्रमुण्डानि पर्वति | दिक्विदिक्क्रयोगेन कीलान्यारोप्य साधयेत् || ३ || महामुण्डं मध्यभागे परितो मुण्डसञ्चयः | कालरात्रिदिने देवि वीररात्रिदिने तथा || ४ || मोहरात्रिदिने देवि शिवरात्रिदिने तथा | अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि || ५ || मुण्डसाधनकं कृत्वा मालापात्रादिकं चरेत् | यन्त्रं वा कारयेद्देवि त्रैलोक्याधिपतिर्भवेत् || ६ || अचूडकप्रकारेण वीरासनक्रमेण च | मृतासनक्रमेणापि साधयेद्वीरसाधनम् || ७ || मृद्वासनं पूर्वभागे चूडकं दक्षिणे भवेत् | कोमलं पश्चिमे प्रोक्तं मुण्डमुत्तरगोचरम् || ८ || वीरासनं मध्यभागे जप्त्वा त्रैलोक्यनायकः | एकवीरं त्रिवीरं वा पञ्चाष्टनववीरकम् || ९ || दशवीरं रुद्रवीरमासनाय प्रकल्पयेत् | मुण्डपक्षेऽपि देवेशि मध्ये वीरं महोत्तमम् || १० || मृद्वादिमध्ययोगेन साधनाभेदभाजनम् | श्मशानं वा चिता शस्ता चास्थिभूम्यासनं तथा || ११ || योनित्वगासनं देवि दशाहमृतकासनम् | एवं क्रमेण देवेशि आसनानि बहूनि च || १२ || एषामेकतमं कृत्वा कालीं तारां प्रसाधयेत् | एकान्ते शून्यसदने पर्वते विपिने वने || १३ || प्रान्तरे शिवशून्ये च मातृगेहे सरित्तटे | एकलिङ्गे शून्यदेशे श्मशाने रणमण्डले || १४ || प्. १५४) कुलवृक्षे एकवृक्षे यद्वा चित्राङ्किते स्थले | गङ्गागर्भे चतुर्मार्गे त्रिपथे देवतालये || १५ || वेश्यालये वा देवेशि साधयेद्वीरसागरम् | कीलान्यारोप्य यत्नेन दिक्पालेभ्यो बलिं क्षिपेत् || १६ || शूलस्थाने स्वयं गत्वा वीरवेषो महोत्तमः | संविद्दुग्धं बलिरव्यं पञ्चगव्यं रसं तथा || १७ || खड्गं गृहीत्वा देवेशि स्वयं कर्त्तनमाचरेत् | तत्र स्थित्वा जपं कृत्वा त्रैलोक्यं साधयेत्ततः || १८ || इति संक्षेप्तः प्रोक्तं किमन्यद्बहुजल्पितैः | श्रीदेव्युवाच | देवेश श्रोतुमुच्छामि रहस्यं पूर्वसूचितम् || १९ || श्रीशिव उवाच | रहस्यातिरहस्यं च कथ्यते शृणु साम्प्रतम् | शैवे शाक्ते गाणपत्ये चान्द्रे सौरे तथार्हते || २० || वैष्णवे वेदिके देवि नैवेद्यविनियोजनम् | स्वर्णरत्नानि चान्यानि नानावस्त्राणि पार्वति || २१ || अनेकरससम्भोगं गुरवे विनिवेदयेत् | गुरुपुत्राय तत्पत्न्यै तत्सुतायै निवेदयेत् || २२ || ब्राह्मणाय प्रदातव्यमभावे तु जले क्षिपेत् | कूपेऽरण्ये गुहामध्ये तडागे वा क्षिपेत्प्रिये || २३ || महादेवस्य नैवेद्यं निर्माल्यत्वं प्रगच्छति | भक्तायामृतरूपो हि नैवेद्यः परिकीर्तितः || २४ || अन्येषां चैव नैवेद्यं भक्षयेद्दापयेत्तथा | शालिग्रामे बाणलिङ्गे नैवेद्या नैव दूष्यति || २५ || बलिद्रव्याणि देवेशि द्विधा भिन्नानि कारयेत् | प्रयोगकाले देवेशि ब्राह्मणान्पूजयेद्व्रती || २६ || तावत्कापि न तन्तव्यं यावत्सिद्धिर्न जायते | आरम्भान्तं समाप्याऽथ प्रायश्चित्तं ततश्चरेत् || २७ || अङ्गाङ्गिभावमासाद्य सर्वं संसाधयेद्व्रती | कार्यमध्ये पुनः कार्यमङ्गाङ्गित्वं भवेच्छिवे || २८ || प्. १५५) पूर्वपीठं पुरा ज्ञात्वा विघ्नानुत्सार्य यत्नतः | कार्याणि साधयेद्देवि चान्यथा नारकी भवेत् || २९ || कार्यान्तरे समारब्धे तत्र कार्यं न वै भवेत् | न्यायाधिकरणं ज्ञात्वा पीठिकाज्ञानपूर्वकम् || ३० || अङ्गाङ्गित्वं पुरा ज्ञात्वा सर्वकार्याणि साधयेत् | न हि कर्मणि कर्मणामारम्भस्तु क्वचिद् भवेत् || ३१ || कर्मणामपि चारम्भस्त्वङ्गाङ्गित्वाद्भविष्यति | कार्ये जातेऽपि देवेशि सन्ध्यापूति समाचरेत् || ३२ || संकल्पबाधको भूयादन्यथा परमेश्वरि | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ३३ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मुण्डासनकथनं नामैकोनचत्वारिंशतिः पटलः || ३९ || चत्वारिंशतिः पटलः | श्रीशिव उवाच | अथ मालाविधानं च कथ्यते शृणु पार्वति | माला बहुविधा प्रोक्ता महाशङ्खदिभेदतः || १ || महाशङ्खमयी माला दन्तमाला स्वयम्भुजा | वर्णमाला तथा देवि सर्वकार्यार्थसाधिनी || २ || वर्णमाला त्रिधा प्रोक्ता तत्क्रमं शृणु पार्वति | पञ्चाशन्मणिभिर्माला पञ्चाशद्वर्णयोगतः || ३ || एतद्द्वयं समुद्धृत्य ह्यनुलोमविलोमतः | माला शतमयी प्रोक्ता सर्वकार्यप्रदायिका || ४ || अकचटतपयशास्त्वष्टवर्गाः प्रकीर्तिताः | अष्टवर्गं प्रकल्प्याथ त्वष्टोत्तरशती भवेत् || ५ || अष्टोत्तरशती माला सर्वकार्यार्थसिद्धिदा | गुरोः पञ्च गणेशस्य त्रयं च परिकीर्तितम् || ६ || शेषमिष्टाय सन्दद्यात्तेन सिद्धीश्वरो भवेत् | त्रयं गुरौ त्रयं देवि गाणपे परिकीर्तितम् || ७ || न्यूनातिरिक्ते द्वितयं शेषमिष्टाय योजयेत् | अष्टोत्तरशती माला कथिता तव वल्लभे || ८ || अनुलोमविलोमेन मातृकार्णं शतं भवेत् | मायावाक्कामश्रीयोगात् मातृकावर्णयोगतः || ९ || अनुलोमविलोमेन त्वष्टोत्तरशतं भवेत् | मायाद्याद्यन्तसम्भेदात् पराबीजं नियोजयेत् || १० || माला पञ्चविधा प्रोक्ता सर्वसिद्धिप्रदायका | सप्तकीलितसंरुद्धाः छिन्ना व्याकीर्णयोनयः || ११ || धनिवैरी व्ययी हनिः काणखञ्जादयोऽपि च | तेऽपि सिद्धा भवन्त्येव नात्र कार्या विचारणा || १२ || महाशङ्खमयी माला तथा दन्ताख्यमालिका | न देया यस्य कस्यापि गोप्या तु मातृजारवत् || १३ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मालाविधानं नाम चत्वारिंशतिः पटलः || ४० || एकचत्वारिंशतिः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमुच्छामि मालाग्रथननिर्णयम् | कया कश्च प्रजाप्तव्यो न जप्तव्यश्च को मनुः || १ || सर्वं कथय देवेश यद्यहं तव वल्लभा | श्रीशिव उवाच | ध्रुवेण ग्रथनं कार्यं प्रत्येकं मणिकाक्रमात् || २ || सर्वमन्त्रमयी माला सर्वसिद्धिकरी परा | तन्मन्त्रे देवतारूपं ध्यात्वा तु मालिकान्तरे || ३ || सर्वे मन्त्राः प्रजप्तव्याः सर्वकार्यार्थसिद्धये | अथवा मातृकाभिश्च ग्रथनं कारयेत् प्रिये || ४ || पञ्चाशन्मणिभिर्माला क्षकारो मेरुसज्ञिकः | अनुलोमविलोमेन माला शतमयी भवेत् || ५ || अष्टवर्गे प्रकल्पाथ माला त्वष्टोत्तरं शतम् | मातृकामालया जापः सर्वत्रैव प्रशस्यते || ६ || रुद्राक्षस्फाटिकादीन् वै समानीय प्रयत्नतः | ग्रथनं मातृकाभिश्च कारयेद्यत्नतः शिवे || ७ || सर्वदेवमयी माला द्रुतसिद्धिकरी परा | तत्तन्मन्त्रमयीं देवीं तत्र ध्यात्वा जपक्षणी || ८ || जपं कुर्यात्प्रयत्नेन नात्र कार्या विचारणा | सर्वसिद्धिप्रदा माला सर्वकार्यकरी परा || ९ || शक्तिमन्त्रेण संग्रथ्य शिवमन्त्रं जपेच्छिवे | शिवमन्त्रेण संग्रथ्य शक्तिमन्त्रं जपेच्छिवे || १० || शिवशक्तयोरभेदेन माला कार्यकरी परा | दन्ताख्यं चैव मुण्डाख्यं मत्स्यस्यापि मणिं प्रिये || ११ || नाड्या संग्रथनं कार्यं त्रिशक्तिमालिका मता | काली तारा तथा छिन्ना स्वरूपा मालिका परा || १२ || सर्वसिद्धिपरा भूमिः सर्वदेवमयी परा | ये नैव ग्रथ्यते देवि तमेव प्रजपेन्मनुम् || १३ || प्. १५८) इत्युक्तं च मया पूर्वं किं त्वया विस्मृतं प्रिये | इदानीमन्यथा प्रोक्तं संशयोऽस्ति मम प्रिये || १४ || मातृकातारभिन्नानां शिवशक्तिविहीनके | मालिकायामिदं नोक्तमन्यमालाविधौ मतम् || १५ || अन्यप्रकारग्रथने येनैव ग्रथने चरेत् | तमेव प्रजपेन्मन्त्रं येनैव ग्रथनं चरेत् || १६ || मातृकादावपि शिवे मालां तन्मन्त्ररूपिणीम् | ध्यात्वा जीवं प्रविन्यस्य नान्यथा सिद्धिरोधकृत् || १७ || इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि | श्रीदेव्युवाच | देवेश श्रोतुमुच्छामि रहस्यं परमाद्भुतम् || १८ || मालारहस्यं परमं कथयस्व महेश्वर | श्रीशिव उवाच | पूर्वोक्तानां मणीनाञ्च त्वभावे परमेश्वरि || १९ || गन्धरूपाश्च मणयो दन्तस्फाटिकसम्भवाः | मणयो यत्नतः कार्याः सर्वसिद्धिमभीप्सुभिः || २० || मुण्डाभावे नारिकेलैर्मुण्डाधो मणयश्च वा | गजहारिणखड्गाख्यस्वर्णसाम्बर शृङ्गजाः || २१ || रौप्यजास्ताम्रजाः कांस्यसीसनागमयाश्च वै | मुण्डरूपाश्च मणयः सर्वसिद्धिमयाः स्मृता || २२ || अथ विद्यामयी देवि मालिका कार्यसाधिनी | वैडूर्यनीलकाचाख्या मणयः सर्वकार्यदाः || २३ || बीजकीलकशक्तीनां मणयोद्रुतसिद्धिदाः | कुल्लुकामालिका देवि विद्या वश्यकरी स्मृता || २४ || बीजाद्या वीर्यसंसिद्ध्यै कीलैष्कीलने स्मृता | शक्तियुक्ता सर्वसिद्ध्यै जीवमात्रास्थिमुण्डधृक् || २५ || अस्थिमुण्डमयी माला शिवरूपप्रदायिनी | तदाकारविशिष्टा या तत्तत्कार्यकरीष्टदा || २६ || प्. १५९) ताराकालीमयी माला ताराछिन्नामयी परा | कालीछिन्नामयी वा या त्रितयं मुण्डबीजजा || २७ || सर्वसिद्धिपरा भूमिरनिरुद्धसरस्वती | रत्नमात्रमयी माला रत्नमात्र समुद्भवा || २८ || रक्तचन्दनमुण्डोत्था तथाष्टगन्धमुण्डजा | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || २९ || श्रीदेव्युवाच | मातृकावर्णरूपा च माला संसूचिता वद | श्रीशिव उवाच | रहस्यमपि वक्ष्यामि वर्णबीजस्वरूपतः || ३० || मातृकावर्णरूपां च मालिकां कारयेच्छिवे | जप्तस्तेन प्रकर्तव्यः सर्वदेवस्वरूपिणी || ३१ || सौवर्णताम्रतारोत्था खड्गोत्था गजदन्तजा | रत्नजा स्फाटिकोत्था वा मातृका वर्णमालिका || ३२ || स्वर्णमाला सर्वसिद्ध्य रौप्यजा सकेलष्टदा | ताम्रमाला सर्वशान्त्यै खड्गजा पितृमोक्षदा || ३३ || गजदन्तमयी माला सिद्धिदा बिल्वजार्थदा | अर्कवक्षभवा पूर्वा शत्रोरुच्चाटकर्मणि || ३४ || एवं सम्पाद्य मालां तु जपेद्देवे समर्पयेत् | देवस्य प्रतिमायन्त्रं दिव्यचक्रं विशेषतः || ३५ || पूजिते प्रतिमायन्त्रे धारणीयं द्वयं शिवे | रत्नाढ्यमङ्गुलौ धार्यं स्वर्णरत्नमयं हृदि || ३६ || मुद्रारूपं हाररूपं कृत्वा यत्नेन धारयेत् | सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा || ३७ || तत्रोपचारदेवानां नामानि शृणु पार्वति | अन्नस्य देवता लक्ष्मीर्वैष्णवे तु प्रजापतिः || ३८ || सुवर्णं वह्निदैवत्यं रजतं चन्द्रदैवतम् | हीरकं वारुणं ज्ञेयं रसानां पृथिवी स्मृता || ३९ || प्. १६०) जलस्य वरुणो देवो वीर्याणां वारुणेश्वरी | कृशरस्य रमा देवी परमान्नस्य कालिका || ४० || घृतदीपे महाविष्णुस्तलदीपे वनस्पतिः | गन्धर्वश्च तथा धूपे घृतं सूर्याग्निदैवतम् || ४१ || मधु वै वारुणं ज्ञेयं दधिक्षीरं महेश्वरः | वनस्पत्यं महापुष्पं वैष्णवो गन्धर्हरितः || ४२ || मालायाञ्च तथा दुर्गा सर्वं देवीमयं च वा | प्रतिमां पूजयेत् ज्ञात्वा नान्यथा सिद्धिरोधकृत् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ४३ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मालाग्रथनं नामैकचत्वारिंशतिः पटलः || ४१ || द्वाचत्वारिंशतिः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि येन देवीमयो भवेत् | ईश्वर उवाच | रहस्यातिरहस्यं च कथ्यते शृणु साम्प्रतम् || १ || दशविद्याक्रमेणैव पञ्चायतनमार्गतः | तथा दर्शनमार्गेण पूजनं सिद्धिदं कलौ || २ || तत्तद्देवस्यायुधानि तन्मुद्राबीजदर्शणम् | कर्तव्यं यत्नतो देवि तदाचारपरो भवेत् || ३ || सर्वतोभद्रपीठं च देवीपीठं प्रकीर्तितम् | एकाब्जं योगिनीपात्रे पञ्चाब्जं क्षेत्रपालके || ४ || नवाब्जं गाणपे प्रोक्तं बटुके लिङ्गचिह्नितम् | पञ्चधा मण्डलान्यत्र पूजापीठे महेश्वरि || ५ || कालिकां वा तथा मायां बिन्दुचन्द्रविभूषिताम् | एकाक्षरीं स्पर्शमणिं भालदेशे लिखेच्छिवे || ६ || तारातनौ बिन्दुमायां चन्द्रेण परिभूषिताम् | एकाक्षरीं स्पर्शमणिं भालदेशे लिखेच्छिवे || ७ || छिन्नाक्रोधो बिन्दुचन्द्रभूषितैकाक्षरी भवेत् | त्रिपिष्टपहरौ मायां बिन्दुचन्द्रेण भूषिताम् || ८ || एकाक्षरीं स्पर्शमणिं भालदेशे लिखेत्सदा | काली तारा तथा छिन्ना त्रितयं विलिखेच्च वा || ९ || द्वयमेकं च वा लेख्यं तेन तद्रूपभाग्भवेत् | लक्ंईहरौ बिन्दुमायाकलाभूषितमस्तकौ || १० || एकाक्षरीं स्पर्शमणिं भालदेशे लिखेत्सदा | सौः सुन्दरीं स्पर्शविद्यां भालदेशे लिखेत्सदा || ११ || ऐं भैरवीं स्पर्शमणिं भालदेशे लिखेत्सदा | धू/ धूम्राख्यां स्पर्शविद्यां भालदेशे लिखेत्सदा || १२ || व्लू/ स्पर्शाख्यां वसोर्धारां भालदेशे लिखेत्सदा | द्रीमाकर्षकरीं विद्यां भालदेशे लिखेत्सदा || १३ || प्. १६२) आ/ सम्पत्करणीं विद्यां ह्री/ वश्यकारिणीम् कलाम् | अमाकर्षकरीं विद्यां भालदेशे लिखेत्सदा || १४ || ह्री/ स्तम्भनकरीं विद्यां भालदेशे लिखेत्सदा | ह्सौपरां षोडशीं विद्यां भालदेशे लिखेत्सदा || १५ || अन्यमन्त्रविधौ देवि बीजशक्तिं च वा लिखेत् | काली तारा छिन्नमस्ता सुन्दरी बगलामुखी || १६ || पञ्चविद्याविधौ देवि दीक्षाहीनो गुरुर्यदि | पूर्णाभिषेकिनं वीक्ष्य पुनर्दीक्षां समाचरेत् || १७ || ऊर्ध्वाम्नायैश्च सम्पन्नः प्राप्यते चेत्प्रियंवदे | पुनर्दीक्षां चरेद्देवि पूर्णरूपोऽपि पार्वति || १८ || निर्वाणदीक्षिते प्राप्ते दीक्षणं सर्वथा चरेत् | षट्शाम्भवसमायुक्तः प्राप्यते निर्गुणैरपि || १९ || शाम्भवं दीक्षणं कृत्वा शम्भुरूपो नरोऽन्यथा | दरिद्रो विकलो भूयान्नात्र कार्या विचारणा || २० || मेधादीक्षासमायुक्तः कलौ दुर्लभ एव च | मेधादीक्षासमायुक्तः प्राप्यते वा न वा प्रिये || २१ || मेधादीक्षासमायुक्तं शिवात्परतरो मतः | सम्राण्मेधासमायुक्तः कालीतारामयो ध्रुवम् || २२ || दिव्यसाम्राज्यसंयुक्तो ब्रह्मरूपः सनातनः | प्राप्यते चेन्महाभाग्यं साधकस्यात्र निश्चितम् || २३ || दिव्यमेधान्तसंयुक्तो यस्मिन्देशे विराजते | स देशः कालिकातुल्यस्तारा तत्रैव तिष्ठति || २४ || तत्सकाशद्दिक्सणं चेत्किं तपस्याफले शिवे | न वक्तुं शक्यते देवि शिवो जानाति नान्यथा || २५ || गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || २६ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासम्वादे पूजासिद्धिकथनं नाम द्वाचत्वारिंशतिः पटलः || ४२ || त्रयश्चत्वारिंशति पटलः || श्रीदेव्युवाच | देवदेव उमाकान्त प्राणात्प्राणतर प्रभो | त्वया संसूचितं पूर्व विद्यानां सिद्धिनिर्णयम् || १ || तन्मे कथय देवेश यद्यहं तव वल्लभा | श्रीशिव उवाच | सारात्सारतरं देवि रहस्यमपि गोपितम् || २ || तव प्रीत्या महेशानि कथ्यते शृणु साम्प्रतम् | काली तारा छिन्नमस्ता वीरसाधनमार्गतः || ३ || याममात्रेण सिध्यन्ति नात्र कार्या विचारणा | साधनारहिते देवि वर्णलक्षद्वये शिवे || ४ || कालिका सिद्धिदा प्रोक्ता तारा श्रीशैवतत्त्वके | छिन्नमस्ता चतुःषष्टिलक्षजापेन सिध्यति || ५ || चतुरशीतिलक्सैस्तु सुन्दरी सिद्धिदा क्वचित् | बाला कोट्यर्धजापेन बगला पञ्चसप्ततिः || ६ || श्रीमहाराजमातङ्गी वर्णलक्षैस्तु सिध्यति | सिद्धविद्या महेशानि मासलक्षेण सिध्यति || ७ || महालक्ष्मीश्च भुवना तथा धूमावती प्रिये | विद्यागुणनयोगेन सिध्यन्त्येव न चान्यथा || ८ || विद्यानाम(?) महेशानि विद्यानामार्णयोगतः | मातृकार्णकृतेनैव गुणानां भाजनं चरेत् || ९ || तावल्लक्षैर्महेशानि सिध्यात्येव न चान्यथा | भैरवस्य तु योगेन शावरं सिद्धिदायकम् || १० || निर्मित नवनाथैस्तु आदिनाथस्तु भैरवः | दशविद्याक्रमे देवि दशधा फलमीरितम् || ११ || एको मनुश्चेत्संसिद्धस्तदा सर्वेऽपि सिद्धिदाः | षट्पञ्चाशद्देशभेदैः शावरे भेदभाजनम् || १२ || भैरवस्य तु संयोगाच्छाबरं सिद्धिदायकम् | महाकालस्य संयोगाद् वटुकस्य च योगतः || १३ || शावरं सिद्धिदं देवि तच्च वै द्विविधं भवेत् | नाथोक्तं शम्भुसम्प्रोक्तं नाथोक्तं द्विविधं भवेत् || १४ || (प्. १६४) शिवोक्तरूपभेदेन तत्र नाथभिधे शिवे | चतुरशीतिसिद्धोक्तं नाथोक्तं द्विविधं भवेत् || १५ || एका चेद्देवता सिद्धा तदा सिद्धं जगत्त्रयम् | तत्रापि बटुकेन सिद्धं स्थावरजङ्गमम् || १६ || अथाद्यो हेतुबटुको द्वितीयो बटुकः स्मृतः | त्रिपुरान्तकबटुकस्तृतीयः परिकीर्तितः || १७ || वह्निवेतालबटुकश्चतुर्थः परिकीर्तितः | अथाग्निजिह्वबटुकः पञ्चमः परिकीर्तितः || १८ || श्रीकालबटुको देवि करालबटुकस्तथा | तथैकपादबटुको श्रीभीमबटुकस्तथा || १९ || त्रैलोक्यबटुकश्चैव श्रीसिद्धबटुकस्तथा | दश वै बटुकाः ख्याताः कलौ प्रत्यक्षसिद्धिदाः || २० || मातृकासुतसंज्ञाख्या बटुकाः पूर्वमीरिताः | महाक्रोधस्य योगेन सिध्यन्ति किन्नरीगणाः || २१ || कालिकायां महाकालश्चाक्षोभ्यस्तारिणीमनु | त्रिपुरायां तु राजेशो बगलायाञ्च त्रयम्बकः || २२ || मातंग्यां तु महेशश्च भुवनेश्यां महेश्वरः | नारायणो महालक्ष्म्यां महादेवोऽथ वा प्रिये || २३ || छिन्नायां तु करालः स्यात्सिद्धायां कुक्कुटेश्वरः | धूम्रायां तु अघोरः स्यादिति संक्षेपतो मतम् || २४ || शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यते | शिवं विना चित्कलायां न कलात्वं क्वचिद्भवेत् || २५ || बीजाङ्कुरन्याययोगात् शिवशक्त्यात्मकं महः | सदा जागर्ति देवेशि नानारूपाणि दर्शनम् || २६ || सर्वभावे तु बटुको महाकालस्तथैव च | तारिण्यां बटुकः प्रोक्तः काल्यां कालः प्रकीर्तितः || २७ || श्रीक्रोधमण्डलं देवि पातालाम्नायगोचरम् | यथा पराख्यमन्त्रे तु शिवशक्त्यात्मकं महः || २८ || सदा जागर्ति देवेशि व्याप्य ब्रह्माण्डमण्डलम् | बिन्दुयुक्ता भवेच्छैवी सर्गान्ता शक्तिसंज्ञिका || २९ || प्. १६५) बिन्दुसर्गान्वितायां तु शिवशक्तिमयी कला | बीजाङ्कुरन्याययोगात्सदा तिष्ठति तिष्ठति || ३० || वीरसाधनमार्गेण शिथिलोऽपि च सिध्यति | शक्तिमन्त्रे शम्भुमन्त्रे शाबरे गाणपे तथा || ३१ || कौले बौद्धे वैदिके च क्रूरमन्त्रेऽपि पार्वति | महाविद्याक्रमे देवि सिद्धविद्याक्रमे तथा || ३२ || विद्याक्रमेऽपि देवेशि वीरसाधनमार्गतः | सर्वं सिध्यति देवेशि नात्र कार्या विचारणा || ३३ || जीवहीने यथा जीवो मृतसञ्जीवनीक्रमात् | पुनर्जीवो यथा भूयात्तथा साधनयोगतः || ३४ || सर्वं सिध्यति देवेशि नात्र कार्या विचारणा | मन्त्रमात्रे महेशानि वीरसाधनमाचरेत् || ३५ || बटुके हनुमन्मन्त्रे गारुडे चेटकेऽपि च | वेताले धूमवेताले वीरसाधनमाचरेत् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ३६ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे विद्यासिद्धिनिर्णयो नाम त्रयश्चत्वारिंशतिः पटलः || चतुश्चत्वारिंशतिः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि सुन्दरीसाधनक्रमम् | श्रीशिव उवाच | रहस्यातिरहस्यं च तव स्नेहात्प्रकाश्यते || १ || गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् | सिद्धमन्त्रपरो भूत्वा वीरसाधनमाचरेत् || २ || सर्वेषां जीवहीनानां जन्तूनां फलकृद् भवेत् | नान्यत् सिद्धिप्रदं देवि वीरसाधनवर्जितम् || ३ || श्रीविद्या शिथिला देवि क्लेशसाध्या कलौ ध्रुवम् | अल्पाचाराद्धर्मत्वाद् भ्रष्टत्वादपि पार्वति || ४ || कलौ पापसमाकीर्णे कस्य वै निश्चलं मनः | सर्वदोषैः समायुक्तो वीरसाधनसंयुतः || ५ || स एव सिद्धिदो देवि नात्र कार्या विचारणा | न वै सिद्धिर्न वै सिद्धिर्वीरसाधनमन्तरा || ६ || महापातकसंयुक्तो वीरसाधनसंयुतः | स एव सिद्धिदो लोके सर्वदेवनमस्कृतः || ७ || याममात्रेण संसिद्धिर्वीरसाधनयोगतः | अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि || ८ || सार्धयामोत्तरं देवि वीरसाधनमाचरेत् | तरुणं सुन्दरं शूरं संमुखे रसवर्तिनम् || ९ || पलायनविशून्यं च महावीरशवं हरेत् | यष्टिविद्धं शूलविद्धं सर्पदष्टं पयोमृतम् || १० || खड्गविषहतं विद्धं चाण्डालाद्यभिभूतकम् | शीघ्रसिद्धिप्रदं देवि पूर्वोक्ताष्टशवं त्यजेत् || ११ || वीरवेषं समासाद्य वीरचर्यां समाचरेत् | पूर्ववत् तिलकं कृत्वा बलिद्रव्याणि चाहरेत् || १२ || मंत्रं वा साधयिष्यामि देहं वा पातयाम्यहम् | प्रतिज्ञामीदृशीं कृत्वा बलिद्रव्यानि संग्रहेत् || १३ || मेषमाहिषमार्जारछागकुक्कुटकुञ्जरान् | गुडपायससंपातो मोदकान् पूपलड्डुकान् || १४ || प्. १६७) जम्बीरपनसादीनि नाना स्वादूनि पार्वति | फलानि चाहरेद्देवि ताम्बूलाद्यैः समन्वितः || १५ || जातीपत्रं तत्फलं च कङ्कोलं विजया तथा | कस्तूरीकुङ्कुमादीनि भक्ष्यद्रव्याणि यानि च || १६ || तानि सर्वाणि संगृह्य यथोक्तं स्थानमाचरेत् | बिल्वमूले प्रान्तरे वा शून्यागारे नदीतटे || १७ || समुद्रे विपिने घोरे श्मशाने चत्वरे तथा | गङ्गागर्भे तडागे च कामिनीमण्डलेऽपि च || १८ || एकलिङ्गे विशेषेण वनमध्ये विशेषतः | वीरवेषं समासाद्य वीरसाधनमाचरेत् || १९ || सिद्धमन्त्रं पुरस्कृत्वा देवतादर्शनोत्सुकः | सार्धयामोत्तरं देवि वीरसाधनमाचरेत् || २० || खदिरानष्टकीलाद्यैर्वतस्तैर्वा हरेच्छिवे | दशदिक्षु क्षिपेद्देवि दिक्पालेभ्यो बलिं हरेत् || २१ || दिग्बन्धनं समाचर्य साम्राज्यमण्डलक्रमात् | विद्यामण्डलमार्गेण महाविद्यादिमार्गतः || २२ || श्मशानदेवताभ्यो हि बलिं यत्नेन दापयेत् | राजराजेश्वरायाऽथ बलिं यत्नेन दापयेत् || २३ || ततः श्रीकुरुकुल्लायै चाण्डाल्यै तदनन्तरम् | बटुकयोगिनीक्षेत्रपालगाणपमूर्तये || २४ || देवता ललिताधीशः सर्वेभ्यो बलिमाहरेत् | बलिदाने समभ्यर्च्य वीरसाधनमाचरेत् || २५ || वीरं संक्षाल्य यत्नेन सिन्दूराङ्कितभालकः | कज्जलमञ्जनं तैलं कस्तूरीकुङ्कुमन्वितम् || २६ || ताम्बूलं मुखमध्यं च दुग्धेनोत्सर्गमाचरेत् | वीरं संक्षाल्य यत्नेन कारेणेन सुरेश्वरि || २७ || मासप्रधानं नैवेद्यं मत्स्यामुद्रां तथैव च | दत्त्वा यत्नेन देवेशि लवङ्गैलादिसंयुतः || २८ || कर्पूरवासितं धूपं गन्धाद्यष्टौ पञ्च च | षोडशाङ्गं दशाङ्गं वा अष्टादशसमन्वितम् || २९ || प्. १६८) श्रीखण्डधूपो देवेशि तथा चागुरुसम्भवः | गुग्गुलं लोहबाणश्च रालश्च देवदारुकः || ३० || लाक्षा गूडश्च वा देवि गोघृतं शकराञ्च वा | मांसीनखं वा देवि कर्पूरमेकमेव वा || ३१ || श्रीखण्डमगुरुं चापि गन्धसारं शिलारसम् | मलयोद्भवसारञ्च विद्याया युग्मभेदतः || ३२ || दशविद्याक्रमेणैव कीर्तितन्तु मया तव | देवदारुमयो धूपः सर्वभूतविनाशकः || ३३ || एवं सन्धूप्य यानेन खड्गहस्तो भवेद् ध्रुवम् | मुक्तकेशो दिशावासो दूरे चोत्तरसाधकम् || ३४ || दीपं प्रज्वाल्य यत्नेन न च विघ्नैः समाकुलः | मध्ये वीरं तु संस्थाप्य झुटिकाबन्धनं चरेत् || ३५ || पृष्ठ लिखेद्यन्त्रं पादबन्धनमाचरेत् | मुखबन्धं मुखे दत्त्वा हयारोहक्रमेण || ३६ || अचूडकं पूर्वभागे मृदु दक्षिणगोचरे | कोमलं पश्चिमायां च त्रिमुण्डमुत्तरे भवेत् || ३७ || ततो मृतकं पूजयेत्क्रमात् | वीरार्गलाघोरमन्त्रैश्चक्रपाशुपतास्त्रकैः || ३८ || जयदुर्गाख्यमन्त्रोऽपि वीरप्रार्थनकृन्मनुः | तिलोऽसीति यवाख्यो हि मनवः परिकीर्तिताः || ३९ || स्वस्वस्थाने नियुञ्जीत यथोक्तेन तु वर्त्मना | ऋषिच्छदादिकं ज्ञात्वा यथोक्तं ध्यानमाचरेत् || ४० || स्वदेष्टदेवं तु समूज्य साङ्गं सावरणं प्रिये | पञ्चोपचारैर्वा पूज्य जपं कुर्यादनन्यधीः || ४१ || भयं न कुर्याद्देवेशि स्वप्नवद्भावयेज्जगत् | देवताः खेचराः सिद्धा भैरवा यातु धानकाः || ४२ || आयान्ति छलनार्थं च भयं तत्र न कारयेत् | व्याघ्राः शस्त्राणि सर्पाद्या वृश्चिकाः क्रूरजन्तवः || ४३ || वक्रक्रूराणि रूपाणि समुद्रस्वर्गपातनम् | मृताश्च पूर्वजाः सर्वे राजकीयातनास्तथा || ४४ || नीलं वा प्रप्यते देवि कुक्कुटं चामृतं च वा | तृणीकृत्य च तत्सर्वं दृढभावसमन्वितः || ४५ || प्. १६९) प्रजपेद्द्यात्नतो देवि देवता वरदा भवेत् | संस्कृतं वक्ति या चाग्रे सा देवी परिकीर्तिता || ४६ || तस्या वरस्तु संग्राह्यास्त्रिवारं वक्ति सा शिवा | ब्राह्मणः संस्कृतं वक्ति भैरवः सम्प्रकीर्तितः || ४७ || तया यदुच्यते देवि या बलिर्याच्यते तया | तान् दद्यात्नतो देवि नरकुञ्जरमाहिषान् || ४८ || शालीपिष्टमयान् कृत्वा यवक्षोदमयानपि | दिनान्तरे तु तद्दद्याद् वरं गृह्यं सुखी भवेत् || ४९ || वीरादि सर्वसामग्रीं गर्तमध्ये विनिक्षिपेत् | वीरयुद्धं तत्र भूयात् दृढस्तत्र नरो भवेत् || ५० || एकविंशद्दिनं यावत्तावत्संगोपयेत्स्वयम् | गीतं श्रुत्वा तु वधिरः स्त्रीसङ्गाद् रोगभाग्भवेत् || ५१ || होमहीने न सिद्धिः स्याद् द्विजभोजविहीनके | दरिद्रस्तु भवेदेवि सर्वं संसाधयेद् ध्रुवम् || ५२ || बिल्वपत्रोदकं पीत्वा सर्वं संसाधयेद् ध्रुवम् | अष्टादशविधो देवि शक्तिपातः प्रजायते || ५३ || षष्टिसिद्धीश्वरो भूयान्नात्र कार्या विचारणा | अणिमाद्यष्टसिद्धीनामधीशो धार्मिकः कृती || ५४ || ब्रह्माण्डगोलद्भया च या काचिज्जगतीतले | समस्ताः सिद्धयो देवि तस्य पादे व्यवस्थितः || ५५ || भैरवाः खेचरा यक्षाः किन्नराश्चाप्सरोगणाः | यातुधानास्तथा नागा दानवा दैत्यराक्षसाः || ५६ || कुष्माण्डाश्च तथा भूताः विशाचाः प्रेतजातयः | निवातकवचाश्चान्ये तथैव ब्रह्मराक्षसाः || ५७ || वेतालाश्च तथा साध्याः सिद्धाश्च यक्षिणीगणाः | राकिनीकिन्नरीसंघा भूतिनीचेटकादयः || ५८ || महेन्द्रजालमिन्द्रादिजां पादगतं भवेत् | सुरयोत्सर्गमासाद्य तेन सिद्धीश्वरो भवेत् || ५९ || प्. १७०) गुडार्द्रकसेनैव सुरा तु ब्राह्मणस्य च | गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् || ६० || रहस्यातिरहस्यञ्च रहस्यातिरहस्यकम् | प्राणा देयाः शिरो देयं न देया साधना वरा || ६१ || इति विद्याविधौ प्रोक्ता श्रीविद्यायां विशेषतः | बटुके क्षेत्रपालेऽपि गाणपे शाङ्करेऽपि च || ६२ || साधनेयं मया प्रोक्ता गोपनीयं स्वयोनिवत् | इति संक्षेपतः प्रोक्तं किमन्यच्छोतुमिच्छसि || ६३ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतासंवादे सुन्दरीसाधनं नाम चतुश्चत्वारिंशतिः पटलः || ४४ || पञ्चत्वारिशतिः पटलः | श्रीदेव्युवाच | देवेश शङ्कर स्वामिन्सुरादिकारणोत्तम | त्वया संसूचितं पूर्वं वरासनविनिर्णयम् || १ || देवताऽवाहनं देवि सूतकद्वयविनिर्णयम् | यन्त्रप्राणनिर्णयं च विसर्जनविनिर्णयम् || २ || शिवशक्तिक्रमेणैव सम्प्रदायविनिर्णयम् | दशविद्याक्रमेणैव दशधूपविनिर्णयम् || ३ || पूर्वं संसूचितं नाथ न मह्यं तु प्रकाशितम् | तत्सर्वं कथय स्वामिन् यद्यहं तव वल्लभा || ४ || श्रीशिव उवाच | रहस्यातिरहस्यं ते कथं च कथयाम्यहम् | तथापि तव संप्रीत्या कथ्यते शृणु साम्प्रतम् || ५ || सर्वादिभूतरूपत्वात् सूतकस्य विनिर्णयम् | वरासनं चान्यभागे सर्वं संकथ्यते शृणु || ६ || जातसूतकमादौ स्यात्तदन्ते मृतसूतकम् | सूतकद्वयसंयुक्तः स मन्त्रो नैव सिध्यति || ७ || जातसूतकमादौ स्यात्तदन्ते मृतसूतकम् | सूतकद्वयसंयुक्तः स मन्त्रो नैव सिध्यति || ८ || गुरुकुण्डलिनीध्याने विवाहः परिकीर्तितः | द्विरागमो भवेत्स्नानं संयोगस्तर्पणम् || ९ || अर्घ्यदानं भवेद्गर्भो गायत्री त्वष्टमासिकम् | भूतशुद्ध्यादि प्राणान्तं तत्रावयवकल्पनम् || १० || देहावाप्तिर्मातृक या प्राणायामस्तु संस्क्रिया | ध्यानोच्चारे महेशानि बालकोत्पत्तिरीरिता || १० || मन्त्रोच्चारणतो देवि जातसूतकमीरितम् | जातसूतस्य दोषस्य शमनार्थं महेश्वरि || ११ || दश विशंति पञ्चाशद्ययाशक्त्या जपेच्छिवे | दशाङ्गादि पुरश्चर्या संस्कारा दश वै शिवे || १२ || इदमादि मयादिष्टमन्तिमं शृणु साम्प्रतम् | संस्काराः सप्तनवकास्तथा जाड्यं हृदि शिवे || १३ || प्. १७२) प्रसन्नाञ्जलिस्तु तच्चक्रं तत्सिद्धिसाधनं तथा | सोऽहं भावो मातृकाप्तिः पञ्च चैतन्यमेलनम् || १४ || अङ्गज्ञानञ्च तादात्म्यं तदनन्तरमीरितम् | विसर्जनं महेशानि मृतसूतकमीरितम् || १५ || मृतसूतकशान्त्यर्थं दशविंशति वा जपेत् | तेन तस्य निवृत्तिर्हि भवत्येव न संशयः || १६ || केरलश्चैव काश्मीरो गौडमार्गस्त्रयात्मकः | सम्प्रदायत्रये प्रोक्तं त्रितयं त्रितयं भवेत् || १७ || शैवकेरललकं देवि शक्तिकेरलकं तथा | शिवशक्तिकेरलाख्यं त्रितयं परिकीर्तितम् || १८ || शुद्धोग्रगुप्तभेदेन नवधा केरले भवेत् | नवधा चैव काश्मीरं गौडं च नवधा भवेत् || १९ || विलासाख्यस्त्रिधा देवि भेदाश्चान्ये भवन्ति च | केरलाख्ये सम्प्रदाये हृदये च विसर्जनम् || २० || मनुहृद्देवतां शम्भुं सहस्रारे विसर्जनम् | काश्मीराख्ये सम्प्रदाये सहस्रारे विसर्जनम् || २१ || गौडमार्गे महेशानि हृदये च विसर्जनम् | विसर्जनं च सम्प्रोक्तं निर्णयं सूतकस्य च || २२ || शृणु यत्नेन देवेशि रहस्यं कथ्यते मया | मन्त्रस्य सूतकं प्रोक्तं मनुष्यस्य यथा || २३ || जातसूतकमादौ च तदन्ते मृतसूतकम् | द्वितये सूतके देवि न मन्त्रोच्चारमाचरेत् || २४ || सन्ध्यां च मानसीं कुर्यादर्घ्यान्तां परमेश्वरि | शालिग्रामं च प्रतिमां न स्पृशेत्कर्हिचितुप्रिये || २५ || स्पर्शात् पापी नरो भूयान्नात्र कार्या विचारणा | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || २६ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे सूतकविनिर्णयो नाम पञ्चचत्वारिंशतिः पटलः || ४५ || षट्चत्वारिंशतिः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् | तन्मे कथय देवेश पूर्वं सूचितं त्वया || १ || पूर्वं त्वयोक्तं देवेश मन्त्रत्यागे दरिद्रता | दीक्षोत्तरं महेशान पत्यहं प्रजपेन्मनुम् || २ || प्राणान्तेऽपि न वै त्याज्यस्त्यागाच्छापमवान्पुयात् | जपपूजां ततो जापं कुर्याद्यत्नेन नित्यशः || ३ || पूजान्ते प्रजपेन्मन्त्रं न मन्त्रं केवलं जपेत् | इत्याद्युक्तं त्वया नाथ कथं त्याज्यः स वै मनुः || ४ || श्रीशिव उवाच | पूर्वकल्पः पशूनाञ्च वैष्णवानां विशेषतः | सन्ध्या तु वैदिकी प्रोक्ता मानसी तु तथा तव || ५ || त्रिसन्ध्यां तान्त्रिकीं कुर्याच्छक्तिमन्त्रे महेश्वरि | पूर्णाभिषेकहीने तु पूजा पञ्चोपचारिकाः || ६ || पूजोपचारैः सम्पूज्य दीपे कुड्ये जले प्रिये | दर्पणे श्रीगुरौ देवि पशुपक्षे मनस्त्विदम् || ७ || पूर्णाभिषेकसंयुक्तः पूर्णरूपः स वै भवेत् | को वा देही कस्य देहः सुखं दुःखं च कस्य वै || ८ || को जातः को मृतो देवि सर्वं ब्रह्मस्वरूपकम् | नामपारायणं देवि मन्त्रपारायणं तथा || ९ || नाडीपारायणं देवि चक्रपारायणं तथा | यन्त्रपारायणं देवि सन्ध्यानां च चतुष्टयम् || १० || प्रस्ताराख्यसहस्राणि तथोपस्थानरूपिणी | आवर्णाख्यसहस्राणि विद्याकल्पलता मया || ११ || द्वाविंशतिक्रमेणैव दीक्षासोपानमालिका | षडाम्नायस्य विज्ञानी श्रीमहापञ्चिकाक्रमी || १२ || कादिहादिमाताधीशस्तस्य वै सूतकं कुतः | ऊर्ध्वाम्नायी तथा देवि तथा चरणदीक्षितः || १३ || चतुश्चरणसम्पन्नः षडन्वयक्रमी तथा | मेधादीक्षादिसंयुक्तः साम्राज्यमेधया पुनः || १४ || प्. १७४) श्रीगुरोः पादुकाज्ञानी श्रीमहापादुका तथा | निर्वाणपादुकाज्ञानी श्रीमूर्तिपादुका तथा || १५ || वाराहीपादुका देवि मातङ्गीपादुका तथा | शाम्भव्याख्यपादुकायाः श्रीमेधापादुकान्वितः || १६ || सूतकं तस्य कुत्रास्ति पूर्णरूपः स एव तु | यस्मिन्काले भवेद्देवि मन्त्रदेवस्य विस्मृतिः || १७ || तदैव मरणं प्रोक्तं मरणं मरणम् नहि | जीवनं तु तदैव स्याद्यस्मिन् काले तु सम्भ्रमः || १८ || चतुर्वेदास्तूप वेदाः श्रीचक्रद्वारि सन्ति च | पूर्णाभिषेकी देवेशि यस्मिन् देशे विराजते || १९ || स देशो धन्यतां याति समन्तात्कोटियोजनम् | न व्याधिर्न च वै मृत्युर्न शत्रुर्न भयं क्वचित् || २० || पूर्णरूपः शिवः प्रोक्तः शिव एव न संशयः | बहुमन्त्रवतः पुंसः का कथा शिव एव सः || २१ || पूर्णाभिषेकी देवेशि दशविद्याविधौ स्मृतः | तूर्यभेदा हादिमते कादौ भेदचतुष्टयम् || २२ || पञ्चरत्नेश्वरी द्वेधा हादिकादिक्रमेण च | उग्रा कादिक्रमेणैव सौम्या हादिक्रमेण च || २३ || कादुहादिक्रमेणैव उग्रसौम्यद्वये शिवे | अभिषेकः शुभः प्रोक्तः सर्वसाम्राज्यदायकः || २४ || श्रीदेव्युवाच | अभिषेकविहीनस्य ग्रहणक्रमगस्य च | पुरश्चर्या प्रयुक्तस्य कथं भवति तद्वद || २५ || श्रीशिव उवाच | सूर्यग्रहणकालाद्धि नान्यः कालः प्रशस्यते | सूर्यचन्द्रग्रहे यद्यत् कृतं वा कारितं च वा || २६ || तत्तदक्षययमायाति विद्या सिद्धिप्रदा मता | जातशौचं मृताशौचं ग्रहणे नास्ति पार्वति || २७ || सूर्याशौचं महेशानि नान्यत्सञ्चरति क्वचित् | स्नानं दानं जपो होमो मार्जनं तर्पणं तथा || २८ || प्. १७५) द्विजभोज्यं शक्तियोगात्कर्तव्यं परमेश्वरि | संकल्पमात्रात्सिद्धिः स्याच्चन्द्रसूर्यग्रहे || २९ || दीक्षायोगः पीठजपो मन्त्रपारायणं तथा | नामनाडी चक्रमन्त्रपारायणविधिर्भवेत् || ३० || पूर्णाभिषेकदीक्षा तु चन्द्रसूर्यग्रहे शिवे | सूतकेऽपि भवत्येव पूर्णस्य सूतकं कुतः || ३१ || होमादिकं सूतकान्ते मोणः प्रतिनिधिः स्मृतः | काली तारा छिन्नामस्ता सुन्दर्याः परमेश्वरि || ३२ || विशेषात् सूतकं नास्ति सर्वकालं जपेच्छिवाम् | अभिषेकाद्भवेच्छुद्धः सर्वरूपः सनातनः || ३३ || अभिषेकः पूर्णरूपः सर्वसिद्धिफलप्रदः | अनेकक्रमयोगेन त्वभिषेकः प्रकीर्तितः || ३४ || पूर्णाभिषेकसंयुक्तश्चाण्डालोऽपि भवेद्यदि | स ब्रह्मर्षिर्महेशानि नात्र कार्या विचारणा || ३५ || पूर्णाभिषेकहीनोऽयमृषिवर्योऽपि पार्वति | स ब्राह्मणाधमः प्रोक्तस्त्वभिषेके द्विजोत्तमः || ३६ || अभिषेकाद्भवेच्छ्रेष्ठो वयोधिक्यान्न वै प्रभो | श्रीवृद्धो दीक्षया हीनो बालो दीक्षासमन्वितः || ३७ || पूर्णरूपो भवेच्छ्रेष्ठो न वयो हेतुरत्र तु | अपि चाण्डालजातिस्थः पूर्णदीक्षासमन्वितः || ३८ || स एव शिवरूपः स्यान्नात्र कार्या विचारणा | जपऊजां तपो होमं तथा ब्राह्मणभोजनम् || ३९ || कारयेद्द्यत्नतो देवि नान्तरायं समाचरेत् | आदौ मानसिकीं पूजां महापूजां ततः || ४० || कारयेद्यत्नतो देवि नात्र कार्या विचारणा | पूर्णाभिषेकहीनानां पशूनां जप एव च || ४१ || क्वचित्प्रोक्तो महेशानि स जपो हि निरर्थकः | यद्यप्यस्ति त्रिकालज्ञस्त्रैलोक्याकर्षणक्षमः || ४२ || तथापि लौकिकाचारं मनसाऽपि न लङ्घयेत् | इति चिन्तापरो यस्तु तस्य पूजा महेश्वरि || ४३ || गुरुहस्तात् गुरुभ्रातुस्तथाचार्यस्य हस्ततः | कारणीया प्रयत्नेन न मन्त्रं केवलं जपेत् || ४४ || केवलं मन्त्रजापस्तु नाम इत्यभिधीयते | गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ४५ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मन्त्रजापविधानं नाम षट्चत्वारिंशतिः पटलः || ४६ || सप्तचत्वारिंशतिः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि यन्त्रस्थापननिर्णयम् | श्रीशिव उवाच | स्फाटिकं स्वर्णजं रोप्यं यन्त्रं च कारयेत् प्रिये || १ || यन्त्रं तु गृहामित्युक्तं यन्त्रं पीठं प्रकीर्त्तितम् | यन्त्रे तु पूजिता देवि सहसैव प्रसीदति || २ || शालिग्रामे बाणलिङ्गे जीवचक्रे महेश्वरि | स्थिरयन्त्रे प्रतिकृतौ नावाहनविसर्जनम् || ३ || प्रतिष्ठाय महायन्त्रं न तद्यन्त्रं विसर्जयेत् | यन्त्रप्रतिष्ठामासाद्य विद्यां तत्र विभावयेत् || ४ || जीवन्यासं तत्र कृत्वा विद्यां तत्रैव भावयेत् | यन्त्रप्रतिष्ठां कृत्वादौ देवं तत्र प्रतिष्ठयेत् || ५ || तदा विसर्जनं नास्ति न चावाहनमेव च | अन्तः कालं प्रविन्यस्य यन्त्रमेवं प्रतिष्ठयेत् || ६ || मूर्तिं स्वहृद्गतां तत्र ध्यात्वा पूज्य विसर्जयेत् | देवप्रतिष्ठा चेद्भूयात्तदा नैव विसर्जनम् || ७ || इति संक्षेपतः प्रोक्तं दशविद्याक्रमेण च | दशधूपान् शृणु प्राज्ञे सावधानमना भव || ८ || लोहबाणः षोडशाङ्गः श्रीविद्यायां प्रकीर्तितः | कालीविद्याविधौ देवि अगुरुञ्च दशाङ्गकः || ९ || अष्टादशाङ्गं श्रीखण्डं ताराविद्याविधौ स्मृतम् | छिन्नाविद्याविधौ देवि पञ्चाङ्गो गुग्गुलुस्तथा || १० || कृष्णागुरुः पीतसारो ब्रह्मास्त्रमनुगोचरः | आलोड्यागुरुधूपं च मातंग्यां परिकीर्तितम् || ११ || कस्तूरी चैव कर्पूरमष्टगन्धं तथैव च | भैरव्यां कीर्तितं देवि न विनैव शिलारसम् || १२ || भुवनेश्यां मया प्रोक्तं श्रीखण्डं कमलामनौ | लाक्षागुडो हि धूम्रायां सिद्धविद्याविधौ शिवे || १३ || सर्वधूपस्तु संप्रोक्तः शृणु देवि वरासनम् | वरासनानि देवेशि कथ्यन्ते सुमुखी भव || १४ || प्. १७८) बाणदुन्दुभि वीणादि भेरी वादित्रवेणवः | शङ्ख्यघण्टापताकादि त्रिशतं पञ्चविंशतिः || १५ || वरासनप्रयोगे हि सर्वत्र दुर्लभो मतः | स्तोत्रपाठश्च कवचं नामसाहस्रकं तथा || १६ || पूजाजपस्तथा देवि वरयोगे प्रकीर्तितम् | यदैव कार्यमुत्पन्नं यत्र कुत्रापि पार्वति || १७ || जपः क्वचिद्भवेद्देवि होमपूजा क्वचिद्भवेत् | यत्र यल्लभते देवि तत्र तच्च समाचरेत् || १८ || तर्पणं च क्वचित्कार्यं पाठश्चैव क्वचिद्भवेत् | पूजाहोमौ क्वचित्कार्यौ क्वचिद् ब्राह्मणभोजनम् || १९ || यथालाभेन कर्तव्यं शाबरादौ विशेषतः | वरप्रयोगे देवेशि द्विधा वाऽसनसंहतिः || २० || देहासनानि देवेशि परिभाषासनानि च | भद्रादीनि महेशानि देहजानि भवन्ति च || २१ || व्याघ्रमुण्डं कम्बलाश्च चर्माणि भेषजान्यपि | उष्ट्रजासनरूपाणि कुशादीनि यथाक्रमात् || २२ || परिभाषासनान्येव कथितानि मया तव | प्रत्येकं द्विविधो भेदस्त्वासनानां महेश्वरि || २३ || निर्जीवानि सजीवानि सर्वसिद्धिकराणि च | सजीवानामभावे तु निर्जीवानि महेश्वरि || २४ || मुख्यानि तु सजीवानि रहस्यानि महेश्वरि | अश्वासनं गजश्चैव पल्लकी मानुषस्तथा || २५ || महिषो वृषभश्चेति भल्लुको वनरस्तथा | व्याघ्रश्वजम्बुको देवि मेषाजौ परमेश्वरि || २६ || उष्ट्रश्च मृगभेदश्च कुशमृत्प्रकृतिश्च वा | कुक्कुरः कुक्कुटो देवि मकरः शरस्तथा || २७ || गवयः शूकरश्चैव शिविरः शबरः स्मृतः | तरणिश्च रथश्चैव शंकटश्च सुखासनम् || २८ || दण्डिका दोलिकाचक्रं चक्रदोला गृहाभिधा | पादासनमथारोहो नारिकेलासनं तथा || २९ || पूगो मधुकश्चाक्रश्च वटोश्वत्थसतालकौ | खर्जुरः पिप्पलः प्लक्षः शमी जंबुस्तथैव च || ३० || प्. १७९) तारा काली छिन्नमस्ता श्रीविद्याकल्पवृक्षजम् | कुक्कुरः कच्छपः खड्गी गजाख्यं च सुखासनम् || ३१ || गजाश्चासनकं देवि तथा तररथं शिवे | वृसभाख्यो हयाख्यश्च महिषाख्योऽपि पार्वति || ३२ || नरयानं राजयानं छत्रयानञ्च पार्वति | तथा नरपतेर्यानं अश्वनाथाभिधं तथा || ३३ || गजनाथाभिधं देवि साम्राज्यख्य रथस्तथा | वरासनानि देवेशि कथितानि मया तव || ३४ || शतं सप्तति देवेशि भेदास्तेषां शृणु प्रिये | ब्रह्मक्षत्रियविट्शूद्रजातिभेदैश्चतुर्विधाः || ३५ || देशभेदैर्महेशानि संख्यां शृणु महेश्वरि | अश्वाः पञ्चविधाः प्रोक्ता जातयोष्टादश स्मृताः || ३६ || वह्लीकाश्चव काम्बोजाः कोंकणैराकसम्भवाः | वनजोत्थाः पञ्चमाः स्युर्वर्णोस्तेषां शृणु प्रिये || ३७ || सर्वेऽपि सूर्यहयाः स्युर्वर्णभेदाद् ग्रहत्वता | सूर्यः सोमस्तथा भौमो बुधश्च गुरुरेव च || ३८ || शुक्रः शनिस्तथा राहुः केतुश्च नवमः स्मृतः | नववर्णक्रमेणैव पञ्चवर्णक्रमेण च || ३९ || प्रत्येकसंकरत्वेन नवतिश्चन्द्रन्यूनता | पञ्चवर्णक्रमेणैव पञ्चविंशतिभेदभाक् || ४० || सपादशत संख्या तु श्यामकर्णसमागमात् | अन्योन्यसंसृष्टिभेदात्त्रिशतं पञ्चसप्ततिः || ४१ || फलमेषां महेशानि कथ्यते शृणु साम्प्रतम् | सूर्यवर्णं समारुह्य विंशत्साहस्रकं जपेत् || ४२ || त्रैलोक्य विजयी भूयान्नात्र कार्या विचारणा | कवचे स्तोत्रपाठे च नामसाहस्रके तथा || ४३ || संख्या सामान्यतः प्रोक्ता गजान्तकसहस्रकम् | सोमवर्णं समारुह्य दिक्सहस्रं शिवां जपेत् || ४४ || कीर्तिलक्ष्मीपतिर्भूयान्नात्र कार्या विचारणा | भौमवर्णं समारुह्य त्रिसहस्रं मनुं जपेत् || ४५ || प्. १८०) दरिदोऽपि धनाढ्यः स्यान्नात्र कार्या विचारणा | बुधवर्णं समारुह्य त्रिंशत्साहस्रकं जपेत् || ४६ || रोगी रोगात्प्रमुच्येत दरिद्रो धनमाप्नुयात् | गुरुर्णं समारुह्य नवसाहस्रकं जपेत् || ४७ || नवनिधीश्वरो भूयान्नात्र कार्या विचारणा | भृगुवर्णं समारुह्य लक्षसंख्यं जपं चरेत् || ४८ || सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा | शनिवर्णं समास्थाय त्रिसहस्रं जपेत्सदा || ४९ || सर्वबाधाविनिर्मुक्तो मानवः स्यात् सुरोपमः | राहुवर्णं समास्थाय सहस्राणां तु सप्ततिः || ५० || प्रजपेन्मानवो यस्तु स च लक्ष्मीपतिर्भवेत् | केतुवर्णं समारूह्य पञ्चविंशत्सहस्रकम् || ५१ || प्रजपेन्मानवो यस्तु परराज्यजयी भवेत् | श्वेतवर्णं समारूह्य लक्षसंख्यं मनुं जपेत् || ५२ || शत्रुसेनां विनिर्जित्य राज्यभोक्ता नरो भवेत् | अश्वव्याघ्रासनं कृत्वा दिक्साहस्रं जपं चरेत् || ५३ || स्तोत्रं वा कवचं नाम यत्किम्चित् प्रजपेच्छिवे | वाञ्छाकामी नरो भूयात् त्रैलोक्यवीजयी भवेत् || ५४ || जीवासनानि देवेशि भवन्त्येतानि निश्चितम् | यद्यत्कामयते कामं तत्तदाप्नोति निश्चितम् || ५५ || जपमात्रे पाठमात्रे होमादौ कल्पितानि च | श्वेतरौप्यासनं कृत्वा त्रिलक्षं प्रजपेद्विभुः || ५६ || इन्द्रादीन् समरे जित्वा विजयी भुवि जायते | श्वेतवर्णासनं कृत्वा सूर्यसाहस्रकम् || ५७ || त्रैलोक्यविजयी राजा किंकरो निधिमुग्भवेत् | श्वेतचित्रासनं कृत्वा मन्त्रमात्रं जपेच्छिवे || ५८ || रक्तवर्णे नरः स्थित्वा सहस्रं प्रत्यहं जपेत् | शत्रुसेनां नरः स्थित्वा सहस्रं प्रत्यहं जपेत् || ५९ || कृष्णवर्णं समास्थाय पञ्चसाहस्रकं जपेत् | शत्रवो दासतां यान्ति कालीताराप्रसादतः || ६० || पीतवर्णं समास्थाय मन्त्रं लक्षमितं जपेत् | राजराजो नरो भूयान्नात्र कार्या विचारणा || ६१ || प्. १८१) नीलवर्णाश्वमास्थाय लक्षार्धं जपमाचरेत् | सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा || ६२ || हरिताश्वे नरः स्थित्वा लक्षद्वयमिदं जपेत् | पृथ्वीपतिपदं प्राप्य त्रैलोक्यभोगभाग्भवेत् || ६३ || धूसराश्वं समाश्रित्य नित्यं पञ्चसहस्रकम् | मासमात्रेण वेतालः किङ्करो भवति ध्रुवम् || ६४ || श्यामवर्णं समासाद्य चत्वारिंशत्सहस्रकम् | प्रजपेन्मानवो यस्तु विष्णुरेव न संशयः || ६५ || कपिलाश्वं समारुह्य लक्षं जपति भूमिपः | विकलाश्वे नरः स्थित्वा त्रिलोकं वशमानयेत् || ६६ || कुर्वराश्वे समारुह्य विश्वं जयति जापतः | त्रिशतं प्रजपेन्नित्यं मासमात्रेण सिद्धिकृत् || ६७ || धूम्रवर्णं समारुह्य सर्वज्ञः साधको भवेत् | नानावर्णे नरः स्थित्वा प्रत्यहं शतमात्रकम् || ६८ || शतमात्रप्रजापेन मासद्देवी वरप्रदा | द्वित्रिवेदवाणषट्कवऋणैः स्थित्वाऽयुतं जपेत् || ६९ || धनभोगं तथा राज्यं लोकेशत्वं विभुत्वता | क्रमेण फलमेतद्धि कथितं परमेश्वरि || ७० || चतुरासनयोगो हि सर्वत्र यदि चेद्भवेत् | साधकस्य सदा देवि किं तद्यन्न करे स्थितम् || ७१ || अष्टादशतित्वेन तावद्वाक्सिद्धिमाप्नुयात् | संकल्पमात्रद्देवेशि सिद्धिर्मभवति निश्चितम् || ७२ || श्लक्ष्णश्वाना फलं प्रोक्तं कोङ्कणानां फलं शिवे | एतद्द्वै शून्यवादैऽऽच कीर्तितं परमेश्वरि || ७३ || कम्बोजाना पक्षमात्रान्सिद्ध्यति जपमात्रतः | बाह्लीकानां फलं देवि दिवसत्रयगोचरम् || ७४ || फलं तु पार्वतीयानां मासाद्भवति निश्चितम् | वर्णानां सान्वता देवि पञ्चानां च वियुज्यते || ७५ || गत्या पञ्चविवत्वञ्च पर्वतानां विशेषतः | गुणिताः पञ्चसंख्याभिस्त्रयस्त्रिंशत्सहस्रकम् || ७६ || प्. १८२) तथाष्टदशतसंख्यानां मया प्रोक्ता महेश्वरि | नानालयप्रभेदेन कलौ त्वर्बुदसंख्यकाः || ७७ || अश्वाः प्रोक्ता मया देवि पक्षच्छेदस्तदा कृतः | कवचं स्तोत्रपाठश्च नामसाहस्रं कीर्तितम् || ७८ || जपमात्रेऽपि कर्तव्यं सर्वसिद्धिमभीप्सुभिः | शङ्कराणां फलं ह्येवमेव भवेद् ध्रुवम् || ७९ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे अश्वासनं नाम सप्तचत्वारिंशतिः पटलः || ४७ || ########### END OF FILE #######